TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकोनसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - एकोनसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकोनसप्ततितमोऽध्यायः
सनत्कुमार उवाच ॥
अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः ॥ मन्त्राणां यत्समा राध्य सर्वेष्टं प्राप्नुयाद्धवि ॥१॥
तारो रेचिकया युक्तो मेधानेत्रयुता रतिः ॥ ससर्गा वामकर्णाढ्यो भृर्गुवढ्यासनो मरुत् ॥२॥
शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः ॥ देवभागो मुनिश्छन्दो गायत्री रविः ॥३॥
माया वीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः ॥ सत्याय ह्रदयं पश्वाद्धह्यणे शिर ईरितम् ॥४॥
विष्णव तु शिखावर्म रुद्राय परिकीर्तितम् ॥ नेत्रं स्यादग्रये पश्चात्शर्वायास्त्रमुदात्दृतम् ॥५॥
नेत्रो ज्वाला मनो हुं फटू स्वाहांता मनवो गणाः ॥ पुनः षडर्णैह्रीं लक्ष्म्याः कृत्वांतः स्थैः षडंगकम् ॥६॥
शिष्टारौजठरे पृष्ठे तयोर्डैताख्यया न्यसेत् ॥ आदित्यं च रवि पश्वाद्धानुं भास्करमेव च ॥७॥
सूर्यं च मूर्घ्नि वदने ह्रदि गुह्ये च पादयोः ॥ सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्डेः ह्रदयोंऽतिमान् ॥८॥
ह्रीं रमामध्य गामष्टौ वर्णांस्तारादिकान्न्यसेत् ॥ मूर्द्धास्यंकठत्कुक्षिनाभिलिंगगुदेषु च ॥९॥
सचंद्रस्वरपूर्वं तु ङेत शीतांशुमण्डलम् ॥ मूर्द्धादिकंठपर्यंतं न्यसेच्चंद्रिमनुस्मरन् ॥१०॥
स्पर्शान्सेंदूर्समुच्चार्यं ङेत भास्करमण्डलम् ॥ न्यसेत्कंठादिनाभ्यंत ध्यायन्प्रद्योतनं ह्रदि ॥११॥
यादीन्सचंद्रानुच्चार्य ङेत च वह्रिमंडलम् ॥ नाभ्यादिपादपर्यंत न्यसेद्वह्रिमनुस्मरन् ॥१२॥
प्रोक्तोऽयं मण्डलन्यासो महातेजोविधायकः ॥ आदिठांतार्णपूर्व ङे नमोंत सोममण्डलम् ॥१३॥
मूर्द्धदिलहदयांत तु विन्यसेत्साधकोत्तमः ॥ डकारादिक्षकारांतार्णाद्यं वह्रिमण्ड्लम् ॥१४॥
ङेंत त्दृदादिपा दान्तं विन्यसेत्सुसमाहितः ॥ अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः ॥१५॥
न्यसेत्सेंदून्मातृकार्णोञ्जयांतपुरुषात्मने ॥ नमोंते व्यापकं मंत्री हंसन्यासोऽयमीरितः ॥१६॥
अष्टावष्टौ स्वराञ्शेषान्पंचपञ्च मितान्पुनः ॥ उक्तादित्यमुखानेतान्विन्यसेच्च नवग्रहान् ॥१७॥
आधारलिंगयोर्नाभौ ह्रदि कंठे मुखांतरे ॥ भ्रूमध्ये च तथा भाले ब्रह्मरंध्रे न्यसेत्क्रमात् ॥१८॥
हंसाख्यमग्रीषोमाख्यं मंडलत्रयमेव च । पुनर्न्या सत्रयं कुर्यान्मूलेन व्यापकं चरेत् ॥१९॥
एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं ह्रदंबुजे ॥ दानाभयाब्जयुगलं धारयंत करै रविम् ॥२०॥
कुंडलां गदकेयूरहारिणं च त्रयीतनुम् ॥ ध्यात्वैवं प्रजपेन्मंत्री वसुलक्षं दशांशतः ॥२१॥
रक्तांभोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ ॥ प्रथमं पीठ्यजने धर्मादीनां स्थले यजेत् ॥२२॥
प्रभूतं विमलं शार्म समाराध्यमनंतरम् ॥ परमादिमुखं मध्ये खबिंबांतं प्रपूजयेत् ॥२३॥
सोमाग्निमंडलं पूज्य रविमंडलमर्चयेत् ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ॥२४॥
अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ॥ ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्रीं संयुताः ॥२५॥
स्वरा बीजानि शक्तीनां तदाद्याः पूजयेतुः ताः ॥ ब्रह्मविष्नुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ ॥२६॥
एवं चान्ते योग पीठात्मने ह्रदयमीरयेत् ॥ ताराद्योऽयं पीठमंत्रस्त्वनेनासनमादिशेत् ॥२७॥
ध्रुवो वियद्विंदुयुतं  खं खखोक्लाय त्दृन्मनुः ॥ नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः ॥२८॥
साक्षिं जगता तस्यामावाह्य विधिवद्यजेत् ॥ ततः षडंगामाराध्य द्विक्ष्वष्टांगं प्रपूजयेत् ॥२९॥
संपूज्य मध्ये वादित्यं रविं भानुं च भास्करम् ॥ सूर्यं दिशासु सद्यादिपंच ह्रस्वादिकानिमान् ॥३०॥
स्वस्वनामादिवर्णाद्याः शक्तयोऽर्च्या विदिक्षु च ॥ उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत् ॥३१॥
पुरतोऽरुणमभ्यर्च्य सोमं ज्ञं गुरुं भृगुम् ॥ दिक्ष्वर्यमादिकानिष्ट्रा भूमिजं च शनैश्वरम् ॥३२॥
राहु केतुं च कोणेषु पूर्ववत्परिपूजयेत् ॥ इंद्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः ॥३३॥
इत्थं संपूज्य विधिवद्धास्करं भक्तवत्स्लम् ॥ समाहितो दिनेशाय दद्यादर्घ्यं दिने दिने ॥३४॥
प्राणानायम्य सद्धूमौ  न्यासान्कृत्वा पुरोदितान् ॥ विधायं मंडलं भानोः पीठं पूर्ववदर्चयेत् ॥३५॥
ध्यात्वार्कं प्रयजेद्दिव्यैर्मानसैरुपचारकैः ॥ पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम् ॥३६॥
निधाय मंडले रक्तचंदनादिविनिर्मिते ॥ विलोममातृकामूलमुच्चरन्पूरयेज्जलैः ॥३७॥
सूर्यबिंबविनिर्गच्छत्सुधांबुधिविभावितैः ॥ कुंकुमं रोचनां राजीं चंदनं रक्तचंदनम् ॥३८॥
करवीरं जपा शालिकुश्यामाकतंडुलान् ॥ तिलवेणुयाश्वैव निक्षिपेत्सलिले शुभे ॥३९॥
सांगं सावरणं तत्रावाह्यार्कं पूर्वद्यजेत् ॥ गंधपुष्पधूपदीपनैवेद्याद्यै र्विधानतः ॥४०॥
प्राणायामत्रयं कृत्वा क्रुर्यादंगानि पूर्ववत् ॥ सुधाबीजं चंदनेन दक्षे करतले लिखेत् ॥४१॥
तेनाच्छाद्यार्घ्यपात्रं च जपेन्म्नुमनन्यधीः ॥ अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम् ॥४२॥
हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः ॥ आमूर्घ्नि पात्रमुद्धृत्यांबरेण वरने खेः ॥४३॥
दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः ॥ साधकेन स्वकैक्येन मूलंमंत्रं धिया जपन् ॥४४॥
अर्घ्यं दद्याद्रविं ध्याय नक्तचंदनमंडले ॥ दत्त्वा पुष्पांजलिं भूयो जपेदष्टोत्तरं शतम् ॥४५॥
नित्यं वा तद्दिनेऽप्य्वमर्घ्यं दद्याद्विवस्वते ॥ तेन तुष्टो दिनेशोऽस्मै दद्याद्वित्तं यशः सुखम् ॥४६॥
पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति ॥ अर्घ्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम् ॥४७॥
धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् ॥तेजोवीर्यशः कीर्तिविद्याविभवभोगदम् ॥४८॥
गायत्र्याराधनासक्तः संध्यावंदनतत्परः ॥ एवं मनुं जपन्विप्रो दुःख नैवाप्नुयात्क्कचित् ॥४९॥
विकर्तनाय निर्माल्यमेवं संपूज्य दापयेत् ॥ वियद्वह्रिमरुत्साद्यांतार्विसेंदुसमन्वितम् ॥५०॥
मार्तंडभरवाख्यं हि बीजं त्रैलोक्यमोहनम् ॥ बिंबबी जेन पुटितं सर्वकामफलप्रदम् ॥५१॥
पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः ॥ भृगुर्जलेंदुमन्वाढ्यः सोमाय ह्रदयांतिमः ॥५२॥
षडक्षरो मंत्रराजो मुनि रस्य भृगुर्मतः ॥ छंदः पंक्तिस्तु सोमोऽस्य देवता परिकीर्तिता ॥५३॥
आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ॥ षड्‌दीर्घेण स्वबीजेन षडंगानि समाचरेत् ॥५४॥
पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् ॥ विभ्राणामिष्टं कुसुदं ध्यायेन्मुक्तास्त्रजं विधुम् ॥५५॥
ऋतुलक्षं जपेन्मंत्रं पायसेन ससर्पिषा ॥ जुहुयात्तद्दशांशेन पीठे सोमांतपूजिते ॥५६॥
मूर्तिमूलेन संकल्पे पूजयेद्विधिवद्विधुम् ॥ केसरेष्वंगपूजा स्यात्पत्रेष्वेताश्व शक्तयः ॥५७॥
रोहिणी कृत्तिका चैव रेवती भरणी पुरः ॥ रात्रिरार्द्रा ततो ज्योत्स्ना कला हारसमप्रभा ॥५८॥
सुशुल्कमाल्यवसना मुक्ताहारविभूषिताः ॥ सर्वास्स्तनभराक्रांता रचितांजलयः शुभाः ॥५९॥
स्वप्रियासक्तमनसो मदविभ्रममंथराः ॥ समम्यर्च्याः सरोजाक्ष्यः पूर्णेदुसहशाननाः ॥६०॥
दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः ॥ आदित्यभूसुतबुधमंददेवेज्यराहवः ॥६१॥
शुक्रकेतुयुता ह्योते पूज्याः पत्राग्रगा ग्रहः ॥ रक्तारुणश्वेतनीलपीतधूम्रसिताऽसिताः ॥६२॥
वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः ॥ लोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः ॥६३॥
एवं संसाधितो मंत्रः प्रयच्छेदिष्टमात्मनः ॥ पौर्णमास्यां जिताहारो दद्याअदर्घ्यं विधूदये ॥६४॥
मंडलत्रितयं कुर्यात्प्राक्प्रत्यगायतं भुवि ॥ पश्विमे मंडले स्थित्वा पूजाद्रव्यं च मध्यमे ॥६५॥
संस्थाप्य सोममन्यस्मिमंडलेऽब्जसमन्विते ॥ समभ्यर्च्यं विधानेन पीठपूज नपूर्वंकम् ॥६६॥
स्थापयेद्राजतं पात्रं पुरतस्तत्र मंत्रवित् ॥ सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम् ॥६७॥
अष्टोत्तरशतं पश्वाद्विद्या मंत्रैण मंत्रवित् ॥ दद्यानिशाकरायार्घ्यं सर्वाभीष्टार्थसिद्धये ॥६८॥
क्रुअयदनेन प्रतिमासमतंद्रितः ॥ वर्षातरेण सवष्टं प्राप्नोति भुवि मानवः ॥६९॥
विद्ये विद्यामालिनी स्यादत चंद्रिणि सवदेत् ॥ चंद्रमुखि द्विठांतोऽयं विद्यामंत्र उदाह्रतः ॥७०॥
एवं कुसुदिनीनाथमंत्रं यो जपति ध्रुवम् ॥ धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभतेऽचिरात् ॥७१॥
अथांगारकमंत्रं तु वक्ष्ये धनसुतप्रदम् ॥ तारो दीर्घेदुग्युग्व्योम तदेर्वेद्युयुतः पुनः ॥७२॥
षांतः सर्गी च चंडीशौ क्रमादिंदुविसर्गिणौ ॥ षडर्णौऽयं महामंत्रो मंगलस्याखिलेष्टदः ॥७३॥
विरुपाक्षो मुनिश्र्छंदो गायत्रं देवता कुजः ॥ मंत्राणैः षड्‌भिरंगानि क्रुर्वन्ध्यायेद्धरात्मजम् ॥७४॥
मेषस्थं रक्तवस्त्रांगं शूलशक्तिगदावरान् ॥ करौर्बिभ्राणमीशानखेदजं भूसुतं स्मरेत् ॥७५॥
रसलंक्ष जपेन्मंत्रं दशांशं खदिरोद्धवैः ॥ समिद्धिर्जुहुयादग्रौ शैवे पीठे यजेत्कुजम् ॥७६॥
प्रागंगानि समाराध्य ह्येकविंशतिकोष्ठकम् ॥ मंगलो भूमिपुत्रश्व ऋणहर्ता धनप्रदः ॥७७॥
स्थिरासनो महाकायः ॥ सर्वकर्माविरोधकः ॥लोहितो लोहिताक्षश्व सामगानां कृपाकरः ॥७८॥
धरात्मजः कुजो भौमो भूमिदो भूमिनंदनः ॥ अंगारको महीसूनुः सर्वगापहारकः ॥७९॥
वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः ॥ इत्येक विंशतिः प्रोक्ता मूर्तयो भूसुतस्य वै ॥८०॥
मंगलादीन्यजेन्मंत्री स्वस्वस्थानस्थितान्क्रमात् ॥ इंद्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः ॥८१॥
सुतकामा कुरंगाक्षी भौमव्रतमुपाचरेत् ॥ मार्गदशीर्षेऽथ वैशाखे व्रतारंभः प्रशस्यते ॥८२॥
अरुणोदयवेला यामुथायावश्यकं पुनः ॥ विनिर्तर्त्यं रदान्धावेदपामार्गैण वाग्यता ॥८३॥
स्नात्वा रक्ताबंधरधरा रक्तमाल्यविलेपना ॥ नैवेद्यादींश्व संमारान्रक्तान्सर्वान्र्पकल्पयेत् ॥८४॥
योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया ॥ रक्तगोगोमयालिप्तभूमौ  रक्तासने विशेत् ॥८५॥
आचम्य देशकाली च स्मृत्वा काम्य समुच्चरन् ॥ मङुलादीनि नामानि स्वकीयांगेषु विन्यसेत् ॥८६॥
मुखे प्रविन्यसेत्साधी सामगानां कृपाकरम् ॥ धरात्मजं नसोरक्षणोः कुजं भौमं ललाटके ॥८७॥
भूमिदं तु भ्रुवार्मध्ये मस्तके भूमिनन्दनम् ॥ अङारकं शिखायां च सर्वांगे च महीसुतम् ॥८८॥
बाहुद्वये न्यसेत्पश्वात्सर्वरोगापहारकम् ॥ मूर्द्धादि वृष्टिकर्तारमापादांतं न्यसेत्सुधीः ॥८९॥
विन्यसेद्धृष्टिहर्तारं मूर्द्धातं चरणादितः ॥ न्यसेदंते ततो दिक्षु सर्वकार्यार्थासिद्धिदम् ॥९०॥
नाभौ ह्रदि शिरस्यारं वक्रे भूमिजमेव च ॥ विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम् ॥९१॥
मानसैरुपचारैश्व संपूज्यार्घ्यं निधापयेत् ॥ एक्विंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे ॥९२॥
आवाह्यङारकं तत्र रक्तपुष्पादिभिर्य जेत् ॥ अङानि पूर्वमाराध्य मङुलादीन्प्रपूजयेत् ॥९३॥
एकविंशातिकोष्ठेषु चक्रमारं च भूमिजम् ॥ त्रिकोणषु च सम्पूज्य बहिरष्टौ च मातृकाः ॥९४॥
इंद्रादीनथ वज्रादीन्बाह्ये संपूजयेत्पुनः ॥ धूपदीपौ गोधूमान्नं निवेदयेत् ॥९५॥
ताम्रपात्रे शुद्धतोयपूरिते रक्तचंदनम् ॥ रक्तपुष्पाक्षतफलान्याक्षिप्यार्घ्यं समर्पयेत् ॥ मंगलाय ततो मंत्री इदं मंत्रद्वयं पठेत् ॥९६॥
भूमिपुत्र महातेजः स्वेदोद्धव पिनाकिनः ॥ सुतार्थिनी प्रपन्ना त्वां गृहाणार्घ्यं नमोऽस्तु ते ॥९७॥
रक्तप्रवालसंकाश जपाकुसुमसन्निभ ॥ महीसुत महाभाग गृहाणार्घ्यं नमोऽस्तु ते ॥९८॥
एकविंशतिपूर्वोक्तैर्ङेमोतैश्व नामभिः ॥ ताराद्यैः प्रणमेत्पश्चात्तावत्यश्व प्रदक्षिणाः ॥९९॥
धरनीगर्भसंभूतं विद्युत्तेजः समप्रभम् ॥ कुमारं शक्तिहस्तं च मङुलं प्रणमाम्यहम् ॥१००॥
ततो रेखात्रयं कुर्यात्खदिरांगारकेण च ॥ मार्जयेद्वामपादेन मंत्राभ्यां च समाहिता ॥१०१॥
दुःखदौर्भाग्यनाशाय पुत्रसंतानहेतवे ॥ कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ॥१०२॥
ऋणदुःखविनाशाय मनोभीष्टार्थसिद्धिये ॥ मार्जयाभ्यसिता रेखास्तिस्त्रो जन्मत्रयोद्धवाः ॥१०३॥
स्तुवीत धरणीपुत्रं पुष्पांजलिकरा ततः ॥ ध्यायंती तत्पदांभोजं पूजासांगत्वसिद्धये ॥१०४॥
ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्रयानाशिने ॥ सौभाग्यसुखदो नित्यं भव मे धरणीसुत ॥१०५॥
तप्तकांचनसंकाश तरुणार्कसमप्रभ ॥ सुखसौभाग्यधनद ऋणदारिद्यनाशक ॥१०६॥
ग्रहराज नमस्तेऽस्तु सर्वकल्याणकारक ॥ प्रसादं कुरु देवेश सर्वकल्याणभाजन् ॥१०७॥
देवदानवगंधर्वयक्षराक्षसपन्नगाः ॥ आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोर्थाः ॥१०८॥
आचिरादेव लोकेऽस्मिन्यस्याराधनतो जनाः ॥ प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे ॥१०९॥
यो वक्रगतिमापन्नो नृणां दुखं प्रयच्छति ॥ पूजितं सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ॥११०॥
नभसि द्योतमानाय सर्वकल्याणहेतवे ॥ मङुलाय नमस्तुभ्यं धनसंतानहेतवे ॥१११॥
प्रसादं कुरु मे भौम मंगलप्रद मंगल ॥ मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः ॥११२॥
एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् ॥ यथाशक्तया प्रदाय स्वं गृह्री याद्धाह्यणाशिषः ॥११३॥
गुरवे दक्षिणां दत्त्वा भुञ्जीयातन्निवेदितम् ॥११४॥
एवमावत्सरं कुर्यात्पतिमंगलवासरम् ॥ तिलैर्होमं विधायाथ शतार्द्ध भोजयेद्दिजान् ॥११५॥
भौममूर्ति स्वर्णमयीमाचायीय समर्पयते‍ ॥ मंडलस्थे घटेऽभ्यर्च्येत्सुतसौभाग्यसिद्धये ॥११६॥
एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् ॥ ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि ॥११७॥
ब्राह्मणः प्रजपेन्मन्त्रंग्निर्मूर्द्धेति वैदिकम् ॥ अंगारकस्य गायत्रीं वक्ष्ये यजनसिद्धये ॥११८॥
अंगारकाय शब्दांते विद्महे पदमीरयेत ॥ शक्तिहस्ताय वर्णांते घीमहीति समुच्चरेत् ॥११९॥
तन्नो भौमः प्रचोवर्णा न्दयादिति च संवदेत् ॥ भौमस्यैषा तु गायत्री जप्तुः पदमीरयेत् ॥१२०॥
भौमोषासमेतद्धि बुधन्त्रमथोच्यते ॥ फांतः कर्णेसंयुक्तो बुधो ङेंसे ह्रदंतिमः ॥१२१॥
रसाणो बुधमन्त्रोऽयं मुनिब्रह्यास्य कीर्तितः पंक्तिश्छैदो देवता तु बुधः सर्वष्टदो नृणाम् ॥१२२॥
आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ॥ वंदे बुधे सदा भक्त्या पीताम्बरविभूषणाम् ॥१२३॥
जानुस्थामहस्ताढचं साभयेतपाणिकम् ॥ ध्यात्वैवं प्रजपेसहस्त्रं विजितेंद्रियः ॥१२४॥
दर्शांशं जुहुयादाज्यैः पीठे पूर्वोदितेऽर्चयेत् ॥ अङुमातृदिशापालहेतिभिर्बुधमर्चयेत् ॥१२५॥
एवं सिद्धे मनौ मंत्री साधयेत्स्वमनोरथान् ॥ सहस्त्रं प्रजपेन्मत्रं नित्यं दशदिनावधि ॥१२६॥
तस्याशु ग्रहजा पीडा नश्यत्येव न संशयः ॥ बुधस्याराधनं प्रोक्तं गुरोराराधनं श्रृणु ॥१२७॥
बृहंस्पतिपदं ङेंऽतं सेंद्वाद्यर्णाघमंडितम् ॥ नमौंतो वसुवर्णोऽयं मुनिर्ब्रह्यास्य संमतः ॥१२८॥
छन्दोऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् ॥ ह्रच्छक्तिदीर्घवह्रींदुयुगलेनांगकल्पना ॥१२९॥
न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् ॥ किरंतं पीत पुष्पालंकाराले पांशुकार्चितम् ॥१३०॥
सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् ॥ लक्षं जपो दशांशेन घृतेनान्ने वा हुनेत् ॥१३१॥
धर्मादिपीठे प्रयजेदंग दिक्पालहेति भिः ॥ एवं सिद्धे मनौ मंत्री साधयोदिष्टमात्मनः ॥१३२॥
विषरोगादिपीडासु कलहे स्वजनोद्धवे॥ पिप्पलोत्थमिद्धिश्व जुहुयात्तन्निवृत्तये ॥१३३॥
हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः ॥ स विंशतिशतं शीघ्रं वासांसि लभते महीम् ॥१३४॥
गुरोराराधनं प्रोक्तं श्रृणु शुक्रस्य सांप्रतम् ॥ वस्त्रं मे देहि शुक्राय ठद्वयांतो ध्रुवादिकः ॥१३५॥
रुदार्णोऽयं मनुर्ब्रह्या मुनिश्छन्दो विराड्डत ॥ दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया ॥१३६॥
भूनेत्र चन्द्रनेत्राग्नित्रार्णैः स्यात्षडंगकम् ॥ शुक्लांबरालेपभूषं करेण ददतं धनम् ॥१३७॥
वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः ॥ अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद्‍ घृतैः ॥१३८॥
धर्मादिपीठे प्रयजेदंगेंद्रादितदायुधैः ॥ श्वेतपुष्पैः सुगंधैश्व  जुहुयाद्‍ भृगुवासरे ॥१३९॥
एकविंशतिवारं यो लभते सोंऽशुकं मणीन् ॥ मनवोऽमी सदा गोप्या न देया यस्य कस्यचित् ॥१४०॥
भक्तियुक्ताय शिष्याय देया वा निजसूनवे ॥१४१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरुपणं नामैकोनसप्ततितमोऽध्यायः ॥६९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:44:48.6170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

CSM

  • CSM 
  • (abbr. of corn-soya-milk 
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.