TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकोनविंशोऽध्यायः

श्री नारदीयमहापुराणम् - एकोनविंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


एकोनविंशोऽध्यायः

सनक उवाच ॥

अन्यद्ब्रतं प्रवक्ष्यामि ध्वजारोपणसंज्ञितम् ॥ सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम् ॥१॥

यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् ॥ संपूज्यते विरिञ्च्याद्यैः किमन्यैर्बहुभाषितैः ॥२॥

हेमभारसहस्त्रं तु यो ददाति कुटुम्बिने ॥ तत्फलं तुल्यमात्रं स्याद्धृजारोपणकर्मणः॥३॥

ध्वजारोपणतुल्यं स्याद्रङ्गास्नानमनुत्तमम् ॥ अथवा तुलसीसेवा शिवलिङ्गप्रपूजनम् ॥४॥

अहोऽपूर्वमहोऽपूर्वमहोऽपूर्वमिदं द्विज ॥ सर्वपाप हरं कर्म ध्वजारोपणसंज्ञितम् ॥५॥

सन्ति वै यानि कार्याणि ध्वजारोपणकर्मणि ॥ तानि सर्वाणि वक्ष्यामि श़ृणुष्व गदतो मम ॥६॥

कार्तिकस्यसिते पक्षे दशम्यां प्रयतो नरः॥ स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम् ॥७॥

एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् ॥ धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः॥८॥

ततः प्रातः समुत्थाय स्नात्वाचम्य यथाविधि ॥ नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत् ॥९॥

चतुर्भिर्ब्राह्मणैः सार्द्धं कृत्वा च स्वस्तिवाच नम् ॥ नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि ॥१०॥

ध्वजस्तम्भौ च गायत्र्या प्रोक्षयेद्वस्रसंयुतौ ॥ सूर्यं च वैनतेयं च हिमांशु तत्परोऽर्चयेत् ॥११॥

धातारं च विधातां पूजयेद्धजदण्डके ॥ हरिद्राक्षतगन्धाद्यैः शुक्लपुष्पैर्विशेपतः ॥१२॥

ततो गोचर्ममात्रं तु स्थाण्डिलं चोपलिप्य वै ॥ आधायाग्निं स्वगृह्योक्तया ह्याज्य भागादिकं क्रमात् ॥१३॥

जुहहुयात्पायसं चैव साज्यमष्टोत्तरं शतम् ॥ प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम् ॥१४॥

ततश्च वैनतेयाय स्वाहेत्यष्टाहुतीस्तथा ॥ सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज ॥१५॥

सौरमन्त्राञ्जपेत्तत्र शान्तिसूक्तानि शक्तितः ॥ रात्रौ जागरणं कुर्यादुपकण्ठं हरेः शुचिः ॥१६॥

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ॥ गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात् ॥१७॥

ततो मङ्गलवाद्यैश्चः सूक्तपाठैश्च शोभ नम् ॥ नृत्यैश्च स्तोत्रपठनैर्नयेद्विप्ण्वालये ध्वजम् ॥१८॥

देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः॥ सुस्थिरं स्थापयेद्विप्र ध्वजं सुस्तम्भसंयुतम् ॥१९॥

गन्धपुष्पाक्षतैद्दैवं धूपदीपर्मैनोहरेः ॥ भक्ष्यभोज्यादिसंयुक्तैर्नैवेद्येश्च हरिं यजेत् ॥२०॥

एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् ॥ प्रदिक्षणमनुव्रज्य स्तोत्रमेतदुदीरयेत् ॥२१॥

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥२२॥

येनेदमखिलं जातं यत्र सर्वं प्रतिष्ठितम् ॥ लयमेष्यति यत्रैवं तं प्रपन्नोऽस्मि केशवम् ॥२३॥

न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः ॥ योगिनोयं न पश्यन्ति तं वन्दे ज्ञानरूपिणम् ॥२४॥

अन्तरिक्षं तु यन्नाभिद्यौर्मूर्द्धा यस्य चैव हि ॥ पादोऽभूद्यस्य पृथिवी तं वन्दे विश्वरूपिणम् ॥२५॥

यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृच्छशी ॥ ऋक्सामयजुपी येन तं वन्दे ब्रह्मरूपिणम् ॥२६॥

यन्मुखाद्ब्राह्मणा जाता यद्बाहोरभवन्नृपाः॥ वैश्या यस्योरुतो जाताः पद्भ्य़ां शूद्रो व्यजायत ॥२७॥

मायासङ्गममात्रेण वदन्ति पुरुषं त्वजम् ॥ स्वभाविमलं शुद्धं निर्विकारं निरञ्जनम् ॥२८॥

क्षीराब्धिशायिनं देवमनन्तमपराजितम् ॥ सद्भक्तवत्सलं विष्णु भक्तिगम्यं नमाम्यहम् ॥२९॥

पृथिव्यादिनि भूतानि तन्मात्राणींन्द्रियाणि च ॥ सूक्ष्मासूक्ष्माणियेनासंस्तं वन्दे सर्वतोमुखम् ॥३०॥

यद्ब्रह्म परमं धाम सर्वलोकोत्तमोत्तमम् ॥ निर्गुणं परमं सूक्ष्मं प्रणतोऽस्मि पुनः पुनः ॥३१॥

अवकिारमजं शुद्धं सर्वतोबाहुमीश्वरम् ॥ यमामनन्ति योगीन्द्राः सर्वकारणकारणम् ॥३२॥

यो देवः सर्वभूतानामन्तरात्मा जगन्मयः॥ निर्गुणः परमात्मा च स मे विष्णुः प्रसादीतु ॥३३॥

हृदयस्थोऽपि दूरस्थो मायया मोहितात्मनाम् ॥ ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतुः ॥३४॥

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चाभिरेव च ॥ हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥३५॥

ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् ॥ गतिदाता विश्वमृग्यः स मे विष्णुः प्रसीदतु ॥३६॥

जगद्धितार्थ ये देहाध्रियन्ते लीलया हरेः॥ तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु ॥३७॥

यमामनन्ति वै सन्तः सच्चिदानन्दविग्रहम् ॥ निर्गुण च गुणाधारं स मे विष्णुः प्रसीदतु ॥३८॥

इति स्तुत्वा नमोद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् ॥ आचार्य पूजयेत्पश्चादृक्षिणाच्छादनादिभिः ॥३९॥

ब्राह्मणान्भोजयेच्छक्तया भक्तिभावसमन्वितः। पुत्रमित्रकलत्राद्यैः स्वयं च सह बन्धुभिः॥४०॥

कुर्वीत पारणं विप्र नारायणपरायणः॥ यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् ॥ तस्य पुण्यफलं वक्ष्ये श़ृणुष्व सुसमाहितः ॥४१॥

पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना ॥ तावन्ति पापजालानि नश्यन्त्येव न संशयः ॥४२॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥४३॥

यावद्दिनानि तिष्ठेत ध्वजो विष्णुगृहे द्विज ॥ तावद्युगसहस्राणि हरिसारूप्यमश्नुते ॥४४॥

आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ॥ तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः॥४५॥

आरोपिती ध्वजो विष्णुगृहे धुन्वपटं स्वकम् ॥ कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः ॥४६॥

यस्त्वा रोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् ॥ स देवयानेन दिवं यातीव सुमतिर्नृपः॥४७॥

इति श्रीबहुन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणन्नामेकोनविंशोऽध्यायः ॥१९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:35:05.8630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

roll bending

  • रुळ वक्रण 
RANDOM WORD

Did you know?

यज्ञोपवीत ( जानवे ) म्हणजे काय? त्याला किती दोरे असतात? त्याच्या गाठीला काय म्हणतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site