TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुष्षष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुष्षष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


चतुष्षष्टितमोऽध्यायः
सनत्कुमार उवाच ॥
अथ जीवस्य पाशौघच्छेदनायेष्टसिद्धिदम् ॥ दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम् ॥१॥
दिव्यं भावं यतो दद्यात्क्षुणुयाद्दुरितानि ती ॥ अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः ॥२॥
मनंन सर्ववेदित्वं त्राणं संखार्यनुग्रहः ॥ मननात्राणधर्मत्वान्मंत्र इत्यभिधीयते ॥३॥
स्त्रीपुंनपुंस्कात्मानस्ते मंत्रास्तु त्रिधा मता ॥ स्त्रीमंत्रास्तु द्विठांताः स्युःपुंमंत्रा हुंफडंतकाः ॥४॥
क्लीबाश्वेव नमोंऽताः स्युर्मंत्राणां जातयः स्मृता ॥ पुंदैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः ॥५॥
षट्रकर्मसु प्रशस्तास्ते मनवस्त्रिविधाः पुनः ॥ तारांत्यरेफः स्वाहास्तुः तत्राग्नेयाः समीरिताः ॥६॥
सौम्यास्तु भृगुपीयूषबीजाढ्याः कथिता मुने ॥ अग्नीशोमात्मका ह्येवं मंत्रा ज्ञेया मनीषिभिः ॥७॥
बोधमायांति चाग्नेयाः श्वसने पिंगलाश्रिते ॥ सौम्याश्वैव प्रबुध्यंते वामे वहति मारुते ॥८॥
सर्वे मंत्राः प्रबुध्यंते वायौ नाडिद्वयाश्रिते ॥ स्वापकाले तु मन्त्रस्य जपोऽनर्थ फल प्रदः ॥९॥
प्रत्येकं मन्त्रमुच्चार्य नाव्यानां तान्समुचरेत् ॥ अनुलोमे बिंदुयुक्तान्विलोमे सर्गसंयुतान् ॥१०॥
जप्तो यदि स वै देवं प्रबुद्धः क्षिप्रसिद्धिदः ॥ अनया मालया जप्तो दुष्टन्त्रोऽपि सिद्धयति ॥११॥
कूरे कर्मणि चाग्नेयाः सौम्याः सौम्य फलप्रदाः ॥ शांतज्ञानेति रौद्रेयशांतिजाति समन्वितः ॥१२॥
शांतोऽपि रौद्रतामेदि हुंफटूपल्लवयोजनात् ॥ छिन्नदिदोषयुक्तास्ते नैव रक्षंति साधकम् ॥१३॥
छिन्नो रुद्धः शक्तिहीनस्तत श्वैव पराङ्‌मुखः ॥ कर्णहीनो नेत्रहीनः कीलितः स्तंभितस्तथा ॥१४॥
दग्धः स्त्रस्तश्व भीतश्व मलिनश्व तिरस्कृतः ॥ भेदितश्व सुषुप्तश्व मदोन्मत्तश्व मूर्च्छितः ॥१५॥
हतवीर्यो भ्रांतसंज्ञः प्रध्वस्तो बालकस्तथा ॥ कुमारोऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ॥१६॥
निर्बीजः सिद्धिहीनश्व मंदः कूटो निरंशकः ॥ सत्त्वहीनः केकश्व बीजहीनश्व धृमितः ॥१७॥
आलिंगितो मोहितश्व क्षुधार्तश्वातिदीप्तकः ॥ अंगही नोऽतिक्रुद्धश्वातिक्रूरो व्रीडितस्तथा ॥१८॥
प्रशांतमानसः स्थानभ्रष्टश्व विकलस्तथा ॥ अतिवृद्धोऽतिनिःस्त्रेहः पीडितश्व तथा पुनः ॥१९॥
दोषा ह्येते समाख्याता वक्ष्याम्येषां च लक्षणम् ॥ संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरंसंयुतम् ॥२०॥
मनोर्यस्तादिमघ्यांते वह्रिबीजं तथोच्यते ॥ चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ॥२१॥
मनोर्यस्यादिमध्यंते भूबीजद्वयमुच्यते ॥ सतु रुद्धो मनुज्ञेयो ह्यतिक्लशेन सिद्धिदः ॥२२॥
तारवर्मत्रया लक्ष्मीरेवं हीनस्तु यो मनूः ॥ शक्तिहीनः स विज्ञेयश्विरकालफलप्रदः ॥२३॥
कासबीजं मुखे माया ह्यते चैवाङ्ङुशं तथा ॥ असौ पराङ्‌मुखो ज्ञेयो भजतां चिरसिद्धिदः ॥२४॥
आदिमध्यावसानेषु सकारो दृश्यते यदि ॥ स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः ॥२५॥
पञ्चार्णो यदि रेफार्कबिंदुवर्जितविग्रहः ॥ नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः ॥२६॥
आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ॥ हंसेंदुर्वा सकारो वा फकारो वर्म वा पुन ॥२७॥
माप्रा नमामि च पदं नास्ति यस्मिन्स कीलितः ॥ एवं मध्ये द्वयं मूध्रिं यस्मिन्नस्त्रलकारकौ ॥२८॥
न विद्येते स मंत्रस्तु स्तंभितः सिद्धिरीधकृत् ॥ अग्रिः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि ॥२९॥
स सार्णो दृअश्यते यस्तु स मंत्रो दग्धसंज्ञकः ॥ अस्त्रं द्वाभ्यां त्रिभिः षड्‌भिरष्टाभिर्द्दश्यतेऽक्षरैः ॥३०॥ 
त्रस्तः स मंत्रो विज्ञेयो मुखे तारविवर्जितः ॥ हकारः शक्तिरवथा भीतो मंत्र स एव हि ॥३१॥
मनोर्यस्यादिमध्यंति रयान्मकारचतुष्टयम्‍ ॥ मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः ॥३२॥
दार्णो यस्य मनोर्मध्ये मूर्ध्न्रि को धयुगं तथा ॥ अस्त्रं चास्ति स मंत्रस्तु तिरस्कृत उदीरितः ॥३३॥
भ्योद्वयं ह्रदयं शीर्षे वषडौषट्‌कमध्यमः ॥ यस्य स्याधेदितो मंत्रस्त्याज्यः क्लिष्टफलप्रदः ॥३४॥
त्र्यक्षरो हंसहीनो यः सुषुप्तः कीर्ति तस्तु सः ॥ विय्द वाप्यथवा मंत्रो भवेत्सप्तदशाक्षरः ॥३५॥
षट्‌कारपंचकादिर्यो मदोन्मत्तस्तु स स्मृतः ॥ यस्य मध्ये स्थितं चास्त्रं स मंत्रो मूर्च्छित स्मृतः ॥३६॥
विरामस्थानगं चास्त्रं हतवीर्यः स उच्यते ॥ मंत्रस्यादौ च मध्ये च मूर्ध्रि चास्त्र चतुष्टयम् ॥३७॥
ज्ञातव्यो भ्रांत इत्येष यः स्यादष्टा दशाक्षरः ॥ पुनर्विशतिवर्णो वा यो मंत्रः स्मरसंयुतः ॥३८॥
हल्लेखांकुशबीजाढ्यः प्रध्वस्तः स कथ्यते॥ सप्तार्णो बालमंत्रस्तु कुमारो वसुवर्णवान् ॥३९॥
षोडशार्णो युवा प्रौडश्वत्वारिम्शतिवर्णकः ॥ त्रिंशद्वर्णश्वतुः षष्टिवर्णश्वापि शताक्षरः ॥४०॥
चतुःशताक्षरो मंत्रो वृद्ध इत्यभिधीयते ॥ नवार्णस्तार संयुक्तो मंत्रो निस्त्रिंश उच्यते ॥४१॥
यस्यांते ह्रदयं प्रोक्तं शिरोमंत्रोऽथ मध्यगः ॥ शिखा वर्म च यस्यांते नेत्रमस्त्रं च दृश्यते ॥४२॥
शिव शक्तयार्णहीनो वा निबीजः स मनुः स्मृतः ॥ आद्यंतमध्य फट्‌कारः षोढा यस्मिन्प्रदृश्यते ॥४३॥
स मुनः सिद्धिहीनः स्यान्मंदः पंक्तयक्षरो मनुः ॥ कूट एकाक्षरो मंत्रः स एवोक्तो निरंशकः ॥४४॥
द्विवर्णः सत्त्वहीनः स्यात्केकरश्वतुरक्षरः ॥ षडर्णो बीजहीनो वा सार्द्धसप्ताक्षरोऽपि वा ॥४५॥
सार्द्धद्वादशवर्णो वा धूमितो निंदितस्तु सः ॥ सार्द्धबीजत्रययुतो मंत्रो विंशतिवर्णवान् ॥४६॥
त्रिंशद्वर्णश्वैकविंशद्वर्णश्वलिगितस्तु सः ॥ यो मंत्रो दंतवर्णस्तु मोहितः स तु कीर्तितः ॥४७॥
चतुर्विशतिवर्णो वा सप्तविंशतिवर्णवान् ॥ क्षुधार्तः स तु विज्ञेयो मंत्रसिद्धिविवर्जितः ॥४८॥
एकादशाक्षरो वापि पंचाविंशतिवर्णकः ॥ त्रयोविंश्तिवर्णो वा स मनुर्दृप्तसंज्ञकः ॥४९॥
षडिंशत्यक्षरो वापि षट्‌त्रिंशद्वर्णकोऽपि वा ॥ एकोन त्रिंशदर्णो वा मंत्रो हीनांगकः स्मृत ॥५०॥
अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः ॥ अतिक्रूरः स विज्ञेयोऽखिलकर्मसु गर्हितः ॥५१॥
चत्वारिंशत्समारभ्य त्रिषष्टंयतस्तु यो मनुः ॥ व्रीडितः स तु विज्ञेयः सर्वकर्मसु न क्षमः ॥५२॥
एञ्चषष्टयक्षरा मन्त्रा ज्ञेया वै शांतमानसाः ॥पञ्चषष्टयर्णमारभ्य नवनन्दाक्षरावधि ॥५३॥
ये मंत्रास्ते तु विज्ञेयाः स्थानभ्रष्टा मुनीश्वर ॥ त्रयोदशार्णा ये मन्त्रस्तिथ्यर्णाश्व तथा पुनः ॥५४॥
विकलास्ते समाख्याताः सर्वतंत्रविशारदैः ॥ शतं सार्द्धशतं वापि शतद्वयमथापि वा ॥५५॥
द्विनवत्येकहीनो वा शतत्रयमथापि वा ॥ ये मंत्रा वर्णसंख्याका निःस्त्रेहास्ते प्रकीर्तिता ॥५६॥
चतुःशय समारभ्य सहस्त्रार्णावधि द्विज ॥ अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः ॥५७॥
सहस्त्रवर्णादधिका मंत्रास्ते पीडिताह्रयाः ॥ तदूर्द्धं चैव ये मंत्रा स्तोत्ररुपास्तु ते स्मृताः ॥५८॥
ईवं विद्याः समाख्याता मनवो दोष संयुताः ॥ दोषानेतानाविज्ञाय मंत्रानेताञ्जपन्ति ये ॥५९॥
सिद्धिर्न जायते तेषां कल्पकोटिशतैरपि ॥ छिन्नदिदोषदुष्टानां मंत्राणां साधनं ब्रुवे ॥६०॥
योनिमुद्रासने स्थित्वा प्रजवेद्यः समाहितः ॥ यं कंचिदपि वा मंत्रं तस्य स्युः सर्वसिद्धयः ॥६१॥
सव्यपर्ष्णि गुदे स्थाप्य दक्षिणं च ध्वजोपरि ॥ योनिमुद्राबंधं एवं भवेदासनमुत्तमम ॥६२॥
अन्योऽप्यत्र प्रकारोऽस्ति योनिमुद्रानिबंधने ॥ तदग्रे सरहस्तं ते कथयिष्यामि नारद ॥६३॥
पारंपर्यक्रमप्राप्तो नित्यानुष्ठानतत्परः ॥ गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः ॥६४॥
सुंदरः सुमुखः शांतः कुलीनः सुलभो वशी ॥ मंत्रतंत्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः ॥६५॥
निरपेक्षी मुनिर्दांतो हितवादी विचक्षणः ॥ तत्त्वनिष्कासने दक्षो विनयी च सुवेशवानु ॥६६॥
आश्रमी ध्याननिरतः संशयच्छित्सुबुद्धिमान् ॥ नित्यानुष्ठानसंयुक्तस्त्वाचार्यः परिकीर्तितः ॥६७॥
शांतो विनीतः शुद्धात्मा सर्वलक्षणसंयुतः ॥ शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः ॥६८॥
शुद्धदेहोऽन्नपान्नाद्यैर्द्धार्मिकः शुद्धमानसः ॥ दृढव्रतसमाचारः कृतज्ञः पापभीरुकः ॥६९॥
गुरुध्यानस्तुतिकथासेवनासक्तमानसः ॥ एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः ॥७०॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे चतुष्षष्टितमोऽध्यायः ॥६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:39:27.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

व्याघ्रदत्त

  • n. मगध देश का एक राजकुमार, जो भारतीय युद्ध में कौरवों के पक्ष में शामिल था । सात्यकि ने इसका वध किया [म. द्रो. ८२.३२] 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.