TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकोनपञ्चाशत्तमोध्यायः

श्री नारदीयमहापुराणम् - एकोनपञ्चाशत्तमोध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकोनपञ्चाशत्तमोध्यायः
सनंदन उवाच॥
निशम्य तस्येति वचः परमार्थसमन्वितम् ॥ प्रश्रयावनतो भूत्वा तमाह नृप तिद्विजम् ॥१॥
राजोवाच ॥
भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः॥ श्रुते तस्मिन्भ्रंमतीव मनसो मम वृत्तयः ॥२॥
एतद्विवेकविज्ञानं यदि शेषुषु जंतुषु ॥ भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥३॥
नाहं वहामि शिबिकां शिबिका मयि न स्थिता ॥ शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥४॥
गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता ॥ प्रवर्तंते गुणाश्वैत किं ममेति त्वयोदितम् ॥५॥
एतस्मिअन्परमार्थज्ञ मम श्रोत्रपथं गते ॥ मनो विह्यलतामेति पर मार्थार्थतां गतम् ॥६॥
पूर्वमेव महाभाग कपिलर्षिमहं द्विज ॥ प्रष्टुमभ्युद्यतो गत्वा श्रेयः किंत्वत्र संशये ॥७॥
तदंतरे च भवता यदिदं वाक्यमी रितम् ॥ तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥८॥
कपिलर्षिर्भगवतः सर्वभूतस्य वै किल ॥ विष्णोरंशो जगन्मोहनाशाय समुपागतः ॥९॥
स एव भगवान्नूमस्माकं हितकाम्यया ॥ प्रत्यक्षतामनुगतस्तथैतद्धवतोतोच्यते ॥१०॥
तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज ॥ तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥११॥
ब्राह्मण उवाच ॥
भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि ॥ श्रेयांसि परमार्थानि ह्यशेषाण्येव भूपते ॥१२॥
देवताराधनं कृत्वा धनसंपदमिच्छति ॥ पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥१३॥
विविकिनस्तु संयोगः श्रेयोऽसौ परमात्मना ॥ कर्मयज्ञा दिकं श्रेयः स्वर्लोकफलादायि यत् ॥१४॥
श्रेयःप्रधानं च फले तदेवानभिसंहिते ॥ आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ॥१५॥
श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ श्रेयास्येवमनेकानि शतशोऽथ सहस्त्रशः ॥१६॥
संत्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ धर्मोऽयं त्यजते किं तुपरमार्थो धनं यदि ॥१७॥
व्ययश्वक्रियत कस्मात्कामप्राप्त्युपलक्षणः ॥ पुत्रश्वेत्परामार्थाख्यः सोऽप्यन्यस्य नरेश्वर ॥१८॥
परमार्थभूत सोऽन्यस्य परमार्थो हि नः पिता ॥ एवं न परमार्थोऽस्ति जगत्यत्रं चराचरे ॥१९॥
परमार्थो हि कार्याणि करणानामशेषतः ॥ राज्यदिप्राप्तिरत्रोक्ता परमार्थतया यदि ॥२०॥
परमार्था भवंत्यत्र न भवंति च वै ततः ॥ ऋग्यजुःसामनिष्पांद्य यज्ञकर्म मतं तव ॥२१॥
परमार्थभूतं तत्रापि श्रूयता गदतो मम ॥ यत्तु निष्पाद्यते कार्यं मृदा कारणभुतया ॥२२॥
तत्कारणानुगमनाज्जायती नृप मृन्मयम् ॥ एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ॥२३॥
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ अनाशी परमार्थस्तु प्राज्ञैभ्युपगयते ॥२४॥
यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् ॥ तदेवाफलदं कर्म परमार्थो मतो मम ॥२५॥
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ ध्यानमेवात्मनो भूप परमार्थोर्थशब्दितम् ॥२६॥
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ परमार्थात्मनोर्योगः परमार्थ इतीष्यते ॥२७॥
मिथ्यैतदन्यद्दव्यं हि नैतद्दव्यमयं यतः ॥ तस्माछ्रेयांस्यशेषाणि नृपैतानि न संशयः ॥२८॥
परमार्थस्तु भूपाल संक्षेपाच्छ्रयताम मम ॥ एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ॥२९॥
जन्मवृद्धयादिरहित आत्मा सर्वगतो नृप ॥ परिज्ञानमयो सद्धिर्नामजात्यादिभिविभुः ॥३०॥
न योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्याति ॥ तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ॥३१॥
विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः॥ वेणुरंध्रविभेदेन भेदः षङ्जदिसंज्ञितः ॥३२॥
अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः ॥ एकत्वं रुपभेदश्व वाह्यकर्मप्रवृत्तिजः ॥३३॥
देवादिभेदमध्यास्ते नास्त्येवाचणो हि सः ॥ श्रृण्वत्र भूप प्राग्वृतं यद्धीतसृभुणा भवेत् ॥३४॥
अवबोधं जनयतो निदाघस्य द्विजनमः ॥ ऋभुर्नामाऽभवत्पुत्रो ब्रह्मणः परमेष्ठिनः ॥३५॥
विज्ञात तत्त्वसद्धावी निसर्गादेव भूपते ॥ तस्य शिष्यो निदाघोऽभूत्पुलस्त्यनयः पुरा ॥३६॥
प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥ अवाप्तमति तत्त्वस्य न तस्याद्वैतवासना ॥३७॥
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥ देविकायास्तटे वीर नागरं नाम वै पुरम् ॥३८॥
समृद्धमति रम्यं च पुलस्त्येन निवेशितम् ॥रम्योपवनपर्यंतं स तस्मिन्पार्थिवोत्तम ॥३९॥
निद्राघनामायोगज्ञस्तस्य शिष्योऽभवत्पुरा ॥ दिव्ये वर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् ॥४०॥
जगाम स ऋभुः शिष्यं निदाघमवलोकितुम ॥ स तस्य वैश्वदेवांते द्वारालोकनगोचरः ॥४१॥
स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः ॥ प्रक्षालितांघ्रपाणिं च कृपासनपरिग्रहम् ॥४२॥
उवाच स द्विजश्रेष्ठो भुज्यतामिति सादरम् ॥ ऋभुरु वाच ॥ भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ॥४३॥
तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥ निदाघ उवाच ॥ सक्तुयावकव्रीहीनामपूपानां च मे गृहे ॥४४॥
यद्रोचते द्विजश्रेष्ठ ताक्द्धुक्ष्व यथेच्छया । ऋभुरवाच ॥ कदन्नानिदिजैतानि मिष्टमन्नं प्रयच्छ मे ॥४५॥
संयावपायसादीनि चेक्षुक रसवंति च ॥ निदाघ उवाच ॥ गृहे शालिनि मद्रेहे यत्किचिदत शोभनम् ॥४६॥
भोज्येषु साधनं मिष्टं तनास्यान्नं प्रसाधय ॥ इत्युक्ता तेन सा पत्नी मिष्टमंत्र द्विजस्य तत् ॥४७॥
प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ॥ त भुक्तवंतमिच्छातो मिष्टमन्नं महामुनिम् ॥४८॥
निदायः प्राह भूपाल प्रश्रयावनतः स्थितः ॥ निदाघ उवाच ॥ अपि ते परमा तृप्तिर्पन्ना पुष्टिरेव ॥४९॥
अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ॥ क्क निवासी भवान्विप्र क्क वा गंतुं समुद्यतः ॥५०॥
आगम्यते च भवता यत्स्तच्च विनेद्यताम् ॥ ऋगुरुवाज ॥ क्षुधितस्य च भुक्तऽन्ने तृप्तिर्ब्रह्मन्विजायते ॥५१॥
न मे क्षुधा भवेत्तृप्ति कस्मानां द्विज पृच्छति ॥ वह्रिना पार्थिवेनादौ दगधे बै क्षुरापरिश्वः ॥५२॥
भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्धवः ॥ क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ॥५३॥
ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा ॥ मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ॥५४॥
चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते ॥ क्क निवासस्तवेत्युंक्क क्क गंतासि च यत्त्वय ॥५५॥
कुतश्वागम्यते त्वेतत्रितयेऽपि निबोध मे ॥ पुमान्स वर्गतो व्यापीत्याकाशवदयं यतः ॥५६॥
कुतः कुत्र क्क गंतसीत्येतदप्यर्थवत्कथम् ॥ सोऽहं गंता च चागंता नैकदेशनिकेतनः ॥५७॥
त्वं चान्ये च न च त्वं नान्ये नैवाहमप्यहम् ॥ मिष्टान्ने मिष्टमित्येषा जिह्या सा मे कृता तव ॥५८॥
किं वक्ष्यातीति तत्रापि श्रृयतां द्विजसत्तम॥ मिष्ट मेव यदामिष्टं तदेवोद्वेगकारणम् ॥५९॥
अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः ॥ आदिमध्यावसानेषु किमन्नं रुचिकारणम् ॥६०॥
मृण्मयं हि मृदा यद्वदृहं लिप्त स्थिरीभवेत् ॥ पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥६१॥
यवगोधूममुद्द्धादि घृतं तैलं पयो दधि ॥ गुडः फलानीति तथा पार्थिवाः परमाणवः ॥६२॥
तदेतद्धवता ज्ञात्वा मिष्टमिष्टविचारि यत‍ ॥ तन्मनःशमनालंबि कार्यं प्राप्यं हि मुक्तये ॥६३॥
इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप ॥ प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत ॥६४॥
प्रसीद मद्धितार्थाय कथ्यतां यस्त्त्वमागतः ॥ नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥६५॥
ऋभुरुवाच ॥ ऋभुरस्मि तवाचार्यःप्रज्ञादानाय ते द्विज ॥ इअहागतोऽहं दास्यामि परमार्थं सुबोधितम् ॥६६॥
एक एवमिंद विद्धि न भेदि सकलं जगत् ॥ वासुदेवभिवेस्य स्वरुपं परात्मनः ॥६७॥
ब्राह्मण उवाच ॥
तथेत्युक्ता निदाघेन प्रणिपातपुरःसरम् ॥ पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ॥६८॥
पुनवषसहस्त्रांते समायातो नरेश्वर ॥ निदाघज्ञानदानाय तदेव नगरं गुरुः ॥६९॥
नगरस्य बहिः सोऽथ निदाघं दृष्टवान् मुनिम् ॥ महाबलपरिवारे पुरं विशति पार्थिवे ॥७०॥
दूरस्थितं महाभागे जनसंमर्दर्जकम् ॥ सुत्क्षामकण्ठमायांमरण्यात्ससमित्कुशम् ॥७१॥
दृष्ट्रा निदाघ्म स ऋभुरुपागत्याभिवाद्य च ॥ उवाच कस्मादेकांते स्थीयते भवता द्विज ॥७२॥
॥निदाघ उवाच॥
भो विप्र जनसंमर्द्दो महानेष जनेश्वरे ॥ प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ॥७३॥
ऋभुरुवाच ॥
नराधिपोऽत्र कत्तमः कतमश्वेतरो जनः ॥ कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम ॥७४॥
निदाघ उवाच ॥
योऽयं गजेंद्रमुन्मत्तमद्रिश्रृंगसमुच्छ्रायम ॥ अधिरुढो नरेन्द्रोऽयं परितो यस्तथेतरः ॥७५॥
ऋभुरुवाच ॥
एतौ हि गजराजानौ दृष्टौ हि युगपन्मया ॥ भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ॥७६॥
तत्कथ्यतां महाभाग विशेषो भवतानयोः ॥ ज्ञातिमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ॥७७॥
निदाघ उवाच ॥
गजोयोऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः ॥ वाह्यवाहकसंबंध को न जानति वै द्विज ॥७८॥
ऋभुरुवाच ॥
ब्रह्मन्यथाहं जानीयां तथा मामवबोधय ॥ अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ॥७९॥
ब्राह्मण उवाच ॥
इत्युक्ता सहसारुह्य निदाघः प्राह तं ऋभुम् ॥ श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥८०॥
उपर्यहं यथा राजा त्वमधःकुंजरो यथा ॥ अवबोधाय ते ब्रह्मन्द्दष्टांतो दर्शितो मया ॥८१॥
ऋभुरुवाच ॥ त्व राजेव द्विजश्रेष्ठ स्थितोऽहं गजवद्यदि ॥ तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥८२॥
ब्राह्मण उवाच ॥
इत्युक्तः सत्वरस्तस्य चरणवभिवंद्य सः॥ निदाघः प्राह भगवन्नाचार्यस्त्वमृभुर्मम ॥८३॥
नान्यस्याद्वै तसंस्कारसंस्कृतं मानसं तथा ॥ यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥८४॥
ऋभुरुवाच ॥ तवोपदेशदानाय पूर्वशुश्रूणात्त्व ॥ गुरुस्त्रेहाद्दभुर्नाम निदाघ्म समुपागतः ॥८५॥
तदेतदुपदिष्टं ते संक्षेपेण महामते ॥ परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥८६॥
ब्राह्मण उवाच ॥
एवमुक्ता ददौ विद्यां निदाघं स ऋभुर्गुरुः ॥ निदाघोऽप्य्तुपदेशेन तेनाद्वैतपरोऽभवत् ॥८७॥
सर्वभूतान्यभेदेन दद्देश स तदात्मनः ॥ तथा ब्रह्मतनौ मुक्तिमवाप परमा द्विजः ॥८८॥
तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबांधवः ॥ भव सर्वगतं ज्ञानमात्मानमवनीपते ॥८९॥
सितनीलादिभेदेन यथैकं दृश्यंत नमः ॥ भ्रांत दृष्टिभिरात्मापि तथैकः सन्पृथक पृथक ॥९०॥
एकः समस्तं यदिहास्ति किंचित्तदच्युतो नास्ति परं ततोऽन्यत् ॥ सोऽहं स च त्वं स च सर्वमेतदात्मां स्वयं भात्यभेदमोहः ॥९१॥
सनंदन उवाच ॥
इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ॥ स चापि जातिस्मरणाबवोधस्तत्रैव जन्मन्य पवगमाप ॥९२॥
परमार्थाघ्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर ॥ ब्राह्मणक्षत्रियविशां श्रोर्तृणां चापि मुक्तिदम् ॥९३॥
यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया ॥ ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ॥९४॥
इति श्रीबृहन्नादीयपुराणे पूर्वभागे बृहपाख्याने द्वि०पा०एकोनपञ्चाशत्तमोध्यायः ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-05-13T05:29:03.5570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

incubatorium

  • स्त्री. Zool.(pl. incubatoria or incubatoriums) उबवणी 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site