TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुःपञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुःपञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


चतुःपञ्चाशत्तमोऽध्यायः
सनंदन उवाच ॥
ज्योतिषांगं प्रवक्ष्यामि यदुक्तं ब्रह्माणा पुरा ॥ यस्य विज्ञान मात्रेण धर्मसिद्धिर्भवेन्नृणाम्‍ ॥१॥
त्रिस्कंधं ज्यौतिषं शास्त्रं चतुर्लक्षमुदाह्रतम्‍ ॥ गणितं जातकं विप्र संहितास्कंधसंज्ञिताः ॥२॥
गणिते परिकर्मादि खगमध्यस्फुटक्रिंये ॥ अनुयोगश्वंद्रदूर्यग्रहण तचोदस्याकम्‍ ॥३॥
छाया श्रृङोन्नतियुती पातसाधनमीरितम्‍ ॥ जातके राशिभेदाश्व ग्रह्योनिश्व योनि जम्‍ ॥४॥
निषेकज्नारिष्टानि ह्यायुर्दायो दशाक्रमः ॥ कर्माजीवं चाष्टवर्गो  राजयोगाश्व नाभसाः ॥५॥
चंद्रयोगाः प्रव्रज्याख्या राशिशीलं च दृक्फलम्‍ ॥ ग्रहभावफलं चैवाश्रययोगप्रकीर्णके ॥६॥
अनिष्टयोगाः स्त्रीजन्मफलं निर्याणमेव च ॥ नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम्‍ ॥७॥
संहिताशास्त्रारुपं च ग्रहचारोऽब्दलक्षणम्‍ ॥ तिथिवासरक्षत्रयोगतिथ्यर्द्धसंज्ञकाः ॥८॥
मुहूर्तोपग्रहाः सूयसंक्रातिर्गोचरः क्रमात्‍ ॥ चंद्रता राबलं चैव सर्वलग्नार्तवाह्रयः ॥९॥
आधानपुंससीमंतजात नामान्नभुक्तयः ॥ चौलङ्कर्ण्ययणं मौंजी क्षुरिकाबंधनं तथा ॥१०॥
स्मावर्तनवैवाहप्रति ष्ठासद्मलक्षणम्‍ ॥ यात्राप्रवेशेनं सद्योवृष्टिः कर्मविलक्षणम्‍ ॥११॥
उत्पत्तिलक्षणं चैव सर्वं संक्षेपतो ब्रुवे ॥ एकं दश शतं चैव सहस्त्रायुतलक्षकम्‍ ॥१२॥
प्रयुतं कोटिसंज्ञां चार्बुदमब्जं च र्खवकम्‍ ॥ निखर्वं च महापद्मं शंकुर्जलधिरव च ॥१३॥
अत्यं मध्यं परार्द्धं च संज्ञा दशगुणोत्तराः ॥ क्रमदुत्क्रमतो वापि योगः कार्योत्तरं तथा ॥१४॥
हन्याद्धणेन गुण्यं स्तातैनैवोपांतिमादिकान्‍ ॥ शुद्धेद्धरोयद्धणश्वभाज्यांत्तत्फलं मुने ॥१५॥
समांकतोऽथो वर्गस्यात्तमेवाहुः कुतिं बुधाः ॥ अंत्यात्तु विषमात्त्यक्ता कृतिं मूलं न्यसेत्पृथक्‍ ॥१६॥
द्विगुणेनामुना भक्ते फलं मूले न्यसेत्क्रमात्‍ ॥ तत्कृतिं च त्यजेद्विप्र मूलेन विभजेत्पुनः ॥१७॥
एवं मुहुर्वर्गमूलं जायते च मुनीश्वरः ॥ समत्र्यङ्कतिः प्रोक्ता घनस्तत्र विधिः पदे ॥१८॥
प्रोच्यते विषमं त्वाद्यं समे द्वे च ततः परम्‍ ॥ विशोघ्यं विषमादंत्या द्धनं तन्मूलमुच्यते ॥१९॥
त्रिघ्राद्धजन्मूलकृत्या समं मूले न्यसेत्फलम्‍ ॥ तत्कृतित्वेन निहतान्निघ्न्रिं चापि विशोधयेत्‍ ॥२०॥
घनं च विषमादेवं घनमूलं मुर्हुभवेत्‍ ॥ अन्योन्यहारनिहतौ हरांशौ तु समुच्छिदा ॥२१॥
लवा लवघ्राश्व हरा हरघ्रा हि सवर्णनम्‍ ॥ भागप्रभागे विज्ञेयं मुने शास्त्रार्थचिंतकैः ॥२२॥
अनुबंधेऽपवाहे चैकस्य चेदधिकोनकः ॥ भागास्तलस्थहारेण हरं स्वांशाधिकेन तान्‍ ॥२३॥
ऊनेन चापि गुणयेद्धनर्णं चिंतयेत्तथा ॥ कार्यस्तुल्यहरां शानां योग श्वाप्यंततो मुने ॥२४॥
अहारराशौ रुप्यं तु कल्पयेद्धरमप्यथा ॥ अंशाहतिश्र्छेदघातत्द्दद्धिन्नगुणने फलम्‍ ॥२५॥
छेदं चापि लवं विद्वन्परिवर्त्यं हरस्य च ॥ शेषः कार्यो भगहारे कर्तव्यो गुणनाविधिः ॥२६॥
हारांशयोः कृती वर्गे घनौ घनविधौ मुने ॥ पदसिद्धयै पदे कुर्यादथो खं सर्वत श्व खम्‍ ॥२७॥
छेदं गुणं गुणं छेदं वर्गं मूलं कृतिम‍ ॥ ऋण स्वं स्वमृंण कुर्याद्दश्ये राशिप्रसिद्धये ॥२८॥
अथ स्वांशाधिकोने तु लवाढ्योनो हरो हरः ॥ अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत्‍ ॥२९॥
उद्दिष्टराशिः संक्षिप्तौ त्द्दतोंऽशै रहितो युतः ॥ इष्टघ्रदृअष्तेनैतेन भक्तराशिरनीशितः ॥३०॥
योगोन्तरेणोनयुतोद्वितोराशीतसंक्रमे ॥ राश्यंतरह्रत वर्गोत्तरं योसुतश्व तौ ॥३१॥
राजग्रीष्टकृतिर्व्यैका दलिता चेष्टभाजित॥ एकोऽस्य वर्गो दलितः सैको राशिः परो मतः ॥३२॥
द्विगुणेष्टत्द्दतं रुपं श्रेष्ठं प्राग्रपकं परम्‍ ॥ वर्गयोगांतरे व्येके राश्योर्वर्गौस्त एतयोः ॥३३॥
इष्टवगेकृतिश्वेष्टघनोष्टग्रौ सेकंकौ ॥ एषीस्यानामुभे व्यक्ते गणित व्यक्तमेव च ॥३४॥
गुणघ्रमूलोनयुतः सगुणार्द्धए कृतं पदम्‍ ॥ दृष्टस्य च गुणार्द्धौ न युं वर्गीकृतं गुणः ॥३५॥
यदा लवोनपुम्राशिर्दृश्यं भागोनयुग्भुवा ॥ भक्तं तथा मूलगुणं ताभ्यां साध्योह व्यक्तवत् ॥३६॥
प्रमाणेच्छे सजातीये आद्येंत मध्यगं फलम् ॥ इच्छघ्रमाद्यह्रत्सेंष्ट फलं विपर्ययात् ॥३७॥
पंचरास्यादिकेऽन्योन्यपक्षं कृत्वा फलच्छिदाम् ॥ बहुराशिवधं भक्ते फलं स्वल्पबधेन च ॥३८॥
इष्टकर्वमधेंमूर्लं च्युतं मिश्रात्कलांतरे ॥ मानघ्रकालश्वातीतकालघ्रफलसंह्रताः ॥३९॥
स्वयोगभक्तानिघ्राः स्युः संप्रयुक्तदलानि च ॥ बहुराशिफात्स्वल्पशिमासफलं बहु ॥४०॥
चेद्रशिवरं मासफलांतरत्दृतं च यः ॥ क्षेपा मिश्रहताः क्षेपयोगभक्ताः फलानि च ॥४१॥
भजेच्छिर्दोशैस्तैर्मिश्रै रुपं कालश्व पूर्तिकृत् ॥ पूर्णोगच्छेत्समेध्यव्येसमेवर्गोर्द्धितेत्यतः ॥४२॥
व्यस्तं गच्छतं फलं यद्धुणवर्गं भचहि ततू ॥ व्येक व्येकगुणाप्तं च प्राघ्नं मानं गुणोत्तरे ॥४३॥
भुजकोटिकृतियोगमूलं कर्णश्व दोर्भवेत् ॥ श्रुतिकृत्यंतरपद कोटिर्दोः कर्णवर्गयोः ॥४४॥
विंवरात्तत्कर्णपदं क्षेत्रे त्रिचतुरस्त्रके ॥ राश्योरंतरवर्गेण द्विघ्रे घाते युते तयोः ॥४५॥
वर्गयोगोथ योगांतहंतिर्वर्गांतरं भवेत् ॥ व्यास आकृतिसंक्षण्णोव्यासास्यात्परिधिर्मुने ॥४६॥
ज्याव्यासयोगविवरहतमूलोनितोऽर्द्धितः ॥ व्यासः शरः शरोनाच्च व्यासाच्छरगुणात्पदम् ॥४७॥
द्विघ्रं जीवाथ जीवार्द्धवर्गे शरह्रते युते ॥ व्यासोष्टतेभवेदेवं प्रोक्तं गणितकोविदैः ॥४८॥
चापोननिघ्रः परिधिः प्रगाड्डः परिधेः कृते ॥ तुर्यांशेन शरघ्नेनाघेनिनाघं चतुर्गणम् ॥४९॥
व्यासघ्नं प्रभजेद्विप्र ज्या काशं जायते स्फुटा ॥ ज्याघ्रीषुघ्नोवृत्तवर्गोब्धिघ्रव्यासाढ्यमौर्विह्रत् ॥५०॥
लब्धोनवृत्तवर्गाद्रिपदेर्धात्पतिते धनुः ॥ स्थूलमध्यापृवन्नवेधो वृत्तांकाशेष भागिकः ॥५१॥
वृत्तांगांशकृतिर्वेधनिप्रीयनकरामितौ ॥ वारिव्याभ्राब्धिभिर्भ दैर्घ्यंवेधांगुलहतं पुनः ॥५२॥
खरवेंदुरामविहतं मान द्रोणादिवारिणः ॥ विस्तारायामवेधानामंगुल्योन्योन्यनाडिघ्नाः ॥५३॥
रसांकाभ्राब्धिभिर्भक्ता धान्ये द्रोणादिकामितिः ॥ उत्सेधव्यासदैर्ध्याणामुंगल्यान्यस्य नो द्विज ॥५४॥
मिथोघ्नाति भजेर्खाक्षेशैर्द्रोणादिमितिर्भवेत् ॥ विस्ताराद्यं गुलान्येवं मिथोघ्नान्यपसांभवेत् ॥५५॥
वाणेभमार्गणैर्लब्ध द्रोणाद्यं मानमादिशेत् ॥ दीपशंकुतलच्छिद्रघ्नः शकुर्भैवंभवेन्मुने ॥५६॥
नरोन दीपकशिखौच्यभक्तो ह्याथ भोद्वने ॥ शंकौनृदीपाधश्छिद्रघ्नैर्दीपौच्च्यं नरान्वितं ॥५७॥
विशंकुदीपौच्च्यगुणाच्छाया शंकूद्धृता भवेत् ॥ दीपशंक्कंतरं चाथ च्छायाग्रविवरघ्नभा ॥५८॥
मानांतरद्रुद्धमिः स्यादथोभोनरहतिः ॥ प्रभाप्ता जायते दीपशिखिखौच्च्यं स्यात्त्रिराशिकात् ॥५९॥
एतत्संक्षे पतः प्रोक्त गणिते परिकर्मकम् ॥ ग्रह्मध्यादिकं वक्ष्ये गणिते नातिविस्तरान्‍ ॥६०॥
युगमाण स्मृतं विग्र खचतुष्करदार्णवाः ॥ तद्दशांशास्तु चत्वारः कृनाख्यं पादमुच्यते ॥६१॥
त्रयस्त्रेता द्वापरः द्वौ कलिरेकः प्रकीर्तितः ॥ मनुकृताब्दसहिता युगानामेकसप्ततिः ॥६२॥
विधेर्द्दिने स्युर्विप्रेंद्र मनवस्तु चतुर्दश ॥ तावत्येव निशा तस्य विप्रेद्र परिकीर्तिता ॥६३॥
स्वयंभुवा शरगानब्दान्संपिंड्य नारद ॥ खचरानयनं कार्यमथ वेष्टयुगादितः ॥६४॥
युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ॥ पूजार्किगुरुशुक्राणां भगणापूर्वपापिनाम् ॥६५॥
इंदोरसग्नित्रिषु सप्त भूधरमार्गणाः ॥ दस्त्रत्र्याष्टसांकाश्विलोचनानि कुजस्य तु ॥६६॥
बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यंकनगेंदवः ॥ बृहस्पतेः खदस्त्राक्षिवेदस्त्रड्‌हूयस्तथा ॥६७॥
शितशीघ्रस्य यष्णसत्रियमश्विस्वभृधराः ॥ शनैर्भुजगषट्‌पचरसवेदनिशाकराः ॥६८॥
चंद्रोच्चस्याग्निशून्याक्षिवसुसपार्णवा युगे ॥ वामं पातस्य च स्वग्निमाशिव्शिखिदस्त्रकाः ॥६९॥
उदयादुदंय भानोर्भूमेः साचेन वासराः ॥ वसुव्द्यष्टाद्रिरुपांकसप्ताद्रितिथयो युगे ॥७०॥
षड्‌वहित्रिहुताशांकतिथयश्वाधिमासकाः ॥ तिथिक्षयायमार्थक्षिद्वयंष्टव्योमशराश्विनः ॥७१॥
खचतुष्का समुद्राकुर्पचरविमाचकाः ॥ षट्‌त्र्यग्रिंवदग्रिपंचशुभ्रांशुमासकाः ॥७२॥
प्रागातेः सूर्यमंदस्य कल्पेसप्ताष्टवह्ययः॥ कौजस्य वेदस्वयमा बौधस्याष्टर्तुवह्रयः ॥७३॥
खखरंध्राणि जैवस्य शौक्रस्यार्धगुणेपवः ॥ गोग्नयः शनिमंदय पातानामथवा मतः ॥७४॥
मनुदस्त्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ॥ कृतद्रिचंद्राजैवस्य रौकस्यग्निखनंदकाः ॥७५॥
शनिपातस्य भगणाः कल्पे यमरसर्तवः ॥ वर्तमानयुगे पानावत्सराभगणाभिधाः ॥७६॥
मासीकृतायुता मासैर्मधुशुक्लादिभर्गतैः ॥ पृथक्त्थसिधिमासग्रासूर्यमासविभाजिताः ॥७७॥
अथाधिमासकैर्युक्ता दिनीकृत्य  दिनान्विताः ॥ द्विस्थास्तितिक्षया भ्यस्ताश्वांद्रवासरभाजिताः ॥७८॥
लथोनरात्रिरहितालंकाकर्यामर्द्धरात्रिकः ॥ सावनोद्यूगसोरर्कादिर्दिनमासाब्दयास्ततः ॥७९॥
सप्तभिः क्षपितः शेषः सूर्याद्योवासरेश्वरः ॥ मासाब्ददिनसंख्यासंद्वित्रिघ्नं रुपसंयुतम् ॥८०॥
सप्तेर्द्धनावशेषौ तौ विज्ञेयौ मासवर्षयौ ॥ स्त्रेहस्य भगणाभ्यस्तो दिन राशिः कुवासरै ॥८१॥
विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् ॥ एवं ह्यशीघ्रमंदाच्च ये प्रोक्ताः पूर्वपापिनः ॥८२॥
विलोमगतयः पातास्तद्वच्चक्राष्विशोधिता ॥ योजनानि शतान्यष्टौ भूकर्णौ द्विगुणः स्मृतः ॥८३॥
तद्वर्गतो दशगुणात्पद भूपरिधिर्भवेत् ॥ लंबज्याघ्नस्वजीवाप्तः स्फुटो भूपरिधिः स्वकः ॥८४॥
तेन देशांतराभ्यस्ता ग्रहभुक्तिर्विभाजिता ॥ कलादितत्फलं प्रार्च्याः ग्रहेभ्यः परिशोधयेत ॥८५॥
रेखाप्रतीचि संस्थाने प्रक्षिपेत्स्युः स्वदेशतः ॥ राक्षसापदेवौकः शैलयोर्मध्यसूत्रगाः ॥८६॥
अवंतिकारोहतिकं तथा सन्निहितं सरः ॥ वारप्रवृत्तिवाग्देशे क्षयार्द्धे भ्यधिको भवेत ॥८७॥
तद्देशांतरनाडीभिः पश्वादूने विनिर्दिशेत् ॥ इष्टनाडीगुणा भुत्तिः षष्टया भक्ता कलादिकम् ॥८८॥
गते शोद्धयं तथा योज्यं गम्ये तात्कालिको ग्रहः ॥ भचक्रलिप्ताशीत्यशः परमं दक्षिणोत्तरम् ॥८९॥
विक्षिप्यते स्वपातेन स्वक्रांत्यंतादनुष्णगुः तत्र वासं द्विगुणितजीवत्रीपुणितं कुजः ॥९०॥
बुधशुक्रार्कजाः पातौर्विक्षिप्यंते चतुर्गुणम् ॥ राशिलिप्ताष्टमो भागः प्रथमं ज्यार्द्धसुच्यते ॥९१॥
ततो द्विभक्तलब्धोनमिश्रितं ताद्दितीयक्रम् ॥ आद्येनैव क्रमात्पिंडान्भक्ताल्लब्धोनितैर्युतान ॥९२॥
खंडकाः स्युश्वतुर्विशा ज्यार्द्ध पिंडाः क्रमादमी ॥ परमा पकमज्या नु सप्तरंध्र गुर्णैदवः ॥९३॥
तद्धणज्या त्रिजीवाप्ता तच्चापं क्रांतिरुच्यते ॥ ग्रहं संशोध्य मंदोच्चतथा शींघ्राद्विशोध्य च ॥९४॥
शेषं कंदपदंतस्माद्द्धुजज्या कोटिरेव च ॥ गताद्धुजज्याविषमे गभ्यात्कोटिः पदे भवेत् ॥९५॥
समेति गम्याद्वाहुज्या कोटिज्यानुगता भवेत् ॥ लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिंडक गतम् ॥९६॥
गतगम्यांतराभ्यस्तं विभजेत्तत्त्वलोचनैः ॥ तदवाप्तफलं योज्यं ज्यापिंडे गतसंज्ञके ॥९७॥
स्यात्क्रमज्याविधिश्वैवमुत्क्रम ज्यागता भवेत् ॥ लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिंडकं गतम् ॥९८॥
गतगम्यांतराभ्यस्तं विभजेत्तत्त्वलोचनैः ॥ तदवाप्तफलं योज्यं ज्यापिंडे गतसंज्ञके ॥९९॥
स्यात्क्रमज्याविधिश्वैवसुक्रमज्यस्वपिस्मृतः ॥ज्यां प्रोह्य शेषं तत्त्वताश्वि हंतं तद्विवरोद्धम ॥१००॥
संख्यातत्त्वाश्विसंवर्ग्य संयोज्यं धनुरुच्यते ॥ खेर्मंदपरिध्यंशा मनवः शीतगोरदाः ॥१०१॥
युग्मांते विषमांते तुनखलिप्तोनितास्तयोः ॥ युगमांतेर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः ॥१०२॥
ओजेद्वयगा च सुयमारदारुगजाब्धयः ॥ कुजादीनामतः शौघ्न्यायुग्मांतेर्थाग्निदस्त्रकाः ॥१०३॥
गुणाग्निचंद्राः खनगाद्विर साक्षीणि गोऽग्रयः ॥ ओजांते द्वित्रियमताद्विविश्वेयमपर्वताः ॥१०४॥
खर्तुदस्त्राविप्द्वेदाः शीघ्रकर्मणि कीर्तिताः ॥ओजयुग्मांतरगुणाभुजज्यात्रिज्य योद्धताः ॥१०५॥
युग्मवृत्तेनर्णश्यादोजादूनेऽधिके स्फुटम् ॥ तद्वुणे भुजकोटिज्यभगणांशविभाजिते ॥१०६॥
तद्धुजज्याफलधनुर्मांदं लिप्ता दिकं फलम् ॥ शैऽकोटिफलं केंद्रे मकरादौ धनं स्मृतम् ॥१०७॥
संशोध्यं तु त्रिजीवायां कर्कादौं कोटिजं फलम् ॥ तद्वाहुफलवर्गैक्यान्मूलकर्ण श्वलाभिधः ॥१०८॥
त्रिज्याभ्यस्तं भुजफलं धनं स्मृतम् ॥ संशोध्य तु त्रिजीवायां कर्कादौ कोटिजं फलम् ॥१०९॥
तद्वाहुफलवर्गे क्यान्मूलं कर्णश्वलाभिधः ॥ त्रिज्याभ्यस्तं भुजफलं पलकर्णविभाजितम् ॥११०॥
लब्धस्य चापं लिप्तादि फलं शैध्रयामिंद स्मृतम् ॥ एतदादौ कुजादीनां चतुर्थे चैव कर्मणि ॥१११॥
मांद्यं कर्मैकमर्कैद्वोर्भोमादीनामाथोच्यते ॥ शैघ्र्यं माद्यं पुनर्मांद्यं शैघ्र्यं चत्वार्यनुक्रमात् ॥११२॥
अजा दिकेंद्रे सर्वेषां र्माद्ये शैघ्र्ये च कर्मणि ॥ धनं ग्रहाणां लिप्तादि तुलादावृणमेव तत् ॥११३॥
अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिविभाजिताः ॥ भचक्रकलि काभिस्तु लिप्ताः कार्या ग्रहेऽर्कवत् ॥११४॥
ग्रहभक्तः फलं कार्यं ग्रहवन्मंदकर्मणि ॥ कर्कादौ तद्धनं तत्र मकरादावृणं स्मुतम् ॥११५॥
दोर्ज्योत्तगुणाभुक्तिस्तत्त्वनेत्रोद्धता पुनः ॥ स्वमंदपरिधिक्षुण्णा । भगणांशोद्धताःकलाः ॥११६॥
मंदस्फुटकृता भुक्तिः प्रोह्य शीघ्रोच्चभुक्तितः ॥ तच्छेंष विवरेणाथ हन्यात्रिज्यांकर्कणयोः ॥११७॥
चक्रकर्णह्रतं भुक्तौ कर्णें त्रिज्याधिके धनम् ॥ ऋणमुनेऽधिके प्रोह्य शेषं वक्रगतिर्भवेत् ॥११८॥
कृतर्तुचंद्रैर्वैदेंद्रैः शून्यत्र्येकैर्गुणाष्टभिः ॥ शरद्रैश्वतुर्यांशुकेंद्रांशेर्भूसुतादयः ॥११९॥
वक्रिणश्वकशुद्धैस्तैरंशैरुजुतिवक्रताम् ॥ क्रमज्या विषुवद्धाघ्नी क्षितिज्य द्वादशोद्धता ॥१२०॥
त्रिज्यागुणा दिनव्यासभक्ता चांप च शत्रवः ॥ तत्कार्मकमुदक्रांतौ धनहीनो पृथक्क्षते ॥१२१॥
स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते ॥ याम्यक्रांतौ विपर्यस्ते द्विगुणैते दिनक्षये ॥१२२॥
भभोगोऽष्टशतीर्लिप्ताः स्वास्विशैलोस्तथातिथेः ॥ ग्रहलिप्ता भगाभो गाभानि भुक्तयादिनादिकाम् ॥१२३॥
खींदुयोगलिप्तास्तु योगभभोगभाजिताः ॥ गतगम्याश्व षष्ठिघ्ना भुक्तियोगापनाडिकाः ॥१२४॥
अर्कोनचंद्रलिप्तास्तु तिथयो भोगभाजिताः ॥ गतगम्याश्व षष्ठिघ्रा नाऽतोभुक्ततरोद्धताः ॥१२५॥
तिथयः शुल्कप्रतिपदो द्विघ्राः सैका न गाहताः शेषं बवो बालवश्व कौलवस्तैतिलो गरः ॥१२६॥
वणिजोभ्रे भवेद्विष्टिः कृष्णभूतापरार्द्धतः ॥ शकुनिर्नागश्व चतुष्पद किंस्तुघ्न मेव च ॥१२७॥
शिलातलेवसंशुद्धे वज्रलेपेतिवासमे ॥ तत्र शकांगुलैरिष्टैः सममंडलमालिखेत ॥१२८॥
तन्मध्ये तिमिना रेखा कर्तव्या द्दादशांगुलाम् ॥ तच्छायाग्रं स्पृशेद्यत्र दत्तं पूर्वापराह्रयोः ॥१२९॥
तत्र बिदुं विधायोभौ वृत्ते पूर्वापराभिधौ ॥ तन्मध्ये तिमिन रेखा कर्तव्या दक्षिणोत्तरा ॥१३०॥
याम्योत्तरदिशोर्मध्य तिमिना पूर्वपश्चिमा ॥ दिग्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ॥१३१॥
चतुरस्तं बहिः कुर्यात्सूत्रैर्मध्याद्विनिः सूतैः ॥ भुजसूत्रांगुलैस्तत्र दत्तैरिष्टप्रभा मता ॥१३२॥
प्राक्‌पश्चिमाश्रिता रेखा प्रोच्यते सममंडलम् ॥ भमंडलं च विषुवन्मंडलं परिकीर्तितम् ॥१३३॥
रेखा प्राच्यपरा साध्या विषुवद्धाग्रया तथा ॥ इष्टच्छायाविषुवतोर्मध्येह्याग्राभिधीयते ॥१३४॥
शंकुच्छायाकृतियुतेर्मूलं कंर्णोऽय वर्गतः ॥ प्रोह्य शंकुकृते मूलं छाया शंकुविर्पययात् ॥१३५॥
त्रिंशत्कृत्योयुगे भानां चक्रं प्राक्परिंलबते ॥ तद्धुणा द्धदिनैर्भक्तया द्युगणाद्यदवाप्यते ॥१३६॥
तद्दोस्त्रिघ्नादशाघ्नांशा विज्ञेया अयनाभिधाः । विज्ञेया अयनाभिधाः तत्संस्वकृताद्धहात्कांतिच्छायावरदलादिकम् ॥१३७॥
शंकुच्छायाहते त्रिज्ये विषुवत्कर्कभाजिते ॥ लंबाक्षज्ये तयोश्र्छाये लंबाक्षौ दक्षिणौ सदा ॥१३८॥
साक्षार्कापक्रमयुतिर्द्दिक्साम्येंतरमन्यथा ॥ शेषह्यानांशाः सूर्यस्य तद्धाहुज्याथ कोटिजाः ॥१३९॥
शंकुमानांगुलाभ्यस्ते भुजत्रिज्ये यथांक्रमम् ॥ कोटीज्ययाविभज्याप्ते छाया कर्णाबहिर्द्दले ॥१४०॥
स्वाक्षार्कनतभागानां दिक्साम्येंऽतरमन्यथा ॥ दिग्भेदोपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ॥१४१॥
परमोपक्रमज्याप्त चापमेपादिगो रविः ॥ कर्कादौ प्रोह्यचक्रार्द्धांत्तुलादौ भार्द्धसंयुतात ॥१४२॥
मृगादौ प्रोह्यचक्रात्तु मध्याह्रेऽर्कः स्फुटो भवेत् ॥ तन्मंदमस्कृद्वामं फलं मध्यो दिवाकरः ॥१४३॥
ग्रहोदयाः प्राणहताः खखाष्टैकोद्धता गतिः ॥ चक्रासवी लब्धयुती स्वाहोरात्रास्वः स्मृता ॥१४४॥
त्रिभद्युकर्णार्द्धगुणा स्वाहोरात्रर्द्धभाजिताः ॥ क्रमादेकद्वित्रिभाज्या तच्चापानि पृथक‌पृथक्‍ ॥१४५॥
स्वाधोधः प्रविशोध्याथ मेषाल्लंकोदयासव ॥ स्वागाष्टयोर्थगोगैकाः शरस्त्रेकं हिमांशवः ॥१४६॥
स्वदेशचरखंडोना भवंतीष्टोदयासवः ॥ व्यस्ताव्यस्तैर्युतास्तैस्तैः कर्कटद्यास्ततस्तु यः ॥१४७॥
उत्क्रमेण षडेवैते भवंतीष्टास्तुलादयः ॥ गतभोग्यासर्वःकार्याः सायनास्स्वेष्टभास्कराः ॥१४८॥
स्वोदयत्सुहता भक्ता भक्ताभोग्याः स्वमानतः ॥ अभीष्टघटिकासुभ्यो  भोग्यासून्प्रविशोधयेत् ॥१४९॥
तद्वदेवैष्यलग्नासूनेवं व्याप्तास्तथा क्रमात् ॥ शेषं त्रिंशत्क्रमाद्धयस्तमशुद्धेन विभाजितम् ॥१५०॥
भागयुक्तं च हीनं च व्ययनांशं तनुः कुजे ॥ प्राक्पश्वान्नतनाडीभ्यस्तद्वल्लंकोदयासुभिः ॥१५१॥
भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ॥ भोग्यासूनूनकस्याथं भुक्तासूनधिकस्य च ॥१५२॥
सपिंड्यांतरलग्नासूनेवं स्यात्कालसाधनम् ॥ विराह्रर्कभुजांशाश्वेदिंद्राल्पाः स्याद्‍ ग्रहो विधोः ॥१५३॥
तेषां शिवघ्नाः शैलाप्ता व्यावर्काजः शरोंगुलैः ॥ अर्कं विधुर्विधुं भूभा छादतत्यथ छन्नकम् ॥१५४॥
छाद्यछादकमानार्धं शरोनं ग्राह्यव र्जितम् ॥ तत्स्वच्छंत्र च मानैक्यार्द्धांशषष्ठं दशाहतम् ॥१५५॥
छन्नघ्रमस्मान्मूलं तु खांगोन्ग्लौवपुर्ह्यतम् ॥ स्थित्यर्द्धं घटिकादिस्याद्वयंगबाह्रंशसंमितैः ॥१५६॥
इष्टैः पलैस्तदूनाढ्यं व्यगावूनेऽकर्षड्‌गुणः ॥ तदन्यथाधिके तस्मिन्नेवं स्पष्टे सुखांत्यगे ॥१५७॥
ग्रासेन स्वाहते च्छाद्यमानामे स्युर्विशोपकाः ॥ पूर्णांतं मध्यमत्र स्याद्दशार्तिंज त्रिभोनकम् ॥१५८॥
पृथक्‍ तत्क्रांत्यक्षभागसंस्कृतौ स्युर्नतांशकाः ॥ तद्दिघ्रांशकृतिद्वयूनार्द्धार्कयुता हरिः ॥१५९॥
त्रिभानांगार्कविश्लेषांशोंशोनघ्राः ॥ पुरंदराः ॥ हराप्तालंबनं स्वर्णवित्रिभेर्काधिकोनके ॥१६०॥
विश्वघ्नलंबनकलाढ्योनस्तु तिथिवद्यगुः ॥ शरोनोलंबनषडघ्ने तल्लवाढ्योनवित्रिभात् ॥१६१॥
नतांशास्तजांसाने प्राधृतस्तद्विवर्जितः ॥ शब्देंदु लिप्तैः षड्‌भिस्तु भक्तानतिर्नतांशदिक्‍ ॥१६२॥
तयोर्नाट्योहभिन्नैक दिक्‌शरः स्फुटता व्रजेत् ॥ ततश्रन्नस्थितिदले साध्ये स्थित्यर्द्धषट्‌त्रिभिः ॥१६३॥
अंशस्तैर्वित्रिभंद्विस्थंलंबनेतयोः पूर्ववत् ॥ संस्कृतेस्ताभ्यां स्थित्यर्द्धे भवतः स्फुटे ॥१६४॥
ताभ्यां हीनयुतो मध्यदर्शः कालौ मुखांतगौ ॥ अर्काद्यूना विश्व ईशा नवपंचदशांशकाः ॥१६५॥
कालांशास्तैरुनयुक्तै खौ हास्तोदयौ विधोः ॥ दृष्ट्रा ह्यादौ खेटबिबं दृगौच्ये लंबमीक्ष्य च ॥१६६॥
तल्लंबपापबिंबांगर्दृगौ व्याप्तरविघ्नाभाः ॥ अस्ते सावयवा ज्ञेया गतैष्यास्तिथयो बुधैः ॥१६७॥
व्यस्ते युक्रांतिभागैश्व द्विघ्नातिथ्याह्रता स्फुटम् ॥ संस्कारदिकलंबनमंगुलाद्यं प्रजायते ॥१६८॥
सेष्वंशोनाः सितं तिथ्यो बलन्नाशोन्नतं विधोः ॥ श्रृङुमन्यत्र उद्वाच्यं बलनागुलेखनात् ॥१६९॥
पंचत्वे गोंकविशिखाः शेषकर्णहताः पृथक्‍ ॥ विकृज्यकागसिद्धाग्रिभक्तालब्धोनसंयुताः ॥१७०॥
त्रिज्याधिकोने श्रवणे वपूंषि स्युर्त्दृता कुजात् ॥ ऋज्वोरनृज्वोर्विवरं गत्यंतरविभाजितम् ॥१७१॥
वक्रर्त्वौर्गतियोगामं गम्येतीते दिनादिकम् ॥ खनत्यासंस्कृतौव्वेषूदक्साम्येन्येंतरं युतिः ॥१७२॥
याम्योदकूखेटविवरं मानैक्याद्धोल्पकं यदा ॥ यदा भेदोलंबनाद्यं स्फुटार्थं सूर्यपर्ववत ॥१७३॥
एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा ॥ तयुते मंडले कांत्यौ तुल्यत्वे वै धृताभिधः ॥१७४॥
विपटीतायनगतौ चंद्रार्कौ क्रांतिलिप्तिकाः ॥ समास्तदा व्यतीपातो भगणर्द्धे तपोयुतौ ॥१७५॥
भास्करेद्रो र्भचक्रांतचक्रार्द्धावाधिसंस्थयोः ॥ दृक्कल्पसाधितांशादियुक्तयोः स्वावपक्रमौ ॥१७६॥
अथोजपदगम्येंदोः क्रांतिर्विक्षे पसंस्कृता ॥ यदि स्यादधिका भानोः क्रांतेः पातो गतस्तदा ॥१७७॥
न्यूना चेत्स्यात्तदा भावी वामं युग्मपदस्य च ॥ यदान्यत्व विधोः क्रांतिः क्षेपाच्चद्यदि शुद्धयति ॥१७८॥
क्रांत्योर्जेत्रिज्ययाभिस्ते परमायक्रमोद्धते ॥ तच्चापांतर्मर्द्धवायोर्ज्यभाविनशीगौ ॥१७९॥
शोध्यं चंद्राद्धते पाते तत्सूयगतिताडितम् ॥ चंद्रभुक्तया ह्रर्तं भानौ लिप्तादिशंशिवत्फलम् ॥१८०॥
तदूच्छशांकपातस्य फलं देयं विपर्ययात् ॥ कर्मैतदसकृत्तावर क्रांती यावत्समेतयोः ॥१८१॥
क्रांत्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौः ॥ हीनेऽर्द्धरात्रिकाघातो भावी तात्कालिके*धिका ॥१८२॥
स्थिरीकृताद्धरा त्रार्द्धौ द्वयोर्विवरलिप्तकाः ॥ पष्टिचंद्रभुक्ताप्ता पातकालस्य नाडिकाः ॥१८३॥
रवींद्वोर्मानयोगार्द्धं षष्ट्या संगुण्य भाजयेत् ॥ तयोर्भुत्तयंतरेणाप्तं स्थित्यमर्द्धा नाडिकादिवत ॥१८४॥
पातकालः स्फुटोः मध्यः सोऽपि स्थित्यर्द्धवजितः ॥ तस्य संभवकालः स्यात्तत्संयोगेक्तसंज्ञकः ॥१८५॥
आद्यंतका लयोर्मध्ये कालो ज्ञेयोऽतिदारुणः ॥ प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥१८६॥
इत्येतद्वणिते किंचित्प्रोक्तं संक्षपतो द्विज ॥ जातकं वच्मिसमयाद्राशिसंज्ञापुरः सरम् ॥१८७॥
इति श्रीबृहन्नादीयपुराणे पूर्वभागे बृहपाख्याने द्वितीयपादे ज्योतिषवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:25:24.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कसम

  • ना. आण , प्रतिज्ञा , भाक , शपथ . 
RANDOM WORD

Did you know?

Request for Anagha Ashtami Puja vrat Sagrasangit Puja
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site