TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षटसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - षटसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


षटसप्ततितमोऽध्यायः
नारद उवाच ॥
कार्तवीर्यप्रभृतयो नृपा बहुविधा भुवि ॥ जायंतेऽथे प्रलीयंते स्वस्वकर्मनुसारतः ॥१॥
तत्कथं राजवर्योऽसौ लोके सेव्यत्वमागतः समुल्लंघ्य नृपानन्यानेतन्मे नुद संशयम्‍ ॥२॥
सनत्कुमार उवाच ॥
श्रृणु नारद वक्ष्यामि संदेहविनिवृत्तये ॥ यथा सेव्यत्वमापन्नः कार्तवीर्याजुनो भुवि ॥३॥
यः सुदर्शनचक्रस्यावतारः पृथिवीतलेः दत्तत्रेयं समाराध्य लब्धवांस्तेज उत्तमम्‍ ॥४॥
तस्य क्षितीश्व रद्रेस्य स्मरणादेव नारद ॥ शत्रूञ्जयति संग्रामे नष्टं प्राप्नोति सत्वरम्‍ ॥५॥
तेनास्य मंत्रपूजादि सर्वतत्रेषु गोपितम्‍ ॥ तुभ्यं प्रकाशयिष्येऽहं सर्व सिद्धिप्रदायकम्‍ ॥६॥
वह्रितारयुता रौद्री लक्ष्मीग्रींदुशांतियुक्‍ ॥ वेधाधरेन्दुशांत्याढ्यो निद्रयाशाग्रि बिंदुयुक्‍ ॥७॥
पाशो मायांकुशं पद्मावर्मास्त्रे कार्तवीपदम्‍ ॥ रेफोवा द्यासनोऽनन्तो वह्रिजौ कर्णसंस्थितौ ॥८॥
मेषः सदीर्घः पवनो मनुरुक्तो त्दृदंतिमः ॥ ऊनर्विशतिवर्णोऽयं तारादिर्नखवर्णकः ॥९॥
दत्तात्रेयो मुनिश्वास्यच्छन्दोऽनुष्टुबुदाह्रतम्‍ ॥ कार्तवीर्याजुनी देवो बीजशक्तिर्ध्रुवश्व त्दृत्‍ ॥१०॥
शेषाढयबीजयुग्मेन हदयं विन्यसेदधः ॥ शांतियुक्तचतुर्थेन कामाद्येन शिरोंऽगकम्‍ ॥११॥
इन्द्वाढ्यं वामकर्णाद्यमाययोर्विशयुक्तया ॥ शिखामंकुशपद्माभ्यां सवाग्भ्यां वर्म विन्यसेत्‍ ॥१२॥
वर्मास्त्राभ्यामस्त्रमुक्तं शेषार्णैर्व्यापकं पुनः ॥ त्दृदये जठरे गुह्यदेशतः ॥१३॥
दक्षपादे वामपादे सक्त्थ जानुनि जंघयोः ॥ विन्यसेद्वीजदशकं प्रणवद्वयमध्यगम्‍ ॥१४॥
ताराद्यानथ शेषार्णान्मस्तके च ललाटके ॥ भ्रुवोः श्रुयोस्तथैवाक्ष्णोर्नसि वक्रेगलेंऽसके ॥१५॥
सर्वमन्त्रेण सर्वांगे कृत्वा व्यापकमादृतः ॥ सर्वेष्टसिद्धये ध्यायेत्कार्तवीर्यं जनेश्वरम्‍ ॥१६॥
उद्यदर्कसहस्त्राभं सर्वभूपतिवन्दितम्‍ ॥ दोर्भिः पञ्चाशता दक्षैर्बाणान्वामैर्धनूंषि च ॥१७॥
दधतं स्वर्णमालाढ्यं रक्तवस्त्रसमावृतम्‍ ॥ चक्रावतारं श्रीविष्णोर्ध्यायेदर्जुनभूपतिम्‍ ॥१८॥
लक्षमेकं जपेन्मंन्त्रं दशांशं जुहुयात्तिलैः ॥ सतण्डुलैः पायसेन विष्णुपीठे यजेत्तु तम्‍ ॥१९॥
षटोणेषु षडंगानि ततो दिक्षु विदिक्षु च ॥ चौरमदवि भञ्जनं मारीमदविभंजनम्‍ ॥२०॥
अरिमदविभंजनं दैत्यमदविभंजनम्‍ ॥ दृष्टनाशं दुःखनाशं दुरितापद्विनाशकम्‍ ॥२१॥
दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिष्वसितप्रभाः ॥ क्षेमंकरी वश्यकरी श्रीकरी च यशस्करी ॥२२॥
आयुःकरी तथा प्रज्ञाकरी विद्याकरी पुनः । धनकर्यष्टमी पश्वाल्लोकेशा अस्त्रंसंयुताः ॥२३॥
एवं संसाधितो मंत्रः प्रयोगार्हः प्रजायते ॥ कार्तवीर्यार्जुनस्याथ पूजायंत्रमिहोच्यते ॥२४॥
स्वबीजानंगध्रुवावाक्कर्णिकं दिग्दलं लिखेत्‍ ॥ तारादिवर्मांतदलं शेषदलांतरम्‍ ॥२५॥
ऊष्मान्त्यस्वरकिंजल्कं शेषार्णैः परिवेष्टितम्‍ ॥ कोणालंकृतभूतार्णभूगृहं यन्त्रमीशितुः ॥२६॥
शुद्धभूमावष्टगन्धैर्लिखित्वा यन्त्रमादरात्‍ ॥ तत्र कुंभं प्रतिष्ठाप्य तत्रावाह्यार्चयेन्नृपम्‍ ॥२७॥
स्पृष्ट्रा कुंभं जपेन्मंन्त्र सहस्त्रं विजितेंद्रियः ॥ आभिषि चेत्तदंभोभिः प्रियं सर्वेष्टासिद्धये ॥२८॥
पुत्रान्युशो रोगनाशमायुः स्वजनरंजनम्‍ ॥ वाक्सिद्धिं सुदृशः कुम्भाभिषिक्तो लभते नरः ॥२९॥
शत्रूप द्रव आपन्ने ग्रामे वा पुटभेदने ॥ संस्थापंयेदिदं यन्त्रं शत्रुभीतिनिवृत्तये ॥३०॥
सर्षपारिष्टलशुनकार्पासैर्मायेते रिपुः ॥ धत्तूरैः स्तभ्यते निम्बैर्द्वैष्यते वश्यतेंऽबुजैः ॥३१॥
उच्चाटने विभीतस्य समिद्धिः खदिरस्य च ॥ कटुतैलुमहिष्याज्यैर्होमद्रव्यांजनं स्मृतम्‍ ॥३२॥
यवैर्हुते श्रियः प्राप्ति स्तिलैराज्यैघक्षयः ॥ तिलतंडुलसिद्धार्थजालैर्वश्यो नृपो भवेत्‍ ॥३३॥
अपामार्गर्कदूर्वाणां होमो लक्ष्मीप्रदोऽघनुत्‍ ॥ स्त्रीवश्यकृत्प्रियंगूणां सुराणां भूतशांतिदः ॥३४॥
अश्वत्थोदुंबरप्लक्षवटबिल्वसमुद्धवाः ॥ समिधो लभते हुत्वा पुत्रानायुर्द्धनं सुखम्‍ ॥३५॥
निर्मोकहेमसिद्धार्थलवणैश्वौरनाशनम्‍ ॥ रोचनागोमयैस्तंभो भूप्राप्तिः शालिभिर्हुतैः ॥३६॥
होमसंख्या तु सर्वत्र सहस्त्रादयुतावधि ॥ प्रकल्पनीया मन्त्रज्ञैः कार्य्यगौ ख्लाघवात्‍ ॥३७॥
कार्तवीर्य्यस्य मन्त्राणामुच्यते लक्षणं बुधाः ॥ कार्तवीर्यार्जुनं ङेंते सर्वमंत्रेषु योजयेत्‍ ॥३८॥
स्वबीजाद्यो दक्षार्णोऽसौ अन्ये नवशिवाक्षराः ॥ आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः ॥३९॥
स्वकामाभ्यां तृतीयोऽसौ स्वभ्रूभ्यां तु चतुर्थकः ॥ स्वपाशाभ्यां पञ्चमोऽसौ षष्ठः स्वेन च मायया ॥४०॥
स्वांकुशाभ्यां सप्तमः स्यात्स्वमाभ्यामथाष्टमः ॥ स्ववाग्भभ्यां नवमो वर्मास्त्राभ्यामथांतिम्‍ ॥४१॥
द्वितीयादिनवांतेषु बीजयोः स्याद्वयतिक्रमः ॥ मंत्रे तु दशमे वर्णा नववर्नास्त्रमध्यगाः ॥४२॥
एतेषु मंत्रवर्येषु स्वानुकूलं मनुं भजेत्‍ ॥ एषामाद्ये विराट्‌छंदोऽन्येषु त्रिष्टुबुद्दाद्दतम्‍ ॥४३॥
दश मंत्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः ॥ तदादिमः शिर्वाणः स्यादन्ये तु द्वादशाक्षराः ॥४४॥
त्रिष्टुप्‍ छन्दस्तथाद्ये स्यादन्येषु जगती मता ॥ एवं विंशतिमंत्राणां यजनं पूर्ववन्मतम्‍ ॥४५॥
दीर्घामूलबीजन कुर्यादेषां षडंगकम्‍ ॥ तारो ह्रत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम्‍ ॥४६॥
चतुर्दशार्णो मंत्रोऽयमस्येज्या पूर्ववन्मता ॥ भूमेत्रसमनेत्राक्षिवर्णैरस्यांगपंचकम्‍ ॥४७॥
तारो हद्धगवान्‌ ङेंत कार्तवीयुर्जुनस्तथा ॥ धर्मास्त्राग्रिप्रियामंत्रः प्रोक्तो ह्र्ष्टादशार्णकः ॥४८॥
त्रिवेदेसप्तयुग्माक्षिवर्णेः पंचांगकं मनोः ॥ नमो भगवते श्रीति कार्तवीर्यार्जुनाय च ॥४९॥
सर्वदुष्टांतकायेति तपोबलपराक्रमः ॥ परिपालितसप्तांते द्वीपाय सर्वरापदम्‍ ॥५०॥
जन्यचूडा मर्णाते ये महाशक्तिमते ततः ॥ सहस्त्रदहनप्रांते वर्मास्त्रांतो महामनुः ॥५१॥
त्रिषष्टिवर्णवान्प्रोक्तः स्मरणात्सर्वविघ्नत्दृत्‍ ॥ राजन्यचक्रवतीं च वीरः शूरस्तृतीयकः ॥५२॥
माहिष्मतीपतिः पश्वाच्चतुर्थः समुदीरितः ॥ रेवांबुपरितृप्तश्व काणो हस्तप्रबाधितः ॥५३॥
दशास्येति च षडिः स्यात्पदैर्ङेतैः षडंगकम्‍ ॥ सिंच्यमानं युवतिभिः क्रीडंतं नर्मदाजले ॥५४॥
हस्तैर्जलौद्यं रुंधतं ध्यायेन्मत्तं नृपोत्तमम्‍ ॥ एवं ध्यात्वा युतं मंत्रं जपेदन्यत्तु पूर्ववत्‍ ॥५५॥
पूर्वं तु प्रजपेल्लक्षं पूजायोगश्व पूर्ववत्‍ ॥ कार्तवीर्यार्जुनी नाम राजा बाहुसहस्त्रवान्‍ ॥५६॥
तस्य संस्मरणादेव त्दृतं नष्टं च संवदेत्‍ ॥ लभ्यते मंत्रवर्योऽयं द्वात्रिंशद्वर्णसंयुतः ॥५७॥
पादैः सर्वेण पंचांगं ध्यानपूजादि पूर्ववत्‍ ॥ कार्तवीर्याय शब्दांते विद्महे पद्ममुच्चरेत्‍ ॥५८॥
महावीर्याय वर्णंते धीमहीति पदं वदेत्‍ ॥ तन्नोऽर्जुनः प्रवर्णांते चोदत्यात्पदमीरयेत्‍ ॥५९॥
गायत्र्येषार्जुन स्योक्ता प्रयोगादौ जपेत्तु ताम्‍ ॥ अनुष्टुभं मनुं रात्रौ जपतां चौरसंचयाः ॥६०॥
पलायंते गृहाद्दुरं तर्पणाद्धवनादपि ॥ अथो दीपविधिं वक्ष्ये कार्तवीर्याप्रियंकरम्‌ ॥६१॥
वैशाखं श्रावणे मार्गे कार्तिकाश्विनपौषतः ॥ माघफाल्गुनयोमार्सर्दीपारंभं समाचरेत्‍ ॥६२॥
तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना ॥ हस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे ॥६३॥
द्विदैवते च रोहिण्यां दीपारंभो हितावहः ॥ चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि ॥६४॥
प्रीतौ हर्षं च सौभाग्य शोभानायुषतोरपि ॥ करणे विष्टिरहिते ग्रहणेऽर्द्धोदयादिषु ॥६५॥
योगेषु रात्रौ पूर्वाह्रे दीपारंभः कृतः शुभः ॥ कार्तिके शुल्कसप्तम्यां निशीथेऽतीव शोभनः ॥६६॥
यदि तत्र खेवार्वारः श्रवणं भं च दुर्लभम्‍ ॥ अत्या वश्यककार्येषु मासादीनां न शोधनम्‍ ॥६७॥
आद्ये ह्युपोष्य नियतो ब्रह्मचारी सपीतकैः ॥ प्रातः स्तात्वा सुद्धभूमौ लिप्तायां गोमयोदकैः ॥६८॥
प्राणानायम्य संकल्प न्यासान्पूर्वोदितांश्वरेत्‍ ॥ षट्‌कोणं रचयेद्धूमौ रक्तचंदनतंडुलैः ॥६९॥
अतः स्मर स्मालिख्य षट्रकोणेषु समा लिखेत्‍ ॥ नवार्णैर्वेष्टयेत्तच्च त्रिकोणं तद्वहिः पुन्ह ॥७०॥
एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम्‍ ॥ स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः ॥७१॥
कांस्यपात्रं मृण्मयं कनिष्ठं लोहजं मृतौ ॥ शांतये मुद्रचूर्णोत्थ संधौ गोधूमचूर्णजम्‍ ॥७२॥
आज्ये पलसहस्त्रे तु पात्र शतपलं स्मृतम्‍ ॥आज्येऽयुतपले पात्रं पलपंचशता स्मृतम्‍ ॥७३॥
पंचसप्ततिसंख्ये तु पात्रं षष्टिपलं स्मृतम्‍ ॥ त्रिसाहस्त्री घृतपले शर्करापलभाजनम्‍ ॥७४॥
द्विसाहख्यां द्विशतमितं च भाजनमिष्यते ॥ शतेऽक्षिचरसंख्यातमेवमन्यत्र कल्पयेत्‍ ॥७५॥
नित्यदीपे वह्रिपलं पात्रमाज्यं पलं स्मृतम्‍ ॥ एवं पात्रं प्रतिष्ठाप्यः वर्तीः सुत्रोत्थिताः क्षिपेत्‍ ॥७६॥
एका तिस्त्रोऽथवा पंचसप्ताद्या विषमा अपि ॥ तिथिमानादासहस्त्रं तंतुंसख्या विनिर्मिता ॥७७॥
गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम्‍ ॥ सहस्त्रपलसंख्यादिदशांशं कार्यगौरवात्‍ ॥७८॥
सुवर्णादिकृतां रम्यां शलाकां षोडशांगुलाम्‍ ॥ तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम्‍ ॥७९॥
विसुंचेद्दक्षिणे पात्रमध्ये चाग्रे कृताग्रिकाम्‍ ॥ पात्रदक्षिणादिग्देशे मुक्तां गुलचतुष्टयम्‍ ॥८०॥
अधोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम्‍ ॥ दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम्‍ ॥८१॥
दीपात्पूर्वत्र दिग्भागे सर्वतोभद्रमंडले ॥ तंडुलाष्टादले वापि विधिवत्स्थापयेद्द्धटम्‍ ॥८२॥
तत्रावाह्य नृपाधीषं पूजयेत्पूर्ववत्सुधीः ॥ जलाक्षतान्समादाय दीपं संकल्पयेत्ततः ॥८३॥
दीपसंकल्पमंत्रोऽयं कथ्यते द्वीषभूमितः ॥ प्रणवः पाशमाये च शिखा कार्ताक्षराणि च ॥८४॥
वीर्या र्जुनाय माहिष्मतीनाथाय सहस्त्र च ॥ बाहवे इति वर्णांते सहस्त्रपदमुच्चरेत्‍ ॥८५॥
क्रतुदीक्षितहस्ताय दत्तात्रेयप्रियाय च ॥ आत्रेयायानुसूयांते गर्भरत्नाय तत्परम्‍ ॥८६॥
नमो ग्रीवामकर्णैदुस्थितौ पाश इमं ततः ॥ दीपं गृहाणं अमुकं रक्ष रक्ष पदं पुनः ॥८७॥
दुष्टान्नाशययुग्मं स्यात्तथाअ पातय घातय ॥ शत्रून जहिद्वंय माया तार्ह स्वं बीजमात्मभूः ॥८८॥
वह्रिप्रिया अनेनाथ दीपवर्येण पश्विमा ॥ भिमुखेनामुकं रक्ष अमुकांते वरप्रद ॥८९॥
मायाकाशद्वयं वामनेत्रचंद्रयुतं शिवा ॥ वेदादिकामचामुंडाः स्वाहा तु पूसबिंदुकौ ॥९०॥
प्रणवोऽग्निप्रिया मंत्रो नेत्रबाणाधराक्षरः ॥ दत्तात्रेयो मुनिर्मालामंत्रस्य परिकीर्तितः ॥९१॥
छन्दोऽमितं कार्तवीर्यार्जुनी देवोऽखिलाप्ति कृत ॥ चामुंड्या षडंगानि चरेत्षड्‌दीर्घयुक्तया ॥९२॥
ध्यात्वा देव्म ततो मंत्रं पठित्वांते क्षिपेज्जलम्‍ ॥ गोविंदाढ्यो हली सेंदुश्वामुंडाबीजमीरितम्‍ ॥९३॥
ततो नवाक्षरं मंत्रं सहस्त्रं तत्पुरो जपेत्‍ ॥ तारोऽनंतो बिंदुयुक्तो मायास्वं वामनेत्रयुकू ॥९४॥
कूर्माग्नी शांतिबिंद्वाढ्यौ वह्रि जायांकुशं ध्रुवम्‍ ॥ ऋषिः पूर्वोदितोनुष्टुप्छंदोऽन्यत्पूर्वत्पुनः ॥९५॥
सहस्त्रं मंत्रराज्म च जपित्वा कवच्म पठेत्‍ ॥ एवं दीपप्र्दाननस्य कतीप्नोखिलेऽप्सितम्‍ ॥९६॥
दीपप्रबोधनकाले तु वर्जयेदशुभां गिरम्‍ ॥ विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम्‍ ॥९७॥
शूद्राणां मध्यमं प्रोक्तं ग्लेच्छस्य वधबन्धनम्‍ ॥ अख्वोत्वोर्दर्शत्म दुष्टं रावाश्वस्य सुखावहम्‍ ॥९८॥
दीपज्वाला समा सिध्दयै वक्रा नाशविधायिनी ॥ शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता ॥९९॥
कृष्णा  शङभयोत्पत्त्यैं वमंती पशुनाशिनी ॥ कृते दीपे यदा पात्रं भग्रं दृश्येत दैवतः ॥१००॥
पक्षदर्वाक्तदा गच्छेद्यजमानो यमालयम्‍ ॥ वर्त्यंतरं यदा कुर्यात्कार्यं सिद्धयेद्विलंबतः ॥१०१॥
नेत्रहीनो भवेत्कर्ता तस्मिन्दी पांतरे कृते ॥अशुचिस्पर्शने व्याधिर्दिपनाशे तु चौरभीः ॥१०२॥
श्वमार्जारासुखसंस्पर्शे भवेद्धपतितो भयम्‍ ॥ पात्रारंभे वसुपलैः कृतो दीपोऽखिलेष्टदः ॥१०३॥
तस्माद्दीपः प्रयत्नेन रक्षणीयोंऽतरायतः ॥  आसमाप्तेः प्रकुर्वित ब्रह्मचर्यं च भूशयः ॥१०४॥
स्त्रीशूद्रपतितादीनां संभाषमपि वर्जयेत्‍ ॥ जपेत्सहस्त्रं प्रत्येकं मंत्रराजं नवाक्षरम्‍ ॥१०५॥
स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः ॥ एकपादेन दीपाग्रे स्थित्वा यो मंत्रना यकम्‍ ॥१०६॥
सहंस्त्र प्रजपेद्रात्रौ सोऽभीष्टं क्षिप्रमाप्नुयात्‍ ॥ समाप्य शोभनदिने संभोज्य द्विजसत्तमान्‍ ॥१०७॥
कुंभोदकेन कर्तारमभि षिंचन्मनुं जपेत्‍ ॥ कर्ता तु दक्षिणां दद्यात्पुष्कलां तो षहेतवे ॥१०८॥
गुरौ तुष्टे ददातीष्टं कृतवीर्यसुतो नृपः ॥ गुर्वाज्ञयां स्वयं कुर्याद्यदि वा कारये द्रुरुः ॥१०९॥
दत्त्वा धनादिकं तस्मै दीपदानाय नारद । गुर्वाज्ञामन्त्ररा कुर्याद्यो दीपं स्वेष्टसिद्धये ॥११०॥
सिद्धिर्न जायते तस्य हान्रेव पदे पदे ॥ उत्तमं गोघृतं पोक्तं मध्यमं महषीभवम्‍ ॥१११॥
तिलतैलं तु तादृक‍ स्यात्कनीयोऽजादिजं घृतम्‍ ॥ आस्यरोगे सुगंधेन दद्यात्तेलेन दीपकम्‍ ॥११२॥
सिद्धार्थसंभवेनाथ द्विषतां नाशनाय च ॥ सहस्त्रेण पलैर्दीप विहिते न दृश्यते ॥११३॥
कार्यसिद्धिस्तदा कुर्यातिवारं दीपजं विधिम्‍ ॥ तदा सुदुर्लभमपि कार्य्यं सिद्धयेन्न संशयः ॥११४॥
दीपप्रियः कार्तवीर्यो मार्तंडो नतिवल्लभे ॥ स्तुतिप्रियो महविष्णुर्गणेश स्तर्पणाप्रियः ॥११५॥
दुर्गार्चनप्रिया नूनमभिषेकप्रियः शिवः ॥ तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात्‍ ॥११६॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यमाहात्म्यमन्त्रदीपकथनं नाम षटसप्ततितमोऽध्यायः ॥७६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:28:23.2330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

in spite of a thorough search the relevant file is not traceable

  • भलीभांति खोज करने पर भी संबंधित फाइल मिल नहीं रही है 
RANDOM WORD

Did you know?

मराठीत जुन्या कवींच्या साधारण किती कविता उपलब्ध असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.