TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - षष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


षष्टितमोऽध्यायः
सनंदन उवाच ॥
अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् ॥ तूष्णीं ध्यानपरो धीमानेकांते समुपाविशत् ॥१॥
तमुवाचाशरीरी वाक् व्यासं पुत्रसमवितम् ॥ भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ॥२॥
एको ध्यानपरस्तूष्णीं किमास्से चिंतयन्निव ॥ ब्रह्मघोर्षैर्विरहितः पर्वतोऽयं न शोभते ॥३॥
तस्मादधीष्व भगवन्सार्द्धं पुत्रेण धीमता ॥ वेदन्वेदविदा चैव सुप्रसन्नमनाः सदा ॥४॥
तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् ॥ शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ॥५॥
तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम् ॥ वातोऽतिमांत्र प्रववौ समुद्रानिलवीजितः ॥६॥
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ॥ शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥७॥
अपृच्छत्पितर्म तत्र कुतो वायुरभूदयम् ॥ आख्यातुमर्हति भवान्सर्वं वायोर्विचेष्टितम् ॥८॥
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ॥ अनध्यायनिमित्तऽस्मिन्निदं वचन मब्रवीत् ॥९॥
दिव्यं ते चक्षुरुत्पंन्न स्वस्थ्म ते निश्वलं मनः ॥ तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः ॥१०॥
तस्यात्मनि स्वयं वेदान्बुद्धा समनुचिंतय ॥ देवयानचरो विष्णोः पितृयानश्व तामसः ॥११॥
द्वावेतौ प्रत्ययं यातौ दिवं चाधश्व गच्छतः ॥ पृथिव्यामंतरिक्षेच यतः संयांति वायवः ॥१२॥
सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥ तत्र देवगणाः साध्याः समभूवन्महाबलाः ॥१३॥
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥ उदानस्तस्य पुत्रोऽभूव्द्यानस्तस्याभवत्सुतः ॥१४॥
अपानश्व ततो जज्ञे प्राणश्वापि ततः परम् ॥ अनपत्योऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः ॥१५॥
पृथक्कर्म्माणि तेषां तु प्रवक्ष्यामि यथा तथा ॥ प्राणिनां सवंतो वायुश्वेष्टा वर्तयते पृथक् ॥१६॥ 
प्रीण नाच्चैव सर्वेषां प्राण इत्यभिधीयते ॥ प्रेषयत्यसंघातान्धूमजांश्वोष्मजांस्तथा ॥१७॥
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ॥ अंबरे स्नेहमात्रेभ्यस्तडिद्धयश्वोत्तमद्युतिः ॥१८॥
आवहो नाम सोऽभ्येति द्वितीयः श्वसनो नदन् ॥ उदयं ज्योतिषां शश्वत्सोमदीनां करोति यः ॥१९॥
अंतर्देहेषु चोदानं यं वंदति मनीषिणः ॥ यश्वतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयेत् जलम् ॥२०॥
उद्धत्य ददते चापो जीमूतेभ्यो वनेऽनिलः ॥ योऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति ॥२१॥
उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ॥ संनीयमाना बहुधा येन नीला महाघनाः ॥२२॥
वर्षमोक्षक्षकृतारंभास्ते भवंति घनाघनाः ॥ योऽसौ वहति देवानां विमानानि विहायसा ॥२३॥
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥ येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः ॥२४॥
पंचमः स महावेगो विवहो नाम मारुतः ॥ यस्मिन्परिप्लवे दिव्या वहंत्यापो विहायसा ॥२५॥
पुण्यं चाकाशगंगायास्तोयं तिष्ठति ॥ दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ॥२६॥
योनिरंशुसहस्त्रस्य येन याति वसुंधराम् ॥ यस्माद्दाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ॥२७॥
षष्ठः परिवहो नाम स वायुर्जीवताः वरः ॥ सर्वप्राणभृतां प्राणान्योंऽतकाले निरस्यति ॥२८॥
यस्य धर्मेऽनुवर्तेते मृत्युवैवस्वतावुभौ ॥ सम्यगान्वीक्षता बुद्धया ॥ शांतयाऽध्यात्मनित्यया ॥२९॥
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥ यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ॥३०॥
दक्षस्य दश पुत्राणां सहस्त्राणि प्रजापतेः ॥ येन वृष्ट्या पराभूतस्तो यान्येन निवर्तते ॥३१॥
परीव हो नाम वरो वायुः स दुरतिक्रमः ॥ एवमेते दितेः पुत्रा मरुतः पर्माद्धुताः ॥३२॥
अनारमंतः सर्वांतः सर्वगाः सरचारिणः ॥ एतत्तु महदाश्वर्यं यदयं पर्वतोत्तमः ॥३३॥
कंपितः सहसा तेन पवमानेन वायुना ॥ विष्णोर्निः श्वासवातोऽयं यदा वेगसमीरितः ॥३४॥
सहसोदर्यते तात जगत्प्रव्यथते तदा ॥ तस्माद्धह्यविदो ब्रह्म न पठंत्यतिवायुतः ॥३५॥
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् एताव क्त्वा वचनं पराशरशुतः प्रभुः ॥३६॥
उक्त्वा पुत्रमधीष्वेति व्योमगंगामगात्तदा ॥ ततो व्यासे गते स्त्रांतु शुको ब्रह्मविदां वरः ॥३७॥
स्वाध्यायमकरोद्धह्यन्वेदवेदांगपारगः ॥ तत्र स्वाध्यायसंसक्तं शुकं विप्रेंद्र शुकं व्याससुतं मुने ॥३८॥
सनत्कुमारो भगवानेकांते समुपागतः ॥ उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना ॥३९॥
ततः प्रोवाच विप्रेंद्र शुकं विदां वरः ॥ किं करोषि महाभाग व्यासपुत्र महाद्युते ॥४०॥
शुक उवाच॥
स्वाध्याये संप्रवृत्तोऽहं ब्रह्मपुत्राधुना स्थितः ॥ त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च ॥४१॥
किंचित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् ॥ तद्वदस्व महाभाग यथा त ज्ज्ञाअनमाप्नुयाम् ॥४२॥
सनत्कुमार उवाच ॥
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ॥ नास्ति रागसमः दुःखं नास्ति त्यागसमं सुखम् ॥४३॥
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ॥ सदृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥४४॥
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ॥ नालं स दुःखामोक्षाय संगो वै दुःखलक्षणः ॥४५॥
सक्तस्य बुद्धिर्भवति मोहजालविवर्द्धिनी ॥ मोहजालावृतो दुःखमिहामुत्र तथाश्नुते ॥४६॥
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ॥ कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥४७॥
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्स रात् ॥ विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥४८॥
आनृशंस्यं परो धर्मः क्षमा  च परमं बलम् ॥ आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम् ॥४९॥
येन सर्वं परित्यक्तं स विद्वान्स च पंडितः ॥ इंद्रियैरिंद्रियार्थेभ्यश्वरत्यात्मवशैरिह ॥५०॥
असज्जमानः शांतात्मा निर्विकारः समहितः ॥ आत्मभूतैरतद्धूतः सह चैव विनैव च ॥५१॥
स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति ॥ अदर्शनमसंस्पर्शस्तथैवाभाषणं सदा ॥५२॥
यस्य भूतैः सह मुने स श्रेयो विंदते महत् ॥ न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्वरेत् ॥५३॥
नेदं जन्म समासाद्य वैरं कुर्वीतं केन चित् ॥ आकिंचन्यं सुसंतोषो निराशिष्टमचापलम् ॥५४॥
एतदाहुः परं श्रेय आत्मज्ञान जितात्मनः ॥ परिग्रहं परित्यज्य भव तात जितेंद्रियः ॥५५॥
अशोकं स्थान इह चामुत्र चाभयम् ॥ निराशिषो च शोचंति त्यजेदाशिषमात्मनः ॥५६॥
परित्यज्यशिषं सौम्य दुःखग्रामद्विमोक्ष्यसे ॥ तपोनित्येन दांतेन मुनिना संयतात्मना ॥५७॥
अजितं जेतुकामेन भाव्यं संगेष्वसंगिना ॥ गुणसंगेष्वनासक्त एकचर्यारतः सदा ॥५८॥
ब्राह्मणो च चिरादेव सुखमायात्यनुत्तमम् ॥ द्वंद्वारामेषु भूतेषु वराको रमते मुनिः ॥५९॥
किंचित्प्रज्ञानतृप्तोऽसौ ज्ञानतप्तो न शोचति ॥ शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम् ॥६०॥
अशुभैश्वाप्यधो जन्म कर्मर्लभतेऽवशः ॥ तत्र मृत्युजरादुःखैः सततं समभिद्रुतम् ॥६१॥
संसारं पश्यते जंतुस्तत्कथं नावबुध्यसे ॥ अहिते हितसंज्ञस्त्वमधुवे ध्रुवसंज्ञकः ॥६२॥
अनर्थे वार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ॥ संवेष्ट्यमानं बहुभिर्मोहतंतुभिरात्मजैः ॥६३॥
कोशकारवदात्मानं वेष्टितो नावबुध्यसे ॥ अलं परिग्रहेणेह दोषवान् हि परिग्रहः ॥६४॥
कृमिर्हि कोशका रस्तु बध्यते स्वपरिग्रहात् ॥ पुत्रदारकुटुंबेषु सक्ताः सीदंति जंतवः ॥६५॥
सरः पंकार्णवे मग्ना जीर्णा वनगजा एव ॥ मोहजालसमाकृषान्पश्य जंतून्सुदुःखितान् ‍॥६६॥
कुटुंबं पुत्रदारं च शरीरं द्रव्यसंचयम् ॥ पारक्यमध्रुवं सर्वं किं सुकृतदुष्कृते ॥६७॥
यदा सर्वं परित्यज्य गंतव्यमवशेन वै ॥ अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठासि ॥६८॥
अविश्रांतमनालंबमपाथेयम दैशिकम् ॥ तमःकर्त्तारमध्वानं कथमेको गमिष्यसि ॥६९॥
नहि त्वां प्रस्थितं कश्वित्पृष्ठतोऽनुगमिष्यति ॥ सुकृतं च त्वां गच्छंतमनुयास्यतः ॥७०॥
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ॥ अर्थार्थमनुशीर्यंते सिद्धार्थंस्तु विमुच्यते ॥७१॥
निबंधिनी रज्जुरेषा या ग्रामे वसतो रतिः ॥ छित्वैनां च शौर्यं सुकृतो यांति नैनां छिदंति दुष्कृतः ॥७२॥
तुल्यजातिवयोरुपान् ह्रतान्पस्यसि मृत्युना ॥ न च नामास्ति निर्वेदो लोहं हि हदयं तव ॥७३॥
रुपकूलां मनःस्त्रोतां स्पर्शद्वीपां रासावहाम् ॥ गंधपंकां शब्दजलां स्वर्गमार्गदुरारुहाम् ॥७४॥
क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् ॥ त्यागवातध्वगां शीघ्रां बुद्धिनावं नदीं तरेत् ॥७५॥
त्यक्ता धर्ममधर्मं च ह्युभे सत्यानृते त्यज ॥ त्यज धर्मसंकल्पादधर्मं चाप्यहिंसया ॥७६॥
उभे सत्यानृते बुद्धा बुद्धिं परमनिश्वयात् ॥ अस्थिस्थूणं स्त्रायुयुतं मांसशोणितलेपनम् ॥७७॥
धर्मवनद्धं दुर्गंधि पूर्ण मूत्रपुरीषयोः ॥ जराशोकसमाविष्टं रोगायतमस्थिरम् ॥७८॥
रजस्वलमनित्यं च भूतावांस समुत्सृज ॥ इदं विश्वं जगत्सर्वमजगच्चापि यद्धवेत् ॥७९॥
महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् ॥ इंद्रियाणि च पंचैव तमः सत्त्वं रजस्तथा ॥८०॥
इत्येष सप्तदृशको राशिख्यक्तसंज्ञकेः ॥ सर्वैरिहेंद्रियार्थेश्व व्यक्ताव्यर्कौर्हि हितम् ॥८१॥
पंचविंशक इत्येष व्यक्ताव्यक्तमयो गणः ॥ एतैः सर्वैः समयुक्तमनित्यममिष्वीयते ॥८२॥
त्रिवगोंऽत्र सुखं दुःख जीवितं मरणं तथा ॥ य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ॥८३॥
इन्द्रियैर्गृह्यते यद्यत्तद्वयक्तमभिधीयते ॥ अव्यक्तमथ तज्ज्ञेयं लिंगग्राह्यमतींद्रियम् ॥८४॥
इन्द्रियैर्नियतैर्दही धाराभिरवि तर्प्यते ॥ लोके विहितमात्मानं लोकं चात्मानि पश्यति ॥८५॥
परावरदृशः शक्ति र्ज्ञानवेलां न पश्यति ॥ पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥८६॥
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥ ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्व देहजात् ॥८७॥
लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति ॥ अनादिनिधनं जंतुमात्मनि स्थितमव्ययम् ॥८८॥
अकतारममूढं च भगवानाह तीर्थवित् ॥ यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥८९॥
स्वदुःखप्रतिघातार्थ हंति जंतुरनेकधा ॥ ततः कर्म समादत्ते पुन्रन्यन्नवं बहु ॥९०॥
तप्यतेऽथ पुनस्तेन भुक्ताऽपथ्यमिवातुरः ॥ अजस्त्रमेव मोहांतो दुःखेषु सुखसंज्ञितः ॥९१॥
वध्यते तप्यते चैव भयवत्कर्मभिः सदा ॥ ततो निवृत्तो बंधात्स्वात्कर्मणामुदयादिह ॥९२॥
परिभ्रमति संसारे चक्रवद्धाहुवर्जितः ॥ संयमेन च संबंधान्निवृत्त्या तपसो बलात् ॥९३॥
सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ॥९४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमोऽध्यायः ॥६०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:35:30.6800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

basket cell

  • करंडक पेशी 
  • करंडक पेशी 
RANDOM WORD

Did you know?

दीप किंवा दिवा लावण्याचे कांही शास्त्र आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.