TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रयोदशाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - त्रयोदशाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


त्रयोदशाधिकशततमोऽध्यायः
सनातन उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्य हम्‍ ॥ यानि कृत्वा नरा नार्योऽभीष्टान्कामानवाप्नुयुः ॥१॥
चैत्रमासचतुर्थ्यां तु वासुदेवस्वरुपिणम्‍ ॥ गणंप सम्यगभ्यर्च्य कांचनदक्षिणाम्‍ ॥२॥
विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः ॥ वैशाखस्य चतुर्थ्यां तु पार्थ्यं संकर्षणाह्रयम्‍ ॥३॥
गृहस्थद्विजमुख्येभ्यः शंखं दत्त्वा विधानवित्‍ ॥ प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम्‍ ॥४॥
ज्येष्ठमासचतुर्थ्या तु प्रार्च्य प्रद्युम्नरुपिणम्‍ ॥ फलं मूलं च यूथेभ्यो दत्त्वा स्वर्ग लभेन्नरः ॥५॥
आषाढस्य चतुर्थ्या तु संप्रपूज्यानिरुद्धकम्‍ ॥ यतिभ्योऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः ॥६॥
चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम्‍ ॥ उद्यापनं विधानेन कर्तव्यं फलमिच्छता ॥७॥
अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम्‍ ॥ कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम्‍ ॥८॥
तथाऽऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभागवहम्‍ ॥ रथंराह्रकल्पस्य ह्रादिभूतं दिनं यतः ॥९॥
श्रद्धापूतेन मनसा गणेशं विधिना नरः ॥ पूजयित्वा लभेच्चपि फलं देवादिदुर्गमम्‍ ॥१०॥
श्रावणस्य चतुर्थ्यां तु जाते चंद्रोदये मुने ॥११॥
गणेशाय प्रदद्याच्च ह्यार्घ्यं विधिविदांवरः ॥ लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्‍ ॥१२॥
नानारत्नविभूषाढ्यं प्रसन्नास्यं विचिंतयेत्‍ ॥ आवाहनादिभिः सर्वैरुपचारैः समर्चयेत्‍ ॥१३॥
नैवेद्यं मोदकं दद्याद्धणेशप्रीतिदायकम्‍ ॥ एवं व्रतं विद्यायाथ भुक्ता मोदकमेव च ॥१४॥
सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः ॥ व्रतस्यास्य प्रभावेण कामान्मनसि चिंतितान्‍ ॥१५॥
लब्ध्वा लोके परं चापि गणेशप्दमाप्नुयात्‍ ॥ नानेन सदृशं चान्यद्वतमस्ति जगत्रये ॥१६॥
तस्मात्कार्यं प्रयत्नेन सर्वान्कामभीप्सता ॥ अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम्‍ ॥१७॥
केचिदिच्छंति देवर्षे तद्विधानं वदामि ते ॥ हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम्‍ ॥१८॥
वेष्टितं रत्कवस्त्रेण सर्वतोभद्र्मंडले ॥ पूजयेद्रक्तकुसुमैः पत्रिकाभिश्व पंचभिः ॥१९॥
बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया ॥ आभिरन्यश्व कुसुमैरभ्यर्च्य फलमोदकैः ॥२०॥
उपहारं प्रकल्प्याथ दद्यादर्द्यं समुद्यते ॥ ततः संप्रार्थ्य विघ्नेशमूर्ति सोपस्करां मुने ॥२१॥
आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत्‍ ॥ कृत्वैवं पंच वर्षाणि समुपास्य यथाविधिः ॥२२॥
भुक्तत्वेह भोगानखिलान्‍ लोकं गणपतेर्व्रजेत्‍ ॥ अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम्‍ ॥२३॥
पूजनी योऽत्रं यत्नेन स्त्रग्गंधयवसादिभिः ॥ ततः प्रदक्षिणीकृत्य शक्तश्वेद्दानमाचरेत्‍ ॥२४॥
अशक्तः पुनरेतां तु नमस्कृत्य विसर्जयेत्‍ ॥ पंचाब्द्म वा दशाब्दं वा षोडशाब्दमथापि वा ॥२५॥
व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम्‍ ॥ प्रभावेण व्रतस्यास्य भुक्ता भोगान्मनोरमान्‍ ॥२६॥
सत्कृतो देवता वंदैगौलोकं समवाप्नुयात्‍ ॥ अथ शुल्क चतुर्थ्या तु सिद्धवैनायकव्रतम्‍ ॥२७॥
आवाहनादिभिः सर्वैरुपचारैः समर्चनम्‍ ॥ एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम्‍ ॥२८॥
एकदंतं शूर्पकर्णं गजवक्रं चतुर्भुजम्‍ ॥ पाशांकुशधरं देवं तप्तकांचनसन्निभम्‍ ॥२९ ॥
एकविंशति पत्राणि चैकविंशतिनामभिः ॥ समर्पयेद्धक्तियुक्तस्तानि नामानि वै श्रृणु ॥३०॥
सुमुखाय शमीपत्रं गणाधीशाय भृंगजम्‍ ॥ उमापुत्राय बल्व तु दूर्वा गजमुखाय च ॥३१॥
लंबोदराय बदरीं हरसूनवे ॥ शूर्पकर्णाय तुलसीं वक्रतुंडाय शिंबिजम्‍ ॥३२॥
गुहाग्रजायापा मार्गमेकदंताय बार्हतम्‍ ॥ हेरम्बाय तु सिंदूरं चतुर्होत्रे च पत्रजम्‍ ॥३३॥
सर्वेश्वरायागस्यस्य पत्रं प्रीतिविवर्द्धनम्‍ ॥ दूर्वायुग्मं ततो गुह्य गंधपुष्पाक्षतैर्युतम्‍ ॥३४॥
पूजां निवेदयेद्धक्तियुक्तो मोदकपंचकम्‍ ॥ आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत्‍ ॥३५॥
विनायकस्य प्रतिमां हैमीं सोपस्करां मुने ॥ निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत्‍ ॥३६॥
एवं कृतार्चनो भक्तया पंच वर्षाणि नारद ॥ उपास्य लभते कामनैहिकामुष्मिकान्‍ शुभान्‍ ॥३७॥
अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन ॥ पश्यन्‍ मिथ्याभिशाप तु लभते नात्र संशयः ॥अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत्‍ ॥३८॥
सिंहः प्रसेनममधीत्सिंहो जांबवता हतः ॥ सुकुमारक मा रोदीस्त्व ह्येष स्यमं तकः ॥३९॥
इशशुल्कचतुर्थ्यां तु कपर्द्दीशं विनायकम्‍ ॥४०॥
पौरुषैण तु सूक्तेन पूजयेदुपचारकैः ॥ अकारणान्मुष्टितांस्तंडुलान्सकपर्द्दिकान्‍ ॥४१॥
विप्राय बटवे दद्याद्धंधपुष्पर्चिताय च ॥ तंडुला वैश्वदैवत्यां हरदैवत्यमिश्रिताः ॥४२॥
कपर्दिगणनाथोऽसौ प्रीयतां तैः समर्पितैः ॥ चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम्‍ ॥४३॥
स्त्रीणामेवाधिकारोऽत्र तद्विधानमुदीर्यते ॥ पूजयेच्च गणाधीशं स्नाता स्त्री समलंकृता ॥४४॥
तदग्रे पूर्णपक्कांत्र विन्यसेत्कर्कान्दश ॥ समर्प्य देवदेवाय भक्तया प्रयतमानसा ॥४५॥
देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत्‍ ॥ सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम्‍ ॥४६॥
ततश्वंद्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम्‍ ॥ भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये ॥४७॥
यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने ॥ सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत्‍ ॥४८॥
एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम्‍ ॥ उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत्‍ ॥४९॥
यावज्जीवं तु वा नार्या कार्य्यं सौभाग्यवांछया ॥ व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम्‍ ॥५०॥
विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः ॥ ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम्‍ ॥५१॥
प्रातर्व्रतं तु संकल्प्य धेनुशृंगजलं शुचि ॥ पीत्वा स्नात्वाथ मध्याह्रे शंखपालादिपन्नगान्‍ ॥५२॥
शेषं चाह्रानपूर्वैस्तु पूजयेदुपचारकैः ॥ क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम्‍ ॥५३॥
एवंकृते तु विप्रेंद्रे नृभिर्नागव्रते शुभे ॥ विषाणि नश्यंत्यचिरान्न दशंति च पन्नगाः ॥५४॥
मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वर ॥ क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम्‍ ॥५५॥
अयाचितोपवासाभ्यां तृतीयकचतुर्थके ॥ एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः ॥५६॥
समाप्य च ततोऽस्यांते व्रतस्नातो महाव्रती ॥ कारयेद्धेमघटितं भूगणेर्मूषकं रथम्‍ ॥५७॥
अशक्तो वर्णकैरेव शुभ्रं सुपत्रकम्‍ ॥ तस्योपरिं घटं स्थाप्य ताम्रपात्रेण संयुतम्‍ ॥५८॥
पूरयेत्तेडुलैः शुभ्रैस्तस्योपरि गणेश्वरम्‍ ॥ न्यसेद्वस्त्रयुगाच्छन्नं गंधाद्यैः पूजयेच्च तम्‍ ॥५९॥
नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति ॥ जागरैर्गीतवाद्याद्यैः पुराणाख्यानकैश्वरेत्‍ ॥६०॥
प्रभाते विमले होमं कृत्वा विधानतः ॥ तिलवीहियवश्वेतसर्षपार्ज्यैः सखंडकैः ॥६१॥
गणो गाणाधिपश्वैव कूष्माडास्त्रिपुरांतकः ॥ लंबोदरैकदंतौ च रुक्मदंष्ट्रश्व विघ्नपः ॥६२॥
ब्रह्मा यमोऽथ वरुणः सोमसूर्यहुताशनाः ॥ गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ॥६३॥
प्रणवार्यैर्ङैनमोंऽतैः प्रत्येकं दहने हुनेत्‍ ॥ वक्रतुंडेति ङेंतेन वर्मातेनाष्टयुक्छतम्‍ ॥६४॥
ततो व्यात्दृतिभिः शक्तया हुत्वा पूर्णाहुतिं चरेत्‍ ॥ दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः ॥६५॥
चतुर्विशतिसंख्याकान्‍ मोदकैः पायसैस्तथा ॥ सवत्सा गां ततो दद्यादाचार्याय सदक्षिणाम्‍ ॥६६॥
अन्येभ्योऽपि यथाशक्ति भूयसीं च ततो ददेत्‍ ॥ प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम्‍ ॥६७॥
बन्धुभिः सह भुंजीत स्वयं च प्रीतमानसः ॥ एतद्वतं नरः कृत्वा भुक्ता भोगानिहोत्तमान्‍ ॥६८॥
सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः ॥ केचि द्वरव्रतं नाम प्राहुरेतस्य नारद ॥६९॥
विधानमेतदेवापि फलं चापीह तत्समम्‍ ॥ पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः ॥७०॥
विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिनां ददेत्‍ ॥ एवंण कृते मुने भूयाद्वती संपत्तिभाजनम्‍ ॥७१॥
माघकृष्णचतुर्थ्यां तु संकष्टव्रत्मुच्यते ॥ तत्रोपवासं संकल्प्य व्रती नियमपूर्व कम्‍ ॥७२॥
चंद्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः ॥ ततश्वंद्रोदये प्राप्ते मृन्मयं गणनायकम्‍ ॥७३॥
विधाय विन्यसेत्पीठे सायुधं च सवाहनम्‍ ॥ उपचारैः षोडशभिः समभ्यर्च्य विधानतः ॥७४॥
मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम्‍ ॥ ततोऽर्घ्यं ताम्रजे पात्रे रक्तचंदनमिश्रितम्‍ ॥७५॥
सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम्‍ ॥ सशमीपत्रदधि च कृत्वा चंद्राय दापयेत्‍ ॥७६॥
गगनार्ण्वमाणिक्य चंद्र दाक्षायणीपते ॥ गृहाणार्घ्यं मया दत्तं गणेशप्रतिरुपक्‍ ॥७७॥
एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम्‍ ॥ शक्तया संभोज्य विप्राग्न्यान्स्वयं भुंजीत्‍ चाज्ञया ॥७८॥
एवं कृत्वा व्रतं विप्र संकष्टाख्यं शुभवहम्‍ ॥ समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात्‍ ॥७९॥
माघशुल्कचतुर्थ्यां तु गौरीव्रतमनुत्तमम्‍ ॥तस्यां तु गौरी संपूज्या संयुक्ता योगिनीनणैः ॥८०॥
नरैः स्त्रीभिर्विशेषेण कुंद्पुष्पैः॥ रक्त्सूत्रै रक्तपुष्पैस्तथैवालत्ककेन च ॥८१॥
पश्व बलिभिः सगुडेनार्द्रकेण च ॥ पयसा पायसेनापि लवणेन च पालकैः ॥८२॥
पूज्याश्वविधवा नार्यस्तथा विप्राः सुशोमनाः ॥ सौभाग्य वृद्धये देयो भोक्तव्यं बंधुभिः सह ॥८३॥
इदं गौरीग्रतं विप्र सौभाग्यरोग्यवर्द्धनम्‍ ॥ प्रतिवर्ष प्रकर्त्तव्यं नारीभिश्व नरैस्तथा ॥८४॥
ढुंढिव्रतं परैः प्रोक्तं कैश्वित्कुंडव्रतं स्मृतम्‍ ॥ ललिताव्रतमित्यन्यैः शांतिव्रतमथापरैः ॥८५॥
स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने ॥ भवेत्सह स्त्रगुणितं प्रसादाद्दंतिनः सदा ॥८६॥
चतुर्थ्यां फाल्गुने मासि ढुंडिराजव्रतं शुभम्‍ ॥ तिलपिष्टैर्द्विजान्‍ भोज्य स्वयं चाश्रीत मानवः ॥८७॥
गणेशाराधनपरो दानहोमप्रपूजनेः ॥ तिलैरेवकृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ॥८८॥
सौवर्णं गजवक्रं च कृत्वा संपूज्य यत्नतः ॥ द्विजाग्र्यायप्रदातव्यं सर्वसंपत्समृद्धये ॥८९॥
यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक्‍  ॥ सांगारका वा विप्रेंद्र सा विशेषफलप्रदा ॥९०॥
सर्वासु चतुर्थीषु शुल्कास्वप्यंसितासु च ॥ विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ॥९१॥
इति श्रीबृहन्नारदीयपु० पूर्वभागे बृहदुपाख्याने चतुथपादे द्वादशमास चतुर्थीव्रतनिरुपणं नाम त्रयोदशाधिकशततमोऽध्यायः ॥११३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T05:05:06.4800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अहाळबाहाळ

  • वि. फार ; बहुत ; अत्यंत . तो मी येथें अहाळबाहळीं कांपे । - ज्ञा ११ . ३५१ . [ सं . बहुल ; का . बाहाळा . बाहाळ द्वि . ] 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.