TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
विंशोऽध्यायः

श्री नारदीयमहापुराणम् - विंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


विंशोऽध्यायः

॥ नारद उवाच ॥

भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ॥ सर्वकर्मवरिष्ठं च त्वयोक्तं ध्वजधारणम् ॥१॥

यस्तु वै सुमातिर्नाम ध्वजारोपपरो मुने ॥ त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश ॥२॥

सनक उवाच ॥

श़ृणुष्वैकमनाः पुण्यमितिहासं पुरातनम् ॥ ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम् ॥३॥

असीत्पुरा कृतयुगे सुमतिर्नाम भूपतिः ॥ सोमवंशोद्भवः श्रीमान्सप्तद्वीपैकनायकः ॥४॥

धर्मात्मा सत्यसंपन्नः शुचिवंश्योऽतिथिप्रियः ॥ सर्वलक्षणसंपन्नः सर्वसंपद्विभूषितः ॥५॥

सदा हरिकथासेवी हरिपूजापरायणः ॥ हरिभक्तिपराणां च शुश्रूषुर्निरहं कृतिः ॥६॥

पूज्यपूजारतो नित्यं समदर्शी गुणान्वितः ॥ सर्वभूतहितः शान्तःकृतज्ञःकीर्तिमांस्तथा ॥७॥

तस्य भार्या महाभागा सर्वलक्षणसं युता ॥ पतिव्रता पतिप्राणा नाम्ना सत्यमतिर्मुने ॥८॥

तावुभौ दम्पती नित्यं हरिपूजापरायणौ ॥ जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ ॥९॥

अन्नदानरतौ नित्यं जलदानपरायणौ ॥ तडागारामवप्रादोनसंख्यातान्वितेनतुः ॥१०॥

सा तु सत्यमतिर्नित्यं शुचिर्विष्णुगृहे सती ॥ नृत्यत्यत्यन्त सन्तुष्टा मनोज्ञा मञ्जुवादिनी ॥११॥

सोऽपि राजा महाभागो द्वादशीद्वादशीदिने ॥ ध्वजमागेपयत्येव मानोज्ञं बहुविस्तरम् ॥१२॥

एवं हरिपरं नित्यं राजानं धर्मकोविदम् ॥ प्रियां सत्यमतिं चास्य देवा अपि सदास्तुवन् ॥१३॥

त्रिलोके विश्रुतौ ज्ञात्वा दम्पती धर्मको विदौ ॥ आययौ बहुभिः शिष्यैर्द्रष्टुकामो विभाण्डकः ॥१४॥

तमायांत मुनिं श्रृत्वा स तु राजा विभाण्डकम् ॥ प्रत्युद्ययौ सपत्नीकः पूजाभिर्बहुविस्तरम् ॥१५॥

कृतातिथ्याक्रियं शान्तं कृतासनपरिग्रहम् ॥ नीचासनस्थितो भूपः प्राञ्जलिर्मुनिमब्रवीत् ॥१६॥

राजो वाच ॥

भगवन्कृतकृत्योऽस्मि त्वदभ्यागमनेन वै ॥ सतामागमनं सन्तः प्रशंसन्ति सुखावहम् ॥१७॥

यत्र स्यान्महतां प्रेम तत्र स्युः सर्व सम्पदः ॥ तेजः कीर्तिर्धन पुत्रा इति प्राहुर्विपश्चितः ॥१८॥

तत्र वृद्धिमुपायान्ति श्रेयांस्यनुदिनं मुने ॥ यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो ॥१९॥

यो मृर्घ्रि धाग्येद्बेह्मन्महत्पादजलं रजः ॥ स स्नातः सर्वतीर्थेषु पुण्यात्मा नात्र संशयः ॥२०॥

मम् पुत्राश्च दाराश्च संपत्त्वयि समर्पिताः॥ मामाज्ञापय विप्रेन्द्र किं मियं करवाणि ते ॥२१॥

विमरावनतं भूपं स निरीक्ष्यं मुनीश्वरः ॥ स्पृशन्करेण तं प्रीत्या प्रत्युवाचातिहर्षितः ॥२२॥

ऋषिउवाच ॥

राजन्यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् ॥ विनयावनतः सर्वे बहुश्रेयो लभेदिह ॥२३॥

धर्मश्चार्थश्च कामश्च मोक्षश्च नृपसत्तम ॥ विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनाम् ॥२४॥

प्रीतोऽस्मि तव भूपाल सन्मार्गपरिवर्त्तिनः ॥ स्वस्ति ते सततं भूयाद्यत्पृच्छामि तदुच्यताम् ॥२५॥

पूजा बहुविधाः सन्ति हरितुष्टिविधायिकाः ॥ तासु नित्यं ध्वजारोपे वर्त्तसे त्वं सदोद्यतः ॥२६॥

भार्यापि तव साध्वीयं नित्यं नृत्यपरायणा ॥ किमर्थमेतद्वृ तान्तं यथावद्वक्तुमर्हसि ॥२७॥

राजोवाच ॥

श़ृणुष्व भगवन्सर्वं यत्पृच्छसि वदामि तत् ॥ आश्चर्यभूतं लोकानामवयोश्चारितं त्विह ॥२८॥

अहमासं पुरा शूद्रो मालिनिर्नाम सत्तम ॥ कुमार्गनिरतो नित्यं सर्वलोकहिते रतः ॥२९॥

पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः ॥ गोघ्नश्च ब्रह्महा चौरः सर्वप्राणिवधे रतः ॥३०॥

नित्यं निष्ठुुरवक्ता च पापी वेश्यापरायणः ॥ एवं स्थितः कियत्कालमनादृत्य महद्वचः ॥३१॥

सर्ववन्धुपरित्यक्तो दुःखी वनमुपागतः ॥ मृगमांसाशनो नित्यं तथा पान्थविलुम्पकः ॥३२॥

एकएकी दुःखबहुलो न्यवसन्निर्जने वने ॥ एकदा क्षुत्परिश्रान्तो निदाघार्त्तः पिपासितः ॥३३॥

जीर्णं देवालयं विष्णोरपश्यं विजने वने ॥ हंसकारण्डवाकीर्णं तत्समीपे महत्सरः ॥३४॥

पर्यन्तवनपुष्पौघच्छादितं तन्मुनीश्वर ॥ अपिंब तत्र पानीयं तत्तीरे विगतश्रमः ॥३५॥

फलानि जग्धवा शीर्णानि स्वये क्षुच्च निवारिता ॥ तस्मिञ्जीर्णालये विष्णोनिर्वासं कृतवानहम् ॥३६॥

जीर्णसुटिसंधनं तस्य नित्यमकारिषम् ॥ पर्णैस्तृणैश्च काष्ठौघै र्गृहं सम्यक् प्रकल्पितम् ॥३७॥

स्वसुखार्थं तु तद्भूमिर्मया लिप्ता मुनीश्वर ॥ तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मगान् ॥३८॥

आजीवं वर्तय नित्यं वर्षाणां विंशतिः स्थितः॥ अथेयमागता साध्वी विन्घ्यदेशसमुद्भवा ॥३९॥

निषादकुलजा विप्र नाम्ना ख्याताऽवकोकिला ॥ बन्धुवर्गपरित्यक्ता दुःखिता जीर्णाविग्रहा ॥४०॥

क्षुत्तुड्घर्मपरिश्रान्ता शोचन्ती स्वकृतं ह्यघम् ॥ दैवयोगात्समायाता भ्रमन्ती विजने वने ॥४१॥

ग्रीष्मतापार्द्दिता बाह्ये स्वान्ते चाधिनिपीडिता ॥ इमां दुःखार्दिता दृष्ट्वा जाता मे विपुला दया ॥४२॥

दत्तं मया जलं चास्यै मांसं वन्यफलानि च ॥ गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तथम् ॥४३॥

अवेदयत्सववृत्तान्त तच्छृणुष्व महामुने ॥ नाम्नावकोकिला चाहं निषादकुलसम्भवा ॥४४॥

दारुकस्य सुता चाहं विन्ध्यपर्वतवासिनी ॥ पस्वहारिणी नित्यं सदा पैशुन्यवादिनी ॥४५॥

पुंश्चलीत्येवमुक्त्वा तु बन्धुवर्गैः समुज्झिता ॥ कियत्कालं ततः पत्या भृताहं लोकनिन्दिता ॥४६॥

दैवा त्सोऽपि गतो लोकं यमस्यात्र विहाय माम् ॥ कान्तारे विजने चैका भ्रमन्ती दुःखपीडिता ॥४७॥

दैवात्त्वत्सविधं प्राप्ता जीविताहं त्वयाधुना ॥ इत्येवं स्वकृतं कर्म सर्वं न्यवेदयत् ॥४८॥

ततो देवालये तस्मिन्दम्पतीभावमाश्रितौ ॥ स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ ॥४९॥

एकदा मद्यपानेन प्रमतौ निर्भरं मुने ॥ तत्र देवालये रात्रौ मुदितौ मांसभोजनात् ॥५०॥

तनुवस्त्रापरिज्ञानौ नृत्यं चकृव मोहितौ ॥ प्रारब्धकर्म भोगान्तमावां युगपदागतौ ॥५१॥

यमदूतास्तदायाताः पाशहस्ता भयंकराः ॥ नेतृमावां नृत्यरतौ सुघोरां यमयातनाम् ॥५२॥

ततः प्रसन्नो भगवान्कर्मणा मम मानद ॥ देवावसथसंस्कारसंज्ञितेन कृतेन नः ॥५३॥

स्वदूताप्न्रेपयामास स्वभक्तावनतत्परः ॥ ते दूता देवदेवस्य शङ्खचक्र गदाधराः ॥५४॥

सहस्रसूर्यसंकाशाः सर्वे चारुचतुर्भुजाः ॥ किरीटकुण्डलधरा हारिणो वनमालिनः ॥५५॥

दिशो वितिमिरा विप्र कुर्वन्तः स्वेन तेजसा ॥ भयंकरान्वाशहस्तान्दंष्ट्रिणो यमकिङ्करान् ॥५६॥

आवयोग्रहणे यत्तानूचुः कृष्णपरायणाः ॥५७॥

विष्णुदूता ऊचुः ॥

भो भो क्रूरा दूराचारा विवेकपरिवर्जिताः ॥ मुञ्चघ्वमेतौ निष्पापौ दम्पती हरिवल्लभौ ॥५८॥

विवेकस्रिषु लोकेषु संपदामादिकारणम् ॥ अपापे पापधीर्यस्तु तं विद्यात्पुरुषाधमम् ॥५९॥

पापे त्वपापधीर्यस्तु तं विद्यादधमाधमम् ॥६०॥

यमदूताः ऊचुः ॥

युष्माभिः सत्यमेवोक्तं किं त्वेतौ पापिसत्तमौ ॥ यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ ॥६१॥

श्रुतिप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ॥ धर्माधर्मविवेकोऽयं तन्नेष्यामो यमान्तिकम् ॥६२॥

एतच्छत्छुवातिकृपिता विष्णुदूता महौजसः ॥ प्रत्यूचूस्तान्यमभटानधर्मे धर्ममानिनः ॥६३॥

विष्णूदूता ऊचुः ॥

अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् ॥ सम्यग्विवेकशून्यानां निदानं ह्यापदां महत् ॥६४॥

तर्कणाद्यविशेषण नरकाध्यक्षतां गताः ॥ यूयं किमर्थमद्यापि कर्त्तुं पापानि सोद्यमाः ॥६५॥

स्वकर्मक्षपर्यन्तं महापातकिनोऽपि च ॥ तिष्ठन्ति नरके घोरे यावच्चन्द्रार्कतारकम् ॥६६॥

पूर्वसंचितपापानामदृष्ट्वा निष्कृतिं वृथा ॥ किमर्थं पापकर्माणि करिष्येऽथ पुनः पुनः ॥६७॥

श्रुतिप्रणिहितो धर्मः सत्यं सत्यं न संशयः ॥ किन्त्वाभ्यां चरितान्धर्मान्प्रवक्ष्यामो यथातथम् ॥६८॥

एतौ पापविनिर्मुक्तौ हरिशुश्रूषणे रतौ ॥ हरिणा त्रायमाणौ च मुञ्चध्वमविलम्बितम् ॥६९॥

एषा च नर्तनं चक्रे तथैष ध्वजरोषणम् ॥ अन्तकाले विष्णुगृहे तेन निष्पापतां गतौ ॥७०॥

अन्तकाले तु यन्नाम श्रुत्वोक्त्वापि चच वै सकृत् ॥ लभते परमं स्थानं किमु शुश्रूषणे रताः ॥७१॥

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ कृष्णसेवी नरोऽन्तेपि लभते परमां गतिम् ॥७२॥

यतीनां विष्णुभक्तानां परिचर्या परायणाः ॥ ॥ ते दूताः सहसा यान्ति पापिनोऽपि परां गतिम् ॥७३॥

मुहूर्तं वा मुहूर्तार्द्ध यस्तिष्ठद्धरिमन्दिरे ॥ सोऽपि याति परं स्थानं किमु द्वात्रिंशवत्सरान् ॥७४॥

उपलेपनकर्त्तारौ संमार्जनपरायणौ ॥ एतौ हरिगृहे नित्यं जीर्णशीणा्रधिरोपकौ ॥७५॥

जलसेचनकर्त्तारौ दीपदौ हरिमन्दिरे ॥ कथमेतौ महाभागौ यातनाभोगमर्हथ ॥७६॥

इत्युक्ता विष्णुदूतास्ते च्छित्वा पाशांस्तदैव हि ॥ आरोप्यावां विमानाग्रयं ययु र्विष्णोः परं पदम् ॥७७॥

तत्र सामीप्यमापनै देवदेवस्य चक्रिणः ॥ दिव्याग्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर ॥७८॥

दिव्यान्भोगांस्तु तत्रापि भुक्त्तवा यातौ महीमिमाम् ॥ अत्रापि संपदतुला हरिसेवाप्रसादतः ॥७९॥

अनिच्छया कृतेनापि सेवनेन हरेर्मुने ॥ प्राप्तमीदृक् फलं विप्र देवानामपि दुर्लभम् ॥८०॥

इच्छयाराध्य विश्वेशं भक्तिभावेन माधवम् ॥ प्राप्स्यावः परमं श्रेय इति हेतुर्निरूपितः ॥८१॥

अवशेनापि यत्कर्म कृतं स्यात्सुमहत्फलम् ॥ जायते भूमिदेवेन्द्र किं पुनः श्रद्धया कृतम् ॥८२॥

एतदुक्तं निशाग्यासौ स मुनीन्द्रौ विभाण्डकः ॥ प्रशस्य दम्पती तौ तु प्रययौ स्वतपोवनम् ॥८३॥

तस्माज्जानीहि देवर्षे देवदेवस्य चक्रिणः ॥ परिचर्या तु सर्वेषां कामधेनूपमा स्मृता ॥८४॥

हरिपूजापराणां तु हरिरेव सनातनः ॥ ददाति परमं श्रेयः सर्वकामफलप्रदः ॥८५॥

य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् ॥ पठेच्च श़ृणु याद्वापि सोऽपि याति परां गतिम् ॥८६॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सुमतिभूपकथावर्णनं नाम विंशोऽध्यायः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:35:46.2830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

निपातित

  • p  Excepted from a rule, irregular, thrown down. 
  • वि. १ नियमाला अपवाद केलेले ; नियमबाह्य ; अनियमित . २ खाली फेकलेले ; पाडलेले . ३ ठार केलेले ; मारलेले . [ सं . ] 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.