संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्रधानदेवतापूजनम्‌

प्रधानदेवतापूजनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अग्निपूजनम - ॐ अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान‌ । सुयोध्यस्मत जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ अग्नि प्रज्वलितं. ॐ भूर्भुव: स्व: अग्नये.................
ब्रम्हापूजनम् -  ॐ ब्रम्हा जज्ञानं. हंसपृष्ठ.... मंडपेऽस्मिन स्थिरो भव ॥ ॐ भूर्भुव: स्व: ब्रम्हाणे नम:.
ग्रहपूजनम् - ॐ ग्रहा ऊर्ज्जाहुतयो. सर्यादिनवग्रहमंडल देवताभ्यो. धूपमाघ्रापयामि । दीपं दर्शयामि । नैवेद्यं निवेदयामि । ॐ प्राणाय स्वा. हा. ॐ भूर्भुव: स्व: गणपत्यादि स्थापितदेवभ्यो नम: नैवेद्यं निवेदयामि । अग्नये आज्यनैवेद्यम । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । शेषोपचारार्थे नमस्कार: । अनया पूजया गणपत्यादि स्थापितदेवा: प्रीयंताम्‌ ।

स्विष्टकृत होम:
अनेकदिन साध्य कर्म में प्रतिदिन दो आहुति इतना हवि स्विष्टकत कं लिए घृताक्त रखा जता है । समिधा स्विष्टकत मे नही आती । अगर ऐसा हवि सुरक्षित हो तो उसमे किंचित्‌ अधिक हवि डालकर स्विष्टकत करें । अगर प्रतिदिन स्विष्टकत किया हो तो यथाक्रम स्विष्टकत्‌ करे ।

स्विष्टकृत होम: ब्रम्हणाऽन्वारब्धो जुहुयात्‌ - ॐ अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते न मम ।
सर्वप्रायश्चित्तनवाहुतय -  (जलमादाय) कर्मण: प्रारंभत आसमाप्ति देशत: कालत: तंत्रतो मंत्रतश्च ज्ञानतो ऽ ज्ञानतश्च वा न्यूनाधिकान्यथाकरणजनित प्रत्यवायपरिहारार्थं तथा च प्रधानांगदेवता विहितसमिधादिहवनीय द्रव्याणां न्यूनाधिक्यजनितप्रत्यवायपरिहारार्थं तथा च तेषां मध्ये कृमिकीटादि संभवजनितप्रत्य० तथैव च तत तत देवतोक्तहवनीयद्रव्य अभावजनितप्रत्य० तथा च कृमिकीटादिनामग्नौ दाहजनितप्रत्य० तथा च होमप्रदानसमयेऽग्नौ स्वाहाकारो - व्यवहिताहुति - प्रक्षेपाभावजनितप्रत्य० तथैव प्रणीताग्न्योर्मध्ये गमनजनित प्रत्य० तथाच परिस्तरणादीनां दाहजनितप्रत्य० तथाच हवनीयद्रव्याणां कुंडाद्वहि: पतनजनितप्रत्य० तथैव होमप्रदाने तत्ततदेवतामंत्राणामुच्चारणे हरस्वदीर्घपृतस्वरितोदात्तादीनां व्यत्ययोच्चरणजनितप्रत्य० कृतस्य. कर्मण: साद्नुण्यार्थं सर्वप्रायश्चितहवनमहं करिष्ये ॥ ब्रम्हाणा ऽ न्वारब्धो जुहुयात
ॐ भू: स्वाहा इदमग्नये न मम ।१। ॐ भुव: स्वाहा इदं वायवे न मम ।२। ॐ स्व: स्वाहा इदं सूर्याय न मम ।३।

ॐ त्वं नो अग्ने वरुणस्य विद्वान देवस्य हेडो अव यासिसीष्ठा: । यजिष्ठो वन्हितम: शोशुचानो विश्वा द्वेषा सि प्र मुमुग्ध्यस्मत स्वाहा इदमग्नी वरुनाभ्यांन मम ।४। ॐ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुण रराणो वीहि मृडीक  सुहवो न एधि स्वाहा इदमग्नीवरुणाभ्यां न मम ।५। ॐ अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्वमया ऽ असि । अयानो यज्ञं वहास्ययानो धेहि भेषज स्वाहाइदमग्नये अयसे न मम ।६। ॐ ये ते शतं वरुण ये सहस्रं यज्ञिया: पाशावितता महान्त: । तेभिनो अद्य सवितोत विष्णुर्विश्वे देवेभ्यो मरुदभ्य: स्वर्केभ्यश्च न मम ।७। ॐ उदुत्तमं वरुण पाशमस्मदवा धमं विमध्यम श्रथाय । अथा वयमादित्यव्रते तवानागसो ऽ अदितये स्याय स्वाहा  इदं वरुनायादित्यायादितये च न मम । ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम ।९।
बलिदानम. मया प्रारब्धस्य. कर्मण: सांगतासिद्धयर्थं दिकपालदेवतानां स्थापितदेवतानां च पूजनपूर्वकबलिदानं करिष्ये । (दिकपालदेवतानां स्थानं मंत्राश्च - पृष्ट) यथा प्राच्यां इन्द्राय नम: इन्द्रं सांगं सपरिवारं सायुधं सशक्तिकं एभि: गंधाद्युपचारै: त्वां अहं पूजयामि । इन्द्राय सांगाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपं आसादितबलिं सम. भो इन्द्र दिशं रक्ष बलिं भक्ष मम सकुटुंबस्य अभ्युदयं कुरु । मम गृहे आयु: कर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव । अनेन पूजनपूर्वकबलिदानेन इन्द्र: प्रीयताम । (एवं सर्वत्र) अथवा एकतंत्रेण - ॐ प्राच्यै दिशे स्वाहा ऽ र्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहा ऽ र्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहा ऽ र्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहा ऽ र्वाच्यै दिशे स्वाहो र्ध्वायै दिशे स्वाहा ऽ र्वाच्यै दिशे स्वाहा ऽ र्वाच्यै दिशे स्वाहा ऽ र्वाच्यै दिशे स्वाहा ॥ इन्दादिदशदिक्पालान सांगान सपरिवारान सायुधान सशक्तिकान एभिर्गंधाद्युपचारै: युष्मान अहं  पूजयामि । इन्द्रादिदशदिक्पालेभ्य: सांगेभ्य: सपरिवारेभ्य: सायुधेभ्य: सशक्तिकेभ्य: इमं सदीपं आसादितबलिं समर्पयामि । भो इंद्रादिदशदिक्पालदेवा: दिश: रक्षत बलिं भक्षत मम सकुटुंबस्य सपरिवारस्य अभ्युदयं कुरुत । आयु:कर्तार: क्षेमकर्तार: शांतिकर्तार: पुष्टिकर्तार: तुष्टिकर्तार: निर्विघ्नकर्तार: कल्याणकर्तार: वरदाभवत । अनेन पूजनपूर्वकबलिदानेन इंद्रादिदशदिक्पालदेवा: प्रीयंतां न मम ।
गणपतिबलि : ॐ गणानान्त्वा० ॐ भूर्भुव: स्व: गणपतिं सांगं सपरिवारं सायुधं सशक्तिकम् एभिर्गंधाद्य्पचारै: त्वामहं पूजयामि । गणपतये सांगाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपं आसादित बलिं सम० । भो गणपते इमं बलिं गृहाण मम सकुटुंबस्य सपरिवारस्य अभ्युदयं कुरु । मम गृहे आयु: कर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता कल्याणकर्ता वरदो भव । अनेन पूजनपूर्वकबलिदानेन  गणपति: प्रीयतां.................
सशक्तिकाभ्य: इमं सदीपं आसादितं बलिं सम. । भो भो सगणेशगौर्याद्यावाहित मातर: इमं बलिं गृहणीत मम सकुटुंबस्य सपरिवारस्य अभ्युदयं कुरुत । आयु: कर्त्र्य: क्षेमकर्त्र्य: शांतिकर्त्र्य: पुष्टिकर्त्र्य: तुष्टिकर्त्र्य: निर्विघ्नकर्त्र्य: कल्याणकर्त्र्य: वरदा भवत । अनेन पूजनपूर्वक बलिदानेन सगणेशगौर्याद्यावाहित मातर: प्रीयन्तां न मम । एकतंत्रपक्षे वसोर्धारा समन्वित सगणेश. वसोर्धाराबलि: ॐ भूर्भुव: स्व: श्रीआदि वसोर्धारा: सांगा:......... पूजयामि । श्रीआदि आवाहित वसोर्धाराभ्य......... सम. । भो भो श्री आदि आवाहित वसोर्धारा: इमं बलिं......... भवत । अनेन पूजनपूर्वक बलिदानेन वसोर्धारा: प्रीयन्तां । वास्तोष्पतिबलि: ॐ भूर्भुव: स्व शिख्यादि (ब्रम्हादि) वास्तुमंडलदेवता सहितं वास्तुपुरुषं........ पूज. । मंडलदेवता सहिताय वास्तुपुरुषाय सांगाय........... इमं आसादित बलिं सम. । भो भो मंडलदेवतासहित वास्तुपुरुष इमं बलिं गृहण मम सकुटुंबस्य सपरिवारस्य अभ्युदयं कुरु । मम गृहे आयु: कर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव । अनेन पूजनपूर्वक बलिदानेन मंडलसिहत वास्तुपुरुष: प्रीयताम्‌ ।
योगिनीबलि: श्री महाकाली महालक्ष्मी महासरस्वती सहिता गजाननादि (विश्वदुर्गादि) चतु:षष्टियोगिनी: सांगा:.........  अहं पूजयामि । सांगाभ्य:.......... बलिं सम. । भो भो..... योगिन्य: इमं बलि गृहणीत । मम....... कुरुत । आयु: कर्त्र्य: क्षेमकर्त्र्य: शांतिकर्त्र्य: पुष्टिकर्त्र्य: तुष्टिकर्त्र्य निविघ्नकर्त्र्य: कल्याणकर्त्र्य: वरदा भवत । अनेन पूजन पूर्वक बलिदानेन श्री महाकाली. योगिन्य: प्रीयन्ताम्‌ ।
क्षेत्रपात्रालबलि: ॐ भूर्भुव:स्व अजरादि क्षेत्रपालदेवान सांगान सपरिवारान सायुधान सशक्तिकान एभि: गंधाद्युपचारै: व: अहं पूजयामि । क्षेत्रपालदेवेभ्य: सांगे ब्य: समरिवारेभ्य: सायुधेभ्य: सशक्तिकेभ्य: इमं सदीपं आसादितबलिं सम. । भो भो क्षेत्रपालदेवा: सांगा: सपरिवारा: सायुधा: सशक्तिका: इमं बलिं गृहणीत । मम सकुटुंबस्य सपरिवारस्य अभ्युदयं कुरुत । आयु: कर्तार: क्षेमकर्तार: शांतिकर्तार: पुष्टिकर्तार: तुष्टिकर्तार: निर्विघ्नकर्तार: वरदा भवत । अनेन पूजन पूर्वक बलिदानेन ‘क्षेत्रपालदेवा: प्रीयन्ताम्‌ ।

रुद्रबलि:- ॐ इमारुद्राय० हरिहरात्मकद्वादशलिंगतो भद्रदेवता पूर्वक पीठदेवता सहितं महारुद्रं साङगं सपरिवारं सायुधं सशक्तिकम्‌ एभि: गंधाद्युपचारै: त्वां अहम पूजयामि । हरिहरात्मकद्वादशलिंगतो भद्रदेवता पूर्वक पीठदेवता सहिताय महारुद्राय साङगाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपं आसादितं बलिं समर्पयामि । भो हरिहरात्मकद्वादशलिंगतो भद्रदेवता पूर्वक पीठदेवता सहित महारुद्र सांग सपरिवार सायुध सशक्तिक इमं बलिं गृहाण मम सकुटुंबस्य अभ्युदयं कुरु । आयु:कर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव । अनेन बलिदानेन हरिहरात्मकद्वादशलिंगतोभद्रदेवता पूर्वक पीठदेवता सहित महारुद्र: प्रीयताम्‌ ।


N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP