संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
श्वेतपरिधौ

श्वेतपरिधौ

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


श्वेतपरिधौ - मंडल बाहये उत्तरत:

गदा - ॐ अवसृष्ट० :--- एहयेहि सोमप्रिय दिव्यशक्ते महाबलिष्ठे विजयप्रदात्रि । कुरुष्व यज्ञं सकलार्थसिद्धं पूजां गृहीत्वाऽस्तु नमो गदे ते ॥ उत्तरस्यां ॐ भूअ० गदायै नम: गदां आ० स्था० ।

त्रिशुल - ॐ  नमो धृष्णवे० :--- एहयेहि संहारक रुद्रशक्ते त्रैगुण्यरूप प्रथितप्रभाव । त्रिशूल रुद्रप्रिय दिव्य यज्ञे पाहि त्वमस्मान्‌ सुतरां नमस्ते ॥ ईशाने ॐ भू० त्रिशूलाय० भो त्रिशूल इहागच्छ इहतिष्ठ

वज्र - ॐ गोत्रभिदं० :--- एहयेहि नारायण दिव्यतेज: प्रभावसृष्टे मुनिदेहजात । इन्द्रप्रियत्वं कुरु वज्र शांतिं यज्ञस्य मे त्वांप्रणमामि नित्यम्‌ ॥ पूर्वे ॐ भू० वज्राय० भो वज्र इहागच्छ इहतिष्ठ

शक्ति - ॐ शिवो नामासि० :--- एयेहि शक्ते ऽ नलदेव देव - प्रभावसंदर्शिनी दिव्यरूपे । महाबले मे कुरु यज्ञसिद्धिं पूजां गृहीत्वा परमे नमस्ते ॥ आग्नेय्यां - ॐ भू० शक्तये० भो शक्ते इहागच्छ इहतिष्ठ

दंड - ॐ इन्द्र आसां० :--- एहयेहि यज्ञे प्रभुधर्मराज - प्रज्ञा बलैश्वर्यसुशक्तिदण्ड नयप्रमाण प्रथितप्रभाव रक्षां कुरु त्वं मम ते प्रणाम: ॥ दक्षिणे ॐ भू दण्डाय

खड्‌ग :--- ॐ मा त्वा तपत्‌ प्रियऽआत्मापियन्तं मा स्वधितिस्तन्व ऽ आ तिष्ठिपत्ते । मा ते गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिनानिथू क: ॥ एहयेहि तीक्ष्णातिसुतिग्मधार त्वं तु प्रियो निऋतिदेवकस्य । खडगप्रभाभास्वर यज्ञसिद्धिं पूजां गृहीत्वा कुरु ते नमोऽस्तु ॥ नैऋत्या ॐ भू० खडगाय नम:०

कश :--- ॐ उरु हि राजा व्वरुणश्चकार सूर्यार पन्थामन्वेतवाऽउ । अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित्‌ ॥ नमो व्वरुणायाभिष्ठितो व्वरूणस्य पाश: ॥ एहयेहि यादोगणवारिधीनां - अधीश देवस्य जलाधिपस्य । पाश प्रियोऽसि प्रकुरु प्रियं नो नमोऽस्तु ते मे प्रगृहाण पूजाम्‌ ॥ पश्चिमे ॐ भू० पाशय नम:०

अंकुश :--- ॐ वायो ये ते० एहयेहि देवाधिपदेव वायो: सर्वत्र सिद्धिप्रदमंकुश त्वम्‌ । पूजां गृहीत्वा कुरु यज्ञसिद्धिं रक्ष त्वमस्मान्‌  नितरां नमस्ते ॥ वायव्यां ॐ भू० अंकुशाय नम:० भो अंकुश इहागच्छ इहतिष्ठ

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP