संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| मधुपर्क प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम मधुपर्क सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी मधुपर्क Translation - भाषांतर मधुपर्क :--- सभी ऋत्विजो का एकतंत्र से मधुपर्क करें । तदर्थ प्रत्येक के लिए दो विष्टर, पाद्य, अर्घ, आचमनीय, मधुपर्क, शुद्धजल, आदि तैयार रखें ।यजमान: कृताञ्जलि :--- ॐ साधु भवन्त: आसतां अर्चयिष्यामो भवत: । ब्राह्मणा: अर्चय ॥अन्य :--- ॐ विष्टरा: विष्टरा: विष्टरा । यजमान :--- विष्टरा: प्रतिगृहयन्ताम् । ब्राह्मणा :--- ॐ विष्टरा: प्रतिगृह्णीम: ॥ यजमान हस्तात् विष्टंर गृहीत्वा - ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्य: । इमं तमभितिष्ठामि यो मा कश्चाभिदासति ॥ ब्राह्मणा: विष्टरं यदगग्रं स्वासनतले स्थापयेयु: ॥ यजमान: पाद्यपात्राणि आदाय - पाद्यानि पाद्यानि पाद्यानि । यजमान :--- पाद्यानि प्रतिगृहयन्ताम् । ब्राह्मणा :--- पाद्यानि प्रतिगृह्णीम: ॥ ॐ विराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोह: ॥ प्रथमं दक्षिणचरणं तत: वामचरणं क्षालयेत् । पुन:विष्टरान् गृहीत्वा :--- पूर्ववत् विष्टरदानम् । क्षालितचरणयो: अधस्तात् उदगग्रं विष्टरं निधाय तदुपरि पादौ करोति । यजमान:अर्घपात्राणि आदाय अन्य :--- अर्घा: अर्घा: अर्घा: ॥ यजमान: अर्घा: स्थ युष्माभि:सर्वात् कामानवाप्नवानि ॥ इति मंत्रेण अर्घं गृहीत्वा शिरसा अभिवंद्य - ॐ समुद्र व: प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टास्माकं वीरा मापरासेचिमत्पय: । इति पठन्त: ऐशान्यां त्यजेयु: ॥ यजमान: आचमनीयपात्राणि आदाय अन्य :--- ॐ आचमनीयानि आचमनीयानि आचमनीयानि ॥ यजमान :--- आचमनीयानि प्रतिगृहयन्ताम् । ब्राह्मणा :--- ॐ आचमनीयानि प्रतिगृहणीम: ॥ यजमानहस्तात् आचमनीयपात्रं गृहीत्वा :--- ॐ आमानगन् यशसा स सृज वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशुनामरिष्टिं तनूनाम् ॥ इति सकृत् आचामेत् द्विस्तूष्णीम् ॥ हस्तप्रक्षालनम् ॥ मधुपर्क :--- कांस्यपात्रे एकपलं घृतं द्विपलं दधि एकपलं मधु एकीकृत्य पात्रेण पिधाय - अन्य :--- मधुपर्का: मधुपर्का: मधुपर्का: । यजमान: ॐ मधुपर्का: प्रतिगृहयान्ताम् ॥ ब्राह्मणा :--- ॐ मधुपर्कान् प्रति गृहणीम: । पात्रं उद्घाटय -- ॐ मित्रस्य त्वा चक्षषा प्रतीक्षे । इति वीक्ष्य ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । इति मंत्रेण गृहीत्वा सव्ये पाणौ कृत्वा दक्षिणस्य अनामिकया ॐ नम: श्यावास्यायान्नशने यत्ता आविद्धं तत्ते निष्कृन्तामि - इति मंत्रेण प्रादक्षिण्येन मधुपर्कं सकृद आलोडय किंचिद् भूमौ क्षिप्त्वा पुनरेव द्विवारं अनेन मंत्रेण आलोडय भूमौ नि:क्षिपेत् । तत: अनामिकांगुष्ठाभ्यां मधुपर्कप्राशनम् - ॐ यन्मधुनो मधव्यं परमं रूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानि ॥ इति मंत्रेण त्रि: प्राश्य प्रतिप्राशने चैतन्मंत्रपाठ: अथवा ॐ मधुव्वाता० उच्छिष्टं उत्तरे विसृजेत् । हस्तं प्रक्षाल्य आचम्य अंगानि स्पृशेत् (आचारात् वामहस्ते जलं गृहीत्वा दक्षिणहस्तेन जलेन) कराग्रेण - ॐ वाङमआस्येस्तु । तर्जन्यंगुष्ठाभ्याम् - ॐ नसोर्मे प्राणोऽस्तु । अनामिकांगुष्ठाभ्याम् - ॐ अक्ष्णोर्मे चक्षुरस्तु । कराग्रेण - ॐ कर्णयोर्मे श्रोत्रमस्तु । कराग्रेण - ॐ बाव्होर्मे बलमस्तु । उभाभ्यां हस्ताभ्यां - ॐ ऊर्वोर्मे ओजोऽस्तु । उभाभ्यां मस्तकादिपादान्तम् - ॐ अरिष्टानि मेंगानि तनूस्तन्वा मे सह सन्तु ॥ इति हस्तं प्रक्षाल्य । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP