संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
योन्यावाहनम्‌

योन्यावाहनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


योन्यावाहनम्‌ ॐ क्षत्रस्य वोनिरसि क्षत्रस्य नाभिरसि । मा त्वा हि सीन्मा मा हि सी: ॥

आगच्छ देवि कल्याणि जगदुत्पत्तिहेतुके ॥ मनोभवयुते रम्यी योनि त्वं सुस्थिरा भव ॥ जगदुत्पत्तिकायै मनोभवयुतायै योन्यै नम: योनिमावा. स्थाप, ॥ भो जगदुत्पत्तिके मनोभवयुते योनि इहागच्छ इह तिष्ठा ॥ तत: प्रार्थयेत्‌ ॥ सेवन्ते महतीं योनिं देवर्षिसिद्धमानवा: ॥ चतुरशीतिलक्षाणि पन्नगाद्या: सरीसृपा: ॥ पशव: पक्षिण: सर्वे संसरन्ति यतो भुवि ॥ योनिरित्येव विख्याता जगदुत्पत्तिहेतुका ॥ मनोभवयुता देवी रतिसौख्यप्रदायिनी ॥ मोहयित्री सुराणाञ्च जगद्धात्रि नमोऽस्तु ते ॥ योने त्वं विश्वरूपाऽसि प्रकृतिर्विश्वधारिणी ॥ कामस्था कामरूपा च विश्वयोन्यै नमो नम: ॥४ कण्ठदेवतावाहनम्‌

ॐ नीलग्रीवा: शितिकण्ठा: शर्वा अध: क्षमाचरा: तेषा सहस्रयोजनेऽव धन्वानि तन्मसि ॥

कुंडस्य कंठदेशोऽयं नीलजीमूतसन्निभ: । अस्मिन्‌ आवाहये रुद्रं शितिकंठं कपालिनम्‌ ॥ ॐ भूर्भुव: स्व: कंठे रुद्राय. ॥ प्रार्थयेत्‌ - कंठमंगलरूपेण सर्वकुंडे प्रतिष्ठित: । परितो मेखलास्त्वत्तो रचिता विश्वकर्मणा ॥ नाभ्यावाहनम्‌ ॥

ॐ नाभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर्भसत्‌ । आनन्दनन्दावाण्डौ मे भआ: सौभाग्यं पस: । जङघाभ्यां पदभ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठित: ॥

पद्याकाराऽथवा कुण्डसदृशाकृतिबिभ्रती । आधार: सर्वकुण्डानां नाभिमावाहयामि ताम्‌ । ॐ भूर्भुव: स्व: नाभ्यै नम: नाभिम्‌ आवा. स्थाप. ॥ भो नाभे इहागच्छ इह तिष्ठ ॥ तत: प्रार्थयेत्‌ ॥ नाभे त्वं कुण्डमध्ये तु सर्वदेवै: प्रतिष्ठिता । अतस्त्वां पूजयामीह शुभदा सिद्धिदा भव ॥ तत: कुण्डमध्ये नैऋत्यकोणे वास्तुपुरुषमावाहयेत्‌ ॥ ॐ वास्तोष्पते प्रतिजानीहयस्मान्स्वावेशोऽअनमीवो भवान: । यत्त्वे महे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ॥ (पा. गृ.)॥ आवाहयामि देवेशं वास्तुदेवं महाबलम्‌ । देवदेवं गणाध्यक्षं पातालतलवासिनम्‌ ॥ ॐ भूर्भुव: स्व: नैऋत्यकोणे वास्तुपुरुषाय नम: वास्तुपुरुषम्‌ आवा. स्थाप. ॥ भो वास्तुपुरुष इहागच्छ इह तिष्ठा ॥ तत: प्रार्थयेत्‌ । यस्य देहे स्थिता क्षोणी ब्रम्हाण्डं विश्वमङ्गलम्‌ । व्यापिनं भीमरूपञ्च सुरूपं विश्वरूपिणम्‌ ॥ पितामहसुतं मुख्यं वन्दे वास्तोष्पतिं प्रभुम्‌ ॥ वास्तुपुरुष देवेश सर्वविघ्नहरो भव । शान्तिं कुरु सुखं देहि सर्वान्कामान्प्रयच्छ मे ॥ एवं कुण्डस्थितान्‌ सर्वान्देवानावाहयैकतन्त्रेण प्रतिष्ठां कृत्वा पूजयेत्‌ । हस्तेऽक्षतानादाय । ॐ मनोजूतिर्जु. । ॐ भूर्भुव: स्व: विश्वकर्मादिवास्तुपुरुषान्ता: सर्वे कुण्डस्थदेवा: सुप्रतिष्ठिता वरदा भवेयु: ॥ ततो गन्धाक्षतपुष्पाण्यादाय ॥ ॐ भूर्भुव: स्व: विश्वकर्मादिवास्तुपुरुषान्तेभ्य: कुण्डस्थदेवेभ्यो नम: सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम. ॥ इति सम्पूज्य । एकस्मिन्पात्रे बलिदानार्थं दध्योदनं कुण्डाद्वहि: संस्थाप्य बलिदानं कुर्यात्‌ । हस्ते जलं गृहीत्वा । ॐ भुर्भुव: स्व: विश्वकर्मादिवास्तुपुरुषान्तेभ्य: कुण्डस्थदेवेभ्यो नम: यथाशक्ति अमुं दध्योदनबलिं सम.॥ पुनर्जलं गृहीत्वा । अनेन यथाशक्ति विश्वकर्मादिवास्तुपुरुषान्तानां कुण्डस्थदेवानां पूजनेन बलिदानेन च विश्वकर्मादिवास्तुपुरुषान्ता: सर्वे कुण्डस्थदेवा: प्रीयंतां न मम ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP