संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| अथ तोरणपूजनम् प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम अथ तोरणपूजनम् सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी अथ तोरणपूजनम् Translation - भाषांतर अथ तोरणपूजनम् :--- पूर्वस्यां दिशि मंडपाद् बहिर्हस्तमात्रे वटतोरणं । आश्वत्थं वा सुद्रढनामकं । शोबननामकं वा त्रिशूलचिह्नयुतम् ॐ अग्निमीळे० मंत्रेण पूर्वे निधाय ॐ सुद्रढाय । शोभनाय वा तोरणाय इति नाममंत्रेण गंधादिभि: संपूज्य चंदनपुष्पमालावस्त्रादिभि: शोभितं कृत्वा राहुबृहस्पती तत्र आवाहय पूजयेत् । तत: तोरणस्तंभयो: मध्ये एकं कलशं ॐ भूरसि०. पूर्णपात्रान्तं स्थापयेत् । तस्मिन् कलशे ध्रुव इहागच्छ इह तिष्ठ मम पूजां गृहाण इति ध्रुवं पूजयेत् - ॐ ध्रुवाय नम: ।दक्षिणे :--- औदुंबरं । प्लाक्षं वा सुभद्र । विकट संज्ञिकं वा त्रिशूलचिह्नितं तोरणं ॐ इषेत्वोर्जेत्वा० मंत्रेण निधाय ॐ सुभद्राय । विकटतोरणाय नम: इति नाममंत्रेण संपूज्य अलंकृत्य तत्र सूर्यांगारकौ आवाहय पूजयेत् । तोरणस्तंभमध्ये पूर्वत्कलशं संस्थाप्य तत्र सूर्यांगारकौ आवाहय पूजयेत् । तोरणस्तंभमध्ये पूर्ववत्कलशं संस्थाप्य तत्र ॐ धरायै नम:० आवाहय पूजयेत् । पश्चिमे - प्लाक्षं । औदुंबरं वा सुकर्माख्यं । सुभीमाख्यं वा त्रिशूलचिहनितं तोरणं ॐ अग्नाअयाहि० मंत्रेण निधाय ॐ सुकर्मणे । सुभीमाय वा तोरणाय नम:० इति संपूज्य अलंकृत्य शुक्रबुधौ तत्र आवाहय पूजयेत् ।उत्तरे :--- न्यग्रोधं । आश्वत्थं वा सुहोत्राख्यं । सुप्रभाख्यं त्रिशूलांकितं तोरणं ॐ शन्नोदेवी० मंत्रेण निधाय ॐ सुहोत्राय । सुप्रभाय वा तोरणाय नम:० इति संपूज्य गंधादिभि: अलंकृत्य तत्र सोमं केतुं शनिं च आवाहय पूजयेत् । पूर्ववत् कलशं संस्थाप्य कलशे विघ्नेशं आवाहय पूजयेत् ।पूर्वद्वारे :--- शाखाद्वये कलशद्वयं दध्यक्षतादियुक्तं मंत्रावृत्या पूर्ववत् संस्थाप्य तत्र ऐरावतं आवाहय पूजयेत् । कलशद्वयोपरि घृतदीपं तैलदीपं वा समाचारात् गणेशाय० दक्षिणे स्कंदाय० द्वारस्थितकलशद्वये गंगायै० यमुनायै० सूक्तजपार्थं ऋग्वेदिनौ ऋत्विजौ वृणुयात् (विशेष ब्राम्हाणवरण में देखें।) एहयेहि सर्वामर सिद्धसाध्यैरभिष्टुतो वज्रधरामरेश । वज्रधरामरेश । संवीज्यमानोप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ॥ भो इन्द्र इहागच्छ इह तिष्ठ । ॐ त्रातारमिन्द्र० ॐ आशु, शिशानो० मंतेण पीतपताकाम्पीतध्वजं पंचस्तदंडं उछ्रयेत् । पताकास्त्रिकोणा: ध्वजाश्व्चतुष्कोणा इति संप्रदाय: । तत: ऐरावतस्थितं पीतवर्णं सहस्त्राक्षं किरीटकुंडलधरं दक्षिणवामकरस्थं वज्रोत्पलमिद्रं ध्यात्वा ॥ इंद्र:सुरपति:श्रेष्ठो वज्रहस्तो महाबल: ॥ शतयज्ञाधिपो देवस्तस्मै नित्यं नमोनम. ॥ इति प्रणम्य इंद्राय सांगाय सपरिवाराय सायुधाय सशक्तिताय सदीपमाषभक्तबलिं समर्पयामि इति कलशाग्रतो बलिं दद्यात् ॥आग्नेयां :--- पूर्ववत्कलशं स्थापयित्वा तत्र पुंडरीकम दिग्गजं संपूज्य तत्र दीपं स्थापयेत ॥ एहयोहि सर्वामरहव्यवाह मुनिप्रवर्यैरभितोऽभिजुष्ट ॥ तेजोवता लोकाणेन सार्द्ध ममाध्वरं पाहि कवे नमस्ते ॥ भो अग्ने इहा० सांगं सपरिवारं सायुधं सशक्तिकं अग्निं कलशे आवाहय । ॐ त्वन्नोअग्ने० ॐ अग्निंदूतं० मंत्रेण रक्तपताकां ध्वजं पंचहस्तदंडं उच्छ्रयेत् । ततश्र्छागस्थं रक्तं दक्षिणवामकरघृतशक्तिकमंडलुं यज्ञोपवीतिनमग्निं ध्यात्वा ॥ आग्नेय: पुरुषो रक्त: सर्वदेवमयोऽव्यय: ॥ धूमकेतू रजोध्यक्षस्तस्मै नित्यं नमोनम: ॥ इति प्रणम्य अग्नये सांगाय सपरिवाय सायुधाय सशक्तिकाय इद माषभक्तबलिं समर्पयामि इति कलशाग्रे बलिं दद्यात् ॥दक्षिणद्वारे :--- प्रतिद्वारशाखं कलशं पूर्ववत् स्थापयित्वा कलशद्वये वामनं दिग्गजं आवाहयाचयित् । पूर्ववद्दीपं स्थापयेत् । ॐ द्वारश्रियै नम: इति ऋर्ध्वं, अध: देहल्यै० । द्वारवामदक्षिणस्तंभयो: ॐ पुष्पदंताय० ॐ कपर्दिने० द्वारस्थितकलशद्वये ॐ गोदावर्यै० ॐ कृष्णायै० यजुर्वेदिनौ ऋत्विजौ दक्षिणद्वारे शांतिसूक्तजपार्थत्वेन वृणे इति वृत्वा । कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवत: । काश्यपेयस्तु विप्रेंद्र ऋत्विक त्वं मे मखे भव ॥ इति संप्रार्थ्य ॥ ॐ इषेत्वोर्जे त्वा० मंत्रेण गंधादिभि: संपूजयेत् । तत: एहयेहि वैवस्वत धर्मराज सर्वामरैरर्चित धर्ममूर्ते ॥ शुभाशुभानंद शुभामधीशा शिवाय न: पाहि मखं नमस्ते ॥ भो यम इहागच्छ इह तिष्ठ सांगं सपरिवारं सायुधं सशाक्तिकं यमं कलशयोरावाहय । ॐ यमायत्वांगिरस्वते० मंत्रेण संपूज्य कृष्णां पताकां ध्वजं पंचहस्तमानं दंडं ॐ आयं गौ० मंत्रेणोच्छ्रयेत् । महिषारूढं धृतदंडपाशं अंजनपर्वततुल्यरूपं अग्निसमलोचनं यमं ध्यात्वा । महामहिषमारुढं दंडहस्तं महाबलम् ॥ आवाहयामि यज्ञेऽस्मिन्पूजां मे प्रतिगृहयतामिति नत्वा । सांगाय० यमाय० इमं माषभक्तबलिं सम० इति बलिं द्वारकलशयोरग्रतो दद्यात् ॥निऋतिकोणे :--- पूर्ववत्कलशं संस्थाप्य, तस्मिन्कलशे कुमुदं दिग्गजं आवाहयभ्यर्च्य दीपं स्थापयित्वा । एहयेहि रक्षोगणनायक त्वं विशालवेताल पिशाचसंघै: ॥ ममाध्वरं पाहि पिशाचनाथ लोकेश्वर त्वं भगवन्नमस्ते ॥ भो निऋते इहागच्छेह तिष्ठ । सांगं सपरिवारं सशाक्तिकं निऋतिं कलशे आवाहय ॐ असुन्वन्त० नीलांपताकां नीलध्वजं पंचहस्त दंडं ॐ मोषूणैन्द्र० उछ्रयेत् । ततो नररूढं खडगहस्तं नीलवर्णं महाबलं महाकायं बहुराक्षसवेष्टितं सर्वाभरणभूषितं निऋतिं ध्यात्वा - निऋतिं खडगहस्तं च सर्वलोकैकपावनम् ॥ आवाहयामि यज्ञेस्मिन्पूजेयं प्रतिगृहयताम् ॥ इति नत्वा सांगाय सपरिवाराय सायुधाय सशक्तिकायेमं बलिं समर्पयामि इति ब अलिं कलशाग्रतो दद्यात् ।पश्चिमद्वारे :--- प्रतिद्वारशाखां कलशद्वयं संस्थाप्य अंजनाख्यं दिग्गजं तयोरावाहयाभ्यर्च्य तयोरग्रतो दीपं स्थापयेत् ॥ तत: ऋर्ध्वं द्वारश्रियै० अध: ॐ देहल्यै० वामदक्षिणयो: स्तंभयो: ॐ नन्दिन्यै० ॐ चंडायै० द्वारस्थित कलशद्वये ॐ रेवायै० ॐ ताप्यै० इति संस्थाप्य सामवेदिनौ ऋत्विजौ पश्चिमद्वारे शांतिसूक्तजपार्थत्वेन वृत्वा । सामवेदस्तु पिंगाक्षो जाग्रत: शक्रदैवत: ॥ भारद्वाजस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ इति संप्रार्थ्य । ॐ अग्न आयाहि० मंत्रेण गंधादिभिरभ्यर्च्य - एहयेहि यादोगणवारिधीनां गणेन पर्जन्यसहापसरोभि: ॥ विद्याधरेंद्रामरगीयमान पाहि त्वमस्मान्भगवन्नमस्ते । भो वरुण इहागच्छेह तिष्ठ सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि स्थापयामीति वरुणं द्वार कलशयोरावाहय ॐ तत्वायामि० मंत्रेणाभ्यर्च्य श्वेतां पताकां श्वेतध्वजं पंचहस्तं दंडं ॐ इमंमेवरुण० मंत्रेणोच्छ्रयेत् । मकरस्थं पाशहस्तं शुक्लवर्णं किरीटिनं वरुणं ध्यात्वा - पाशहस्तं च वरुणमंभसां पतिमीश्वरम् ॥ आवाहयामि यज्ञेऽस्मिन्वरुणाय नमोनम: ॥ वरुणाय सांगाय० माषभक्तबलिं समर्पयामि । कलशयोरग्रतो बलिं दद्यात्६ ।वायव्यां :--- पूर्ववत्कलशं स्थापयित्वा पुष्पदंतं तस्मिन्नावाहय संपूज्य तदग्रतो दीपं स्थापयेत् । एहयेहि यज्ञे मम रक्षणाय मृगाधिरूढ: सहसिद्धसंघै: । प्राणाधिप: कालकवे: सहाय गृहाण पूजां भगवन्नमस्ते ॥ भो वायो इहागच्छेह तिष्ठ मम पूजां गृहाण । वायवे नम: वायुं सांगं० इति वायुं वायुकोणकलशे आवाहय ॐ तवव्वायवृतस्पते० अभ्यर्च्य धूम्रां पताकां धूम्रध्वजं पंचहस्तदंडसहितं ॐ वायोयेते० अभ्यर्च्य धूम्रां पताकां धूम्रध्वजं पंचहस्तदंडसहितं ॐ वायोयेते० मंत्रेणोच्छ्रयेत् । मृगाधिरूढं चित्रांबरधरं युवानं दक्षिणवामहस्ते वरध्वजधरं धूम्रवर्णं वायुं ध्यात्वा - वायुमाकाशकं चैव पवनं वेगवर्धितम् ॥ आवाहयामि यज्ञेऽस्मिन्पूजेयं प्रतिगृहयताम् ॥ अनाकारो महौजाश्च यश्चाद्दष्टगतिर्दिवि ॥ तस्मै पूज्याम जगतो वायवेऽहं नमामि च ॥ वायवे नम: माषभक्तबलिं समर्पयामि इति कलशाग्रतोबलिं दद्यात् ॥ उत्तरद्वारे :--- प्रतिद्वारशाखं पूर्ववत्कलशं स्थापयित्वा सार्वभौमदिग्गजं तयो: कलशयोरावाहयाभ्यर्च्य दीपं स्थापयेत् ॥ ऊर्ध्वं ॐ द्वारश्रियै० अध: देहल्यै० वामदक्षिणस्तंभयो: ॐ महाकालाय० ॐ भृंगिणे० । द्वारस्थितकलशद्वये ॐ वाण्यै० ॐ वेण्यै० ततोऽथर्ववेदिनौ ऋत्विजौ उत्तरद्वारे शांतिसूक्तजपार्थत्वेन वृत्वा - बृहन्नेत्रो ऽथर्ववेदोऽनुष्टुभो रुद्रदैवत: ॥ वैशंपायन विप्रेंद्र ऋत्विग्त्वं मे मखे भव ॥ इति संप्रार्थ्य ॐ शंनोदेवी० गंधादिभि: संपूज्य - एहयेहि यज्ञेश्वर यज्ञरक्षां विधेहि नक्षत्रगणेन सार्द्धम् । सर्वोषधीभि: पितृभि सहैव गृहाण पूजां भगवन्नमस्ते ॥ भो सोमेहागच्छेह तिष्ठ मम पूजां गृहाणेति संप्रार्थ्य सांगं० सोमं द्वारकलशयोरावाहय ॐ सोमधेनु० ॐ वय सोम० अभ्यर्च्य हरितां पताकां हरितं ध्वजं पंचहस्तदंडं ॐ आप्यायस्व० मंत्रेणोच्छ्रयेत् ॥ नरयुतं पुष्पकविमानस्थं कुंडलकेयूरहारं सुशोभितं दक्षिणवामहस्ते खडगगदाधरं मुकुटिनं महोदरं स्थूलकायं हरस्वं पिंगलनेत्रं पीनविग्रहं शिवसखायं कुबेरं ध्यात्वा - सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थित. । तस्मै सोमाय देवाय नक्षत्रपतयेनम: ॥ इति संप्रार्थ्य नत्वा सांगाय० सोमाय माषभक्तबलिं समर्पयामीति कलशाग्रतो बलिं दद्यात् ॥ईशानपूर्वयोर्मध्ये :--- ऊर्ध्वमुद्दिश्य कलशस्थापनं विनैव - एहयोहि पातालधरामरेन्द्र नागांगनाकिन्नरगीयमान । यक्षोरगेंद्रामरलोकसंघैरनंत रक्षाध्वरमस्मदीयम् ॥ भो अनंतेहागच्छेह तिष्ठेति सांगं० अनंतमावाहय ॐ आयंगौ० मंत्रेणाभ्यर्च्य मेघवर्णां वा श्वेतां पताकां ध्वजं च पंचहस्तदंडं ॐ आयंगौ० मंत्रेणीच्छ्र्येत् । अनंतंसयनासीनं फणासप्तकमण्डितम् । पद्मशंखाधरोर्ध्वाधो दक्षिणे च करद्वयम् ॥ चक्रगदाधरोर्ध्वाधो वामकरद्वयं नीलवर्णमनंतं ध्यात्वा - योऽसावनंतरूपेण ब्रम्हांडं सचराचरम् ॥ पुष्पवत् धारयेन्मूर्ध्नि तस्मै नित्यं नमोनम: ॥ सांगाय० अनंतायैतं माषभक्तबलिं समर्पयामीति बलिं दद्यात् । रूपनारायणीये तु नैऋत्यपश्चिम योर्मध्येऽनंतपूजा ।नैऋत्यपश्चिमयोर्मध्ये :--- कलशस्थापनं विनैव अध उद्दिश्य - एहयेहि सर्वाधिपते सुरेंद्र लोकेन सार्धं पितृदेवताभि: । सर्वस्यधातास्यमितप्रभाव विशाध्वरानंत सदा शिवाय ॥ भो ब्रम्हान्निहागच्छेह तिष्ठ मम पूजां गृहाण । सांग० ब्रम्हाणं तत्रावाहय ॐ ब्रम्हाजज्ञानं० मंत्रेणाभ्यर्च्य रक्तपताकां ध्वजं च पंचहस्तं दंडं ॐ ब्रम्हाजज्ञानं० मंत्रेणभ्यर्च्य रक्तपताकां ध्वजं च पंचहस्तं दंडं ॐ ब्रम्हाजज्ञानं० मंत्रेणोच्छ्रयेत् ॥ ततश्चतुर्मुखं हंसारूढमक्षमालां कुशमुष्टिधरोर्ध्वाधो दक्षिणकरद्वयं स्रुवकमंडलुधरोर्ध्वाधो वामकरद्वयं श्मश्रुलं जटिलं लंबोदरं रक्तवर्ण ब्रम्हाणं ध्यात्वा - पद्मयोनिश्चतुर्मूर्ति र्वेदव्यासपितामह ॥ यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमो नम: ॥ ब्रम्हाणे एतं माषभक्तबलिं समर्पयामीति बलिं दत्वा । रूपनारायणीये तु ईशानपूर्वयोर्मध्ये ब्रम्हापूजा ॥ मंडपमध्ये :--- अत्युच्चदंडं दशहस्तदीर्घे त्रिहस्त विस्तृतं पंचहस्तदीर्घे हस्तविस्तृतं वा महाध्वजं विचित्रवर्णचामर किंकिण्यादियुक्तं ॐ इंद्रस्यवृष्णो० स्थापयेत् । तत्रैव ॐ ब्रम्हाजज्ञानं० ब्रम्हाणं पंचोपचारै: पूजयेत् । मंडपषोड्शस्तंभेषु :--- ॐ सर्वेभ्यो देवेभ्यो नम: । वंशेषु - किन्नरेभ्योनम: पृष्ठे - ॐ पन्नगेभ्योनम: इत्यर्चयेत् । मंडपात्पूर्वस्यां दिशि :--- किंचिदुपलिप्य भूभागे उपविश्य ॐ त्रैलोक्ये याणि भूतानि स्थावराणि चराणि च । ब्रम्हाविष्णुशिव: सार्द्धं रक्षां कुर्वंतु तानि मे ॥ देवदानवगंधर्वा यक्षराक्षसपन्नगा: । ऋषयो मुनयो गावो देवमातर एव च ॥ सर्वे ममाध्वरे रक्षां प्रकुर्वंतु मुदान्विता; । ब्रम्हा विष्णुश्च रुद्रश्च क्षेत्रपालो गणै: सह ॥ रक्षंतु मंडपं सर्वे घ्नंतु रक्षांसि सर्वत, ॥ त्रैलोक्यस्थेभ्य: स्थावरेभ्यो भूतेभ्यो नम: । ॐ ब्रम्हाणे नम: ॐ विष्णवे० ॐ शिवाय० ॐ देवेभ्यो० ॐ दानवेभ्यो० ॐ गंधर्वेभ्यो० ॐ यक्षेभ्यो० ॐ राक्षसेभ्यो० ॐ पन्नगेभ्यो० ॐ ऋषिभ्यो० ॐ मानुष्पेभ्यो० ॐ गोभ्ये० ॐ देवमातृभ्यो० ॐ इति प्रत्येकंसंपूज्य पूर्व मंत्रैरेव तस्यां भूमौ एताभ्यो देवताभ्य एवं गंध पुष्ययुतं माषभक्तबलिं दद्यात् ॥॥ इति मंडपपूजनम् ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP