संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| प्राणायाम प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम प्राणायाम सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी प्राणायाम Translation - भाषांतर शिखाबंधनम् :--- ॐ मानस्तोके तनये मा नऽआयुषि मा नो गोषु मा नोऽअश्वेषु रीरिष:। मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्त: सदमित्वा हवामहे ॥ चिद्रूपिणि महामाये दिव्यतेज: समन्विते । तिष्ठ देवि शिखाबंधे तेजोवृद्धिं कुरुष्व मे ॥ कुशपवित्रधारणम् :--- ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्व: प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि: । तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुनेतच्छकेयम् ॥ कुशमूले स्थितो ब्रम्हा कुशमध्ये जनार्दन: । कुशाग्रे शंकरो देव: तेन नश्यतु पातकम् ॥आचमनम् :--- ॐ केशवाय नम: स्वाहा । ॐ नारायणाय नम: स्वाहा । ॐ माधवाय नम: स्वाहा । हस्तप्रक्षालनम् - ॐ गोविंदाय नम: ।प्राणायाम :--- प्रणवस्य परब्रम्हा ऋषि: परमात्मा देवता दैवी गायत्री छन्द: भूरादिसप्त व्याहृतीनां क्रमेण विश्वामित्र जमदाग्न धरद्वाज गौतमात्रि वशिष्ठकश्यपाऋषय: अग्निवायुसूर्य बृहस्पतिवरुणेन्द्र विश्वेदेवा देवात: । गायत्रयुष्णिगनुष्टुब्बृहती पंक्ति त्रिष्टुब्जगत्यश्छन्दांसि तत्सवितुरित्यस्य विश्वामित्रऋषि: सवितादेवता गायत्रीछन्द: आपोज्योतिरित्यस्य प्रजापति ऋषिर्बृम्हाग्निवायु सूर्यादेवता यजुश्छन्द: सवेंषां प्राणायामे विनियोग: । ॐ भू: ॐ भुव: ॐ स्व: ॐ मह: ॐ जन ॐ तप: ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्ग्गो देवस्य धीमहि । धियो यो न प्रचोदयात् ।ॐ आपो ज्योती रसोमृतं ब्रम्हा भूर्भुव: स्वरोम् । एवं पूरक: कुम्भक: रेचक: इति क्रमेण त्रिवारं पठेत् । यजमानभाले तिलकं कुर्यात् -ॐ आ नो भद्रा: क्रतवो यन्तु विश्वतो दब्धासोऽअपरीतास उद्भिद: । देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥ देवानां भद्रा सुमतिऋजूयतान्देवाना रातिरभि नो निवर्तताम् । देवाना सख्यमुपसेदिमा वयन्देवानऽआयु: प्रतिरन्तु जीवसे ॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिन्दक्ष मस्त्रिधम् । अर्यमणं वरुण सोममश्विना सरस्वती न: सुभगा मयस्करत् ॥ तन्नो वातो मयोभु वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौ:। तद् ग्रावाण: सोमसुतो मयोभुवस्तदश्विना शृणुतन्धिष्ण्या युवम् ॥ तमीशान् ञ्जग्तस्तस्थुषस्पतिन्धियञ्जि न्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्ध: स्वस्तये ॥ स्वस्ति नऽइन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेद: । स्वस्तिनस्तार्क्ष्योऽ अरिष्टनेमि: स्वस्ति नो बृहस्पति र्दधातु ॥ पुषदश्वा गरुत: पृश्निमातर: शुभञ्यावानो विदथेशु जग्मय: । अग्निजिव्हा मनव: सूरचक्षसो विश्वे नो देवाऽ अवसा गमत्रिह ॥ भद्रङवर्णेभि: शृणुयाम देवा भद्रं पश्येमा क्षयिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहित ञ्यदायु: ॥ शतमिन्नु शरदोऽअन्तिदेवा यत्रा नश्चक्रा जरस न्तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषता युर्गन्तो: ॥ अदितिर्धौ रदितिरन्तरिक्षमदितिर्माता स पिता पुत्र:। विश्वेदेवा अदिति: पञ्चजना अदितिर्जातमदिति र्जनित्वम् ॥ द्यौ: शान्तिरन्तरिक्ष शान्ति: पृथिवी शान्तिराप: शान्तिरोषधय शान्ति: । वनस्पतय: शान्तिर्विश्वेदेवा:सान्तिर्ब्रम्हा शान्ति: सर्व शान्ति: शान्तिरेव शान्ति: सामा शान्तिरेधि ॥ यतो यत: समीहसे ततो नो ऽअभयङकुरु । शन्न: कुरु प्रजाभ्यो भयन्न: पशुभ्य: ॥ स्वस्त्यस्तु याविनाशाख्या पुण्यकल्याणवृद्धिदा । विनायकप्रिया नित्यं ताञ्च स्वस्ति ब्रुवन्तु न: ॥ नारदाद्याऋषिगणा ये चान्ये च तपोधना:। भवन्तु यजमानस्य हयाशीर्वाद परायणा:॥ या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी: पापात्मनां कृतधियां हृदयेषु बुद्धि;: । श्रद्धा सतां कुलजन: प्रभवस्य लज्जा तान्वान्नता: स्म परिपालय देवि विश्वम् । किं वर्णयाम तव रुपमचिन्त्यमेतत् किञ्चाति वीर्यमसुरक्षयकारि भूरि । किञ्चाहवेषु चरितानि तवादभुतानि, सर्वेषु देव्यसुरदेवगनादिकेषु ॥ हेतु: समस्तजगतान्त्रिगुणापि दोषै:, न ज्ञायस हरिहरादिभिरप्यपारा । सर्वाश्रया खिलमिदञ्जगदंशभूतम्, अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ॐ शान्तिश्शान्तिश्शान्ति: । सुशान्तिर्भवतु । देवतानमस्कार: - श्रीमन्महागणाधिपतये नम:। इष्टदेवताभ्यो नम: । वाणीहिरण्यगर्भाभ्यां नम: । लक्ष्मीनारायणाभ्यान्नम: । उमामहेश्वराभ्यान्नम: । शचीपुरंदराभ्यान्नम: । मातापितृ चरणकमलेभ्यो नम: । सर्वेभ्यो देवेभ्यो नम: । गुरुभ्यो नम: । परमगुरुभ्यो नम: । निर्विघ्नमस्तु । सुमुखश्चैकदंतश्च कपिलो गजकर्णक: । लंबोदरश्चविकटो विघ्ननाशो गणाधिप: ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन: । द्वादशैतानि नामानि य: पठेद श्रुणुयादपि ॥ विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरन्देवं शशिवर्णञ्चतुर्भुजम् । प्रसन्नवदनं ध्यायेद सर्वविघ्नोपशांतये ॥ अभीप्सितार्थसिध्यर्थं पूजितो यस्सुरासुरै: । सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ॥ सर्वमंगलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्रयंबके गौरि नारायणि नमोस्तु ते ॥ सर्वदा सर्वकार्येषु नास्ति तेषां अमंगलम् । येषां हृदिस्थो भगवान् मंगलायतनो हरि: ॥ तदेव लग्नं सुदिनन्तदेव ताराबलञ्चंद्रबलन्तदेव विद्याबलन्दैवबलन्तदेव लक्ष्मीपते तेङघ्रियुगं स्मरामि ॥ लाभस्तेषाञयस्तेषाङकुतस्तेषां पराजय: । येषामिन्दी वरश्यामो हृदयस्थो जनार्दन: । यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: । तत्रश्रीर्विजयो भूतिर्ध्रुवा नीतिमतिर्ममा ॥ सर्वेष्वारब्ध कार्येषु त्रयस्त्रिभुवनेश्वरा: । देवा दिशन्तु नस्सिद्धिं ब्रम्होशानजनार्दना: ॥ विनायकङ्गुरुं भानुं ब्रम्हाविष्णु महेश्वरान् । सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP