संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| मंडपपूजनम् प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम मंडपपूजनम् सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी मंडपपूजनम् Translation - भाषांतर मंडपपूजनम् :--- आचार्य, विप्रगण, सपत्नीक यजमान, गंधपुष्प पूजनसामग्री, बलिद्रव्य संकल्प :--- कर्मांगत्वेन स्तंभपूजनम्. तोरणपूजनम् च करिष्ये ।स्तंभपूजनम् :--- ईशानस्तंभे - एहयेहि विप्रेन्द्र पितामहेश हंसाधिरुढ त्रिदशैकवंद्य । श्वेतोत्पलाभास कुशाब्जहस्त गुहाण पूजां भगवन् नमस्ते ॥ हंसपृष्ठ समारूढ देवतागणसेवित । ईशकोणस्थितस्तंभे शुभं कुरु जगत्पते ॥ आवाहयाम्यहं देवं देवेशं च प्रजापतिम् । अनेकव्रतकर्तारं सर्वेषांच पितामहम् ॥ विश्वरूप निराधार निरालंब निरामय । आगच्छ देवदेवेश यज्ञेस्मिन्सन्निधिं कुरु ॥ॐ भूर्भुव:स्व: ब्रह्मन् इहागच्छ ॐ ब्रह्मजज्ञानं० ॐ ब्रह्मणे नम: पंचोपचारै: पूजनम् । वेदाधाराय वेदाग्रज्ञानगम्याय सूरये ।कमंडल्वक्षा स्थस्रुवहस्ताय ते नम: ॥ “कृष्णाजिनांबरधर पद्मासन चतुर्मुख ॥ जगदीश जगदीश जगद्धात: प्रसीद कमलोदभव” ॥ ॐ सावित्रयै० ॐ वास्तुदेवतायै० ॐ बाह्मयै० ॐ गंगायै० । स्थंभमालभ्य ॐ ऋर्ध्वऽऊषुण उतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिर्भिर्वाघद भिर्विहयामहे ॥ स्तंभशिरसि नागमात्रेनम: - ॐ आयंगौ:० शाखाबंधनं । ॐ यतोयत:० । एवं सर्वत्र स्तंभमालभ्य ॐ ऊर्ध्वऽऊषुण इतिजपादि ॥आग्नेये मध्यस्तंभे :--- आवाहयेत्तं गरुडोपरि स्थितम् रमार्धदेह्म सुरराज वंदितम् ॥ कंसांतकं चक्रगदाब्जहस्तं भजामि देवं वसुदेवसूनुम् ॥ पद्मनाभं ऋषीकेशं कंसचाणूरमर्दनम् ॥ आगच्छ भगवन्तिष्णो स्तंभेऽस्मिन्सं निधो भवा ॥ॐ इदं विष्णु० ॐ भूर्भुव:स्व: विष्णो इहागच्छ इह तिष्ठ विष्णवे नम: विष्णुमावाहयामि । गंधादिभि: पूजनम् ॐ नमस्ते पुंडरीकाक्षनमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन् विष्णवे ते नमो नम: ॥ देवदेव जगन्नाथ विष्णो यज्ञपते विभो । पाहि दु:खाम्बुधेरस्मान् भक्तानुग्रहकारक ॥ ॐ लक्ष्म्यै० ॐ अदिल्यै० ॐ वैष्णव्यै० ॐ ऊर्ध्वऽऊषुण० मंत्रेण स्तंभालंभनम् । नैऋत्यमध्यस्तंभे :--- एहयेहि गौरीश पिनाकपाणे शशांकमौले वृषभाधिरुढ देवाधिदेवेश महेश नित्यं गृहाण पूजां भगवन्नमस्ते ॥ गंगाधर महादेव पार्वतीप्राणवल्लभ ॥ आगच्छ भगवन्नीश स्तंभेस्मिन्संनिधो भव ॥ॐ भूर्भुव:स्व: सदाशिवैहागच्छ इहतिष्ठ सदाशिवाय नम: सदाशिवमावाहयामि ॐ नम: शंभवाय० वृषवाहाय देवाय पार्वतोपतये नमा: । वरवामार्द्धकायाय नमश्चन्द्रार्धमौलिने ॥ पंचवकत्र वृषारूढ त्रिलोचन सदाशिव ॥ चंद्रमौले महादेव मम स्वस्तिकरो भव ॥ ॐ गौर्यै० ॐ माहेश्वर्यै० ॐ शोभनायै० ॐ ऊर्ध्वऽऊषुण० ॐ स्तंभालंभनम् ॥वायञ्चे मध्यस्तंभे :--- एहयेहि वृत्रघ्न गजाधिरूढ सहस्रनेत्र त्रिदशैकराज ।शचिपते शक्र सुरेश नित्यं गृहाण पूजां भगवन्नमस्ते ॥ शचीपते महाबाहो सर्वाभरणभूषित ॥ आगच्छ भगवन्निन्द्र स्तंभेऽस्मिन्संनिधोभव ॥ ॐ त्रातारमिन्द्र० ॐ भूर्भुव:स्व: इंद्रेहागच्छ० इंद्राय० । गंधादिभि: पूजनम् । पुरंदर नमस्तेस्तु वज्रहस्त नमोऽस्तु ते ॥ शचीपते नमस्तुभ्यं नमस्ते मेघवाहन ॥ देवराज गजारूढ पुरंदर शतक्रतो ॥ वज्रहस्त महाबाहो वाञ्छितार्थप्रदो भव ॥ ॐ इंद्राण्यै० ॐ अनंतायै० ॐ विभूत्यै० ॐ ऋर्ध्वऽऊषुण० ॐ स्तंभालंभनम् ।एवं मध्यस्थानीशानादिकोणस्थान् चतुर:स्तंभान् अभ्यर्च्य पुनर्बाहयोशानकोणात् आरभ्य द्वादश स्तंभान्नभ्यचयित् । तद्यथा - आवाहयेत्तं द्विभुजं दिनेशं सप्ता श्ववाहं द्युमणिं महेशम् । सिन्दूरवर्णं प्रतिमावभासं भजामि सूर्यं कुलवृद्धि हेतो: ॥ पद्महस्त महाबाहो सप्तश्वेताश्ववाहन: । आगच्छ भगवन्भानो स्तंभे ऽस्मिन्संनिधो भव ॥ॐ आकृष्णेन० ॐ भूर्भुव:स्व: सूर्यैहागच्छ इहतिष्ठ । पूजनम् । नम: सवित्रेजगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयी मयाय त्रिगुणात्मधारिणे विरंचिनारायणशंकरात्मने ॥ पद्महस्त रथारूढ पद्महस्त सुमंगल । क्षमां कुरु दयालो त्वं ग्रहराजनमोस्तुते ॥ॐ सूर्याय० ॐ भूत्यै० ॐ सावित्रयै० ॐ मंगलायै० ॐ ऋर्ध्वऽऊष्णुण० ॐ स्तंभालंभनम् ।ईशानपूर्वयोरंतरालस्तंभे :--- आवाहयेत्तं गणराजदेवं रक्तोत्पलाभासमशेष वंद्यम् । विघ्नांतकं विघ्नहरं गणेशं भजामि रौद्रं सहितं च सिद्धया ॥ लंबोदर महाकाय गजवक्त्रचतुर्भुज ॥ आगच्छ गणनाथ त्वं स्तंभेऽस्मिन् संनिधो भव ॥ॐ गणानां त्वा० ॐ भूर्भुव:स्व: गणपते इहागच्छ० ममपूजांगृहाण । नमस्ते ब्रह्मरूपाअ विष्णुरुपाय ते नम: । नमस्ते रुद्ररूपाय करिरुपाय ते नम: ॥ विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्य़ं विनायक ॥ लंबोदर महाकाय सततं मोदकप्रिय । गौरीसुत गणेश त्वं विघ्नराज प्रसीद मे । ॐ सरस्वत्यै० ॐ विघ्नहराय० ॐ ऊर्ध्वऽऊषुण०पूर्वाग्न्योरंतरालस्तंभे :--- ऐहयेहि दंडायुध धर्मराज कालांजनाभास विशालनेत्र । विशालवक्ष: स्थलरौद्ररूप गृहाण पूजां भगवन्नमस्ते ॥ चित्रगुप्तादिसंय़ुक्त दंड मुद्गरधारक । आगच्छ भगवन्धर्म स्तंभेस्मिन्संनिधो भव ॥ॐ यमाय त्वां० ॐ भूर्भुव:स्व: यमैहागच्छ० पूजनं । इषत्पीननमस्तेस्तु दण्डहस्त नमोस्तु ते । महिषस्थ नमस्तेस्तु धर्मराज नमोस्तुते ॥ धर्मराजमहाकाय दक्षिणाधिपते यम । इत्येक्षण महाबाहो मम पीडां निवारय ॥ ॐ पूर्वसंध्यायै० ॐ अजन्यै० ॐ त्रिपत्रयै० ॐ क्रूरायै० ॥ ॐ ऊर्ध्वऽऊषुण० स्तंभालंभनम् । आग्नेयकोणस्तंभे :--- एहयेहि नागेन्द्र धराधरेश सर्वामरैर्वदितपादपद्म । नानाफणामंडलराजमान गृहाण पूजां भगवन्नमस्ते ॥आशीविषसमोपेत नागकन्याविराजित । आगच्छ नागराजेन्द्र स्तंभेस्मिन्संनिधो भव ॥ ॐ आयंगौ० ॐ भूर्भुव:स्व: नागराज इहागच्छ० । पूजनम् । नम: खेटक हस्तेभ्यस्त्रिभोगेभ्यो नमोनम: । नमो भीषणदेवेभ्य: खडगधृग्भ्यो नमोनम: ॥ खडगखेटधरा: सर्वे फणामंडलमंडिता: ॥ एकभोगा: साक्षसूत्रा वरदा: संतुमे सदा । ॐ मध्यमसंध्यायै० ॐ धरायै० ॐ यमाय० ॐ महायमाय० ॥ ॐ ॠर्ध्वऽऊषुण० स्तंभालंभनम् ॥आग्नेयदक्षिणयोरंतराले स्तंभे :--- आवाहयामि देवेशं षण्मुखं कृत्तिकासुतम् । रुद्रतेज: समुत्पन्नं देवसेनासमन्वितम् ॥ मयूरवाहनं शक्तिधरं वै ब्रह्मचारिणम् ॥ आगच्छ भगवन्स्कंद स्तंर्भोस्मेन्संनिधो भव ॥ ॐ यदक्रन्द० ॐ भूर्भुव:स्व: स्कंद इहागच्छ० स्कंदाय नम: स्कंदम्० गंधादिभिरर्चनम् ॥ ॐ नम: स्कंदाय शैवाय घंटामुकुटधारिणे । पताकशक्तिहस्ताय षण्मुखाय च ते नम: ॥ मयूरवाहन स्कंद गौरिसुत षडान न ॥ कार्तिकेय महाबहो दयां कुरु ममोपरि ॥ पश्चिमसंध्यायै० ऊर्ध्वऽऊष्णु इति मंत्रेणस्तंभालंभनम् ॥दक्षिणनैऋत्यंतरालस्तंभे :--- आवाहयामि देवेशं भूतानां देहधारिणाम् । सर्वाधारं महावेगं मृगवाहनमीश्वरम् ॥ खडगहस्तं महावेगं त्रेलोक्यांतर चारिणम् ॥ आगच्छ भगवन्वायो स्तंभेस्मिन्संनिधोभव ॥ ॐ वायोयेते स० ॐ भूर्भुव:स्व वायो इहा० वायवे० वायुमावाहयामि स्थापर्यमि । गंधादिभिरर्चम् ॥ नमो धरणिपृष्ठस्थ समीरण नमोस्तु ते ॥ धूम्रवर्ण नमस्तेऽस्तु शीघ्रगामिन्नमोस्तुते ॥ धावन्धरणिपृष्ठस्थ ध्वजहस्तसमीरण दंडहस्त मृगारूढ वरं देहि वरप्रद ॥ ॐ वायव्यै० ॐ गायत्र्यै० ॐ विघ्नहरय० ॐ ऊर्ध्वऽऊषुणैइति मंत्रेण स्तंभालंभनम् ॥नैऋत्यस्तंभे :--- आवाहयामि देवेशं शशांकंरजनीपतिम् । क्षीरोदधिसमुद्भूतं हरमौलिविभूषणम् ॥ सुधाकरं द्विजाधीशं त्रैलोक्यप्रीतिकारकम् । औषध्या प्यायनकरं सोमं कंदर्पवर्धनम् ॥ आगच्छ भगवन्सोम स्तंभेस्मिन्सन्निघो भव ॥ॐ आप्यायस्व० ॐ भू० सोम इहा० सोमाय० सोमं० पूजनम् ॥ अत्रिपुत्र नमस्तेस्तु नमस्ते नमस्ते शशलांछन । श्वेतांबरनमस्तेस्तु ताराधिप नमोनम: ॥ अत्रिपुत्र निशानाथ द्विजराजसुधाकर । सोम त्वं सौम्यभावेन ग्रहपीडां निवारय ॥ ॐ सावित्र्यै० ॐ अमृतकलायै० ॐ विजयायै० ॐ पश्चिमसंध्यायै० ॐ ऋर्ध्वऽऊषुणैति मंत्रेण स्तंभालंभनम् ॥नैऋत्यपश्चिमयोर्मध्ये :--- आवाहयामिदेवेशं सलिलस्याधिपं प्रभुम् । शंखपाशधरं सौम्यं वरुणंयादसांपतिम् ॥ गंभीरविष्टरासीनं मणिरत्नसमन्वितम् । आगच्छ देव वरुण स्तंभेस्मिन्संनिधो भव ॥ ॐ इमंमेवरुण० ॐ भू० वरुणेहागच्छ० वरुनायनम: वरुणं आ० गंगादिभि: पूजनम् । वरुणाय नमस्तेस्तु नम: स्फटिकदीप्तये । नमस्ते श्वेतहाराय जलेशाय जलेशाय नमो नम: ॥ शंकस्फटिक वर्णाभं श्वेतहारांबरावृतम् । पाशहस्तमहाबाहो दयां कुरु कृपानिधे ॥ ॐ वारुण्यै० ॐ पाशधारिण्यै० ॐ बृहत्यै० ॐ ऊर्ध्वऽऊषुणइति मंत्रेण स्तंभालंबनम् ॥पश्चिमेवायव्यांतरालस्तंभे :--- आवाहयामि देवेशान्वसूनष्ट महाबलान् । सौम्य मूर्तिधरान्देवान् दिव्यायुधकरान्वितान् ॥ शुद्धस्फटिकसंकाशान्नावस्तुविरा जितान् । अश्वारूढान् दिव्यवस्त्रान् सर्वालंकारभूषितान् । आवाहयामि देवेशान्वसूनष्टौ सखासहान् सर्वालंकारभूषितान् । आवाहयामि देवेशान्वसूनष्टौ सखासहान् । ॐ वसवस्त्वा० ॐ भू० वसव इहागच्छत इहतिष्ठत मम पूजां गृःअणीत वसुभ्यो नम: वसून् आ० । गंधादिभि: पूजनम् ॥ नमस्करोमि देवेशान्नानावसुविराजितान् । शुद्धस्फटिकसंकाशान् दिव्यायुधकरान्वसून् ॥ दिव्यवस्त्रा दिव्यदेह: पुष्पमालाविभूषिता: । वसवोष्टौ महाभागा वरदा: संतु मे सदा ॥ ॐ विनतायै० ॐ अणिमायै० ॐ भूत्यै० ॐ गरिमायै० ॐ ऊर्ध्वऽऊषुणइति मंत्रेण स्तंभालंभनम् ॥वायव्यस्तंभे :--- आवाहयामि देवेशं धनदं यक्षपूजितम् । महाबलं दिव्यदेहं नरयानगतिंविभुम् । दिव्यमाल्याम्बरधरं गदाहस्तं महाभुजम् । आगच्छ यक्षराजस्त्वं स्तंभेस्मिन्सन्निधो भव ॥ ॐ सोमोधेनु सोमो अर्वन्तमाशु सोमो वीरं कर्मण्यन्ददाति । सादन्यं विदथ्य सभेयं पिवृश्रवणं यो ददाशस्मै । ॐ भू० धनद इहा० धनदं आवा० गंधादिभि: पूजनम् । यक्षराज नमस्तेस्तु नमस्तेनरयानग । पीतांबर नमस्तेऽस्तु गदापाणे नमोस्तु ते ॥ दिव्यदेह धनाध्यक्ष पीतांबर गदाधर ॥ उत्तरेश महाबाहो वांछितार्थफलप्रद ॥ ॐ सिनीवाल्यै० ॐ ऊर्ध्वऽऊषुणैति मंत्रेण स्तंभालंभनम् ॥ वायव्योत्तरयोरंतरालस्तंभे :--- आवाहयामि देवेशं गुरुं त्रिदशपूजितम् । हेमगोराचनावर्णं पीतस्कंधं सुवक्षसम् ॥ शंखं च कलशं चैव पाणिभ्यामिह बिभ्रतम् ॥ बृहस्पते समागच्छ स्तंभेऽस्मिन्संनिधो भव: ॥ ॐ बृहस्पते० ॐ भू० बृहस्पते इहा० बृहस्पतये नम:० बृहस्पतिं आ० स्था० गंधादिभि: पूजनम् । ब्रह्मपुत्रनमस्तेऽस्तु पीतध्वज नमोस्तुते । त्रिदशार्चित देवेश सिंधूद्भव नमोस्तु ते । पूजितोऽसि यथाशक्त्या दंडहस्त नमोस्तु ते ॥ क्रूरग्रहाभिभूतस्य शांति देवगुरो कुरु ॥ ॐ पूर्णमास्यै० ॐ सावित्र्यै० ॐ ऊर्ध्वऽऊषुणइति मंत्रेण स्तंभालंभनम् ॥उत्तरेशान्योरंतराले स्तंभे :--- आवाहयामि देवेशं विश्वकार्माणमीश्वरम् । मूर्तामूर्तकरं देवं सर्वकर्तारमीश्वरम् । त्रैलोक्यमूर्तकर्तारं द्विभुजं सर्वदर्शिनम् ॥ आगच्छ विश्वकर्मंस्त्वं स्तंभेऽस्मिन्संनिधो भव ॥ ॐ विश्वकर्मन्हविषा० ॐ भू० विश्वकर्मन्निहा० विश्वकर्मणे० विश्वकर्माणमावा० । गंधादिभि: पूजनम् । नमामि विश्वकर्माणं द्विभुजं विश्वदर्शिनम् ॥ त्रैलोक्यसूत्रकर्तारं महाबलपराक्रमम् । प्रसीद विश्वकर्मंस्त्वं शिल्पशास्त्रविशारद ॥ सदंडपाणे द्विभुज तेजोमूर्तिधर प्रभो ॥ ॐ ॠर्ध्वऊषुण० स्तंभालंभनम् ॥ तत: पुष्पांपजलिमादाय अघोरमंत्रेण पुष्पांजलिं विकिरेत् । इतिस्तंभपूजा ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP