संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
गाणपत्यवरणम्‌

गाणपत्यवरणम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


गाणपत्यवरणम्‌ :--- असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा स  सर्पाय स्वाहा चन्द्राय स्वाहा जोतिषे स्वाहा मलिम्लुचाय स्वाहा दिवापतयते स्वाहा ॥
वांच्छितार्थ फलावाप्त्यै पूजितोऽसि सुरासुरै: । निर्विघ्नक्रतु संसिध्यै त्वामहं गणपं वृणे ।

सदस्य वरणम्‌ :--- ॐ सदसस्पतिमद्‌भुतं प्रियमिंद्रस्य काम्यम्‌ । सनिं मेधामयासिष स्वाहा ॥ कर्मणामुपदेष्टारं सर्वकर्म विदुत्तमम्‌ । कर्मिणं वेदतत्वज्ञं सदस्यं त्वामहं वृणे ॥

सर्वोपद्रष्टावरणम्‌ :--- ॐ उपहरे गिरीणा संगमे च नदीनाम्‌ । धिवा विप्रोऽअजायत । भगवन्‌ सर्वकर्मज्ञ वेदशास्त्रविदां वर । यज्ञकर्मोपद्दष्टारं विद्वांसं त्वां अहं वृणे ॥

होमकाले सूक्तजपार्थवरणम्‌ :--- ॐ अग्निमीळे० ऋग्वेद: पद्‌मपत्राक्षो गायत्र: सोमदैवत: । रक्षोविघ्नविनाशाय द्वारपालो मखे भव ॥. शर्माणौ ब्राह्मणौ ऋग्वेदिनौ पूर्वद्वारे होमकाले सूक्तजपार्थं युवां वृणे ।

ॐ इषेत्वोर्जे त्वा० कातराक्षो यजुर्वेद: त्रैष्टुभो विष्णुदैवत: । यज्ञविघ्नविनाशार्थ द्वारपालो भव द्विज ॥. शर्माणौ ब्राह्मणौ यजुर्वेदिनौ दक्षिणद्वारे होमकाले सूक्तजपार्थं युवां वृणे ।

ॐ अग्न आयाहि० सामवेदस्तु पिंगाक्षो जागत: शक्रदैवत: । राक्षसानां निरासार्थ द्वारपालो मखे भव ॥. शर्माणौ ब्राह्मणौ सामवेदिनौ पश्चिनद्वारे होमकाले सूक्तजपार्थं युवां वृणे ।

ॐ शन्नोदेवी० बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवत: । विघ्नापद्‌रक्षसां हत्यै द्वारपाल: क्रतौ भवा ।. शर्माणौ ब्राह्मणौ अथर्ववेदिनौ उत्तरद्वारे होमकाले सूक्तजपार्यं युवां वृणे ।

ऋत्विकवरणम्‌ - ॐ ब्राह्मणास: पितर: सोम्यास: शिवेनो द्यावापृथिवी अनेहसा । पूंषा न: पातु दुरिता द्दतावृधो रक्षा माकिर्नोऽअधश स ईशत ॥ भगवन्‌ सर्वकर्मज्ञ सर्वधर्मभृतां वर । वितते मम यज्ञेऽस्मिन्‌ ऋत्विक्‌ त्वं मे मखे भव ॥ ऋत्विजश्च यथा पूर्वं शक्रादीनां मखेऽभवन्‌ । यूयं तथा मे भवत ऋत्विजो द्विजसत्तमा: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP