संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
वास्तुदेवतास्थापनम्‌

वास्तुदेवतास्थापनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


वास्तुदेवतास्थापनम्‌ :--- संकल्प: । आग्नेयादि कोणेषु शंकुरोपणम्‌ । ॐ विशन्तु भूतले नागालोकपालाश्छ सर्वत: । प्रासादेत्रावतिष्ठन्तु आयुर्बलकरा: सदा ॥ (मंडपेऽत्रा०) (चतुर्वारम्‌) आग्नेयादिक्रमेण दध्योदनबलिदानम्‌ - ॐ अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तान्समाश्रिता: । बलिं तेभ्य: प्रयच्छामि पुण्यमोदनमुत्तमम्‌ ॥ ॐ नैऋत्याधिपतिश्वैव नैऋत्यां ये च राक्षसा: । बलिं० ॐ नमो वै वायुरक्षेभ्यो० ॐ रुद्रेभ्यश्चैव सर्पेभ्यो० संकल्प: --- अनेन शकुरोपणपूर्वक बलिदानेन आग्नेयादि विदिग्देवता: प्रीयन्ताम्‌ ।

रेखाकरणम्‌ :--- सुवर्णशलाकया कुशशलाकया वा पश्चिमत: आरभ्य प्रागायता उदक्‌संस्था नवरेखा: कार्या :--- लक्ष्मी यशोवती कान्ता सुप्रिया विमला शिवा । सुभगा सुमति इडा - ॐ भू०लक्ष्म्यै नम० यशोवत्यै० कान्त्यै० सुप्रियायै० विमलायै० शिवायै० सुभगायै० सुमत्यै० इडायै० नम:। दक्षिणारंभा उदगन्ता: प्राकसंस्था: नवरेखा:-- धन्या प्राणा विशाला च स्थिरा भद्रा जया निशा । विरजा विभवा । ॐ भू०धन्यायै० प्राणायै० विशालायै० स्थिरायै० भद्रायै० जजायै० निशायै० विरजायै० विभवायै नम: । आवाहयामि स्थापयामि । पंचोपचारै: पूजनम्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP