संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| श्रीदेव्यथर्वशीर्षम् प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम श्रीदेव्यथर्वशीर्षम् सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी श्रीदेव्यथर्वशीर्षम् Translation - भाषांतर :--- ॐ सर्वे वै देवा देवीमुपतस्थु:कासि त्वं महादेवीति ॥१॥श्रीदेव्यथर्वशीर्षम्साब्रवीत् - अहं ब्रह्मस्वरूपिणी । मत्त: प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च ॥२॥अहमानन्दानानन्दौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी वेदितव्ये । अहं पञ्चभूतान्यपञ्चभूतानि । हमखिलं जगत् ॥३॥वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्वोर्ध्वं च तिर्यक्चाहम् ॥४॥अहं रुद्रेभिर्वसुभिश्वरामि । अहमादित्यैरुत विश्वदेवै: । अहं मित्रावरुनावुभौ विभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ ॥५॥अहं सोमं त्वष्टारं पूषणं भगं दधामि । अहं विष्णुमुरुक्रमं ब्रहूमाणमुत प्रजापतिं दधामि ॥६॥अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्त: समुद्रे । य एवं वेद । स दैवीं सम्पदमाप्नोति ॥७॥ते देवा अब्रुवन् - नमो देव्यै महादेव्यै शिवायै सततं नम: । नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम् ॥८॥तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशत्रित्र्यै ते नम: ॥९॥देवीं वाचमजनयन्त देवास्तां विश्वरूपा: पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥१०॥कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमाम: पावनां शिवाम् ॥११॥महालक्ष्म्यै च विद्महे सर्वशक्त्ययै च धीमहि । तन्नो देवी प्रचोदयात् ॥१२॥अदितिहर्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धव: ॥१३॥कामो योनि: कमला वज्रपाणिर्गुहा हसा मातरिश्वाश्रमिन्द्र: । पुनर्गुहा सकला मायया च पुरुच्यैषा विश्वमातादिविद्योम् ॥१४॥एषाऽऽत्मशक्ति । एषा विश्वमोहिनी ॥ पाशांकुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ॥१५॥नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वत: ॥१६॥सैषाष्टौ वसव: - । सैषैकादश रुद्रा: । सैषा द्वादशादित्या: । सैषा विश्वेदेवा: सोमपा असोमपाश्च । सैषायातुधाना असुरा रक्षांसि पिशाचा यक्षा: सिद्धा: । सैषा सत्तरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनव: । सैषा ग्रहनक्षत्रज्योतीषि । कलाकाष्ठादिकालरूपिणी तामहं प्रण्ॐइ नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शर्ण्यां शिवदां शिवाम् ॥१७॥वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥१८॥एवमेकाक्षरं ब्रह्म यतय: शुद्धचेतस: । प्यायन्ति परमानन्दमया ज्ञानाम्बुराशय ॥१९॥वाङमाया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् । सूर्योऽवाम श्रोत्रबिनुद संयुक्तष्टात्तुतीयक: । नारायणेन सम्मिश्रो वायुश्चाधरयुक् तत:विच्चे. नवार्णकोऽर्ण: स्यान्महदानन्दायक: ॥२०॥हृत्पुण्डरीकमध्यस्थ प्रात:सूर्यसमप्रभाम् । पाशांकुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्र रक्तवसनां भक्तकामदुघां भजे ॥२१॥नमामि त्वां महादेवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥२२॥ यस्या: स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलभ्यते तमादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ॥२३॥मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी । यस्या: परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥२४॥तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥२५॥इदमथर्वशीर्षं स्थापयति - शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं न विन्दति । शतमष्टोत्तरं चास्य पुरश्वर्याविधि: स्मृत: । दशवारं पठेव् यस्तु सद्य: पापै: प्रमुच्यते । महादुर्गाणि तरित महादेव्या: प्रसादत: ॥२६॥सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रात: प्रयुञ्जानो अपापो भवति । निशीथे तुरीयसंथ्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जप्त्वा देवतासांनिध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति । स महामृत्युं तरति य एवं वेद ॥ इत्युपनिषत् ॥सर्वमंगलाध्यान :--- हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां, द्वात्रिंशत् दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् । भक्तानां धनदां वरं च दधतीं वामेन हस्तेन तत्, दक्षेनाभयमातुलिंगसुफलं श्रीमंगलां भावये ॥कमलाध्यान :--- कान्त्या कांचनसंनिभां हिमगिरिप्रख्यै: चतुर्भिर्गजै:, हस्तोत्क्षिप्त हिरण्मयामृत घटै: आसिच्यामानां श्रियम् - । बिभ्राणां वरमब्जयुग्ममभयं हस्तै: किरीटोज्वलां, क्षौमाबद्धनितंबबिंबललितां वन्देऽरविन्दस्थिताम् N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP