संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| चन्द्रशेखरमूर्तिलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - चन्द्रशेखरमूर्तिलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत चन्द्रशेखरमूर्तिलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण चन्द्रशेखरलक्षणम् ।केवलं गौरीसहितं आलिंगं त्रिविधं भवेत् ॥१॥केवलं गौरीसहितं सहजं गौरिसंयुतम् ।आलिंगमेकहस्तेन देवो देवी परस्परम् ॥२॥उमालिंगमिदं ख्यातं एवं त्रिविधमुच्यते ।केवलं समपादं तु स्थानकं सहितं तु वा ॥३॥समभंगं वातिभंगं वा लिंगं चन्द्रशेखरम् ।केवलं मुक्तिदं ख्यातं सहजं ह्युभयप्रदम् ॥४॥सा लिंगमिन्दुधृन्मूर्तिं सर्वकामफलप्रदम् ।तेष्वादौ समपादं तु स्थानकं शृणु सुव्रत ! ॥५॥बिम्बमानोदयाः सर्वे प्रागेव परिकल्पयेत् ।लम्बमानोपमानं च त्वधुना वक्ष्यते क्रमात् ॥६॥प्रलम्बफलकायामं चत्वारिंशच्छिवार्धकम् ।अष्टादशांगुलं तारं सार्धं वा द्व्यंगुलं घनम् ॥७॥चतुष्पादसमायुक्तं पादोच्चं प्रतिमोन्नतम् ।ऋक्षांगुलसमायुक्तं स्थापयेत्समभूतले ॥८॥सीमासूत्रं विनिश्चित्य प्रलम्बफलकोपरि ।पूर्वे परे च पार्श्वे च मानसूत्रं प्रसारयेत् ॥९॥तदन्ते सुषिरं कल्प्य सूत्राण्यालम्बयेत्ततः ।सूत्रस्यानुगुणं बिम्बं कारयेद् द्विजसत्तम ! ॥१०॥पूर्वे च पार्श्वयोः पृष्ठे कायमध्ये च लम्बयेत् ।एतानि पंचसूत्राणि ब्रह्मसूत्रमुदाहृतम् ॥११॥कक्षान्तरे मुखान्ते च द्वौ सूत्रे च प्रलम्बयेत् ।एवं हि नवसूत्राढ्यं स्थानकं चासमन्तथा ॥१२॥मकुटस्य तु मध्ये च ललाटस्य तु मध्यमात् ।नासाग्र मध्यमे चैव हनोर्मध्ये तथैव च ॥१३॥हिक्काद्धृन्मध्यमाच्चैव नाभेश्चैव तु मध्यमात् ।लिंगमध्योरुमध्यात्तु पादयोश्च तलान्तरे ॥१४॥लम्ब्यैवं पूर्वसूत्रं स्यात् अपरस्तमथोच्यते ।मकुटस्य मध्यमाच्चकृकटीकायां तु मध्यमात् ॥१५॥ककुन्मध्याद्वंशमध्या स्फिक्पिण्डयोन्तरे तथा ।ऊरुजान्वोश्च जंघान्तं पार्ष्णिद्वयोन्तरे तथा ॥१६॥एवमालम्बयेत्सूत्रं अपराश्रितमेव हि ।पार्श्वयोः कर्णपाल्यन्तात् ग्रीवामध्यात्तथैव च ॥१७॥वाह्वोस्तु मध्यमालंब्य गुल्फमध्ये तु लम्बयेत् ।देहमध्यगते नैव पंचसूत्रं प्रलम्बयेत् ॥१८॥श्रोत्राभ्यन्तरगं सूत्रं स्तनचूचुकमध्यगम् ।पादमध्यप्रदेशिन्यां मध्यमे तु प्रलम्बयेत् ॥१९॥ऊरुजान्वोश्च जंघान्ते पार्ष्णिद्वयान्तरे तथा ।अक्षमध्ये कटी पार्श्वे मध्ये चैव तु लम्बयेत् ॥२०॥पूर्वसूत्रात्तु मौल्याग्रमध्यं द्वादशमात्रकम् ।अपरसूत्रात्तु मौल्यग्रं मध्यं षण्मात्रमुच्यते ॥२१॥पूर्वसूत्राल्ललाटान्तं अन्तरं तु द्विमात्रकम् ।अपरसूत्राच्छिरः पृष्ठं पादोनं तु युगांगुलम् ॥२२॥पूर्वसूत्रात्तु हन्वन्तं स यव द्व्यंशमुच्यते ।कृकाटिकापरसूत्रं तु यवोनाग्न्यंगुलान्तरम् ॥२३॥पूर्वसूत्रात्तु हिक्कान्तं त्वभ्यन्तररसांगुलम् ।ककुथोपरसूत्रा तु षोडशं तु यवान्तरम् ॥२४॥उरसः पूर्वसूत्रात्तु द्व्यन्तरं तु द्विमात्रकम् ।ककुन्मध्यात्परसूत्राद्यन्तरं मनुयवार्धकम् ॥२५॥मध्योदरं स्पृशेत् पूर्वसूत्रं वै तत्समे परे ।वंशनिम्नापरं सूत्रं पादोन द्व्यंशकान्तरम् ॥२६॥प्राक्सूत्रान्नाभिमध्यात्तु त्वन्तरं सार्धमात्रकम् ।नाभिसूत्रसमे पृष्ठे सार्धपक्षांगुलं भवेत् ॥२७॥प्राक् सूत्रान्मेढ्रमूलान्तं गुणांगुलमुदाहृतम् ।तत्समे त्वपरे सूत्रात् अन्तरं सार्धमात्रकम् ॥२८॥ऊरु मध्ये तु पुरतो जानुमध्ये तथैव च ।जंघामध्ये च नलका मध्ये चैव पुरोगतम् ॥२९॥तिर्यक् सूत्रं तु संकल्प्य त्वन्तरं तु प्रमीयते ।तत्तत्स्थाने परे चैव तिर्यक् सूत्रं प्रकल्पयेत् ॥३०॥ऊरुमध्यगसूत्रात्तु पूर्वसूत्रद्वयांगुलम् ।तत्रैवापरसूत्रान्तं यवोन चतुरंगुलम् ॥३१॥जानुमध्यगसूत्रात्तु पूर्वसूत्राद्रसांगुलम् ।तत्रैव परसूत्रान्तात् पादो न पंचमात्रकम् ॥३२॥जंघामध्यं तु प्राक् सूत्राद्वस्वंगुलमुदाहृतम् ।तत्रैवापरसूत्रान्तं षड्विंशति यवं भवेत् ॥३३॥प्राक्सूत्रान्नलकामध्यं सार्धवस्वंगुलं भवेत् ।नलकापरसूत्रान्तं पादोन पंचमात्रकम् ॥३४॥द्व्यर्धमंगुष्ठयोरग्रं पूर्वसूत्राद्विशेषतः ।तत्सूत्रात्पार्ष्णिपर्यन्तं सार्धमन्वंशमिष्यते ॥३५॥प्राक्सूत्रात्कायमध्यस्थ सूत्रं स्याद्द्विनवांगुलम् ।तत्कायमध्यसूत्रात्तु शिरः पृष्ठं युगार्धकम् ॥३६॥तत्कायमध्यसूत्रात्तु ककुत्पंचांगुलार्धकम् ।उरोमध्यप्रदेशे तु पृष्ठे सार्ध षडंगुलम् ॥३७॥सूत्रान्मध्योदरः पृष्ठे सार्धवेदांगुलं भवेत् ।नाभिप्रदेशे पृष्ठे तु सार्धभूतांगुलं भवेत् ॥३८॥कटि नीव्रं षडर्धं स्यात्सार्धाष्टांश स्फिगग्रकम् ।ऊरुमध्यापरं वेदजानु पृष्ठं तथैव च ॥३९॥जंघामध्ये गुणांशं तु नलका द्व्यंगुलं भवेत् ।पार्श्वसूत्रौ च मध्यस्थं समसूत्रे तु संस्थिताः ॥४०॥पार्श्वसूत्रात्पुरो बाहु पर्यन्तं चतुरंगुलम् ।तत्सूत्रादपरे बाहु पर्यन्तं वसुमात्रकम् ॥४१॥पूर्वापरकरौ मध्यौ कोर्परान्तं तु लग्नकौ ।तत्करे बाह्यविस्तृतौ चतुरंगुलमिष्यते ॥४२॥कर्तरी परहस्ताग्रौ हिक्कासूत्रसमाभवेत् ।मध्यांगुलाग्रमुभयोस्तनसूत्रसमं भवेत् ॥४३॥अभयं दक्षिणं हस्तं वरदं वाममुच्यते ।प्राक्सूत्रादभये हस्ते मध्यं पंचदशांगुलम् ॥४४॥वरदं वामहस्तं तु अधोमुखं तु प्रकल्पयेत् ।तलमूलं कटिं स्पृष्ट्वा मेढ्रान्तं तु च तत्करे ॥४५॥मध्यांगुल्यग्रमालम्ब्य ऊरोर्नीव्रं युगांगुलम् ।ऊर्ध्ववक्त्रं तु वरदात् पृष्ठनाभिसमेढ्रकम् ॥४६॥वरदं हस्ततले मध्यात् सर्वसूत्रात्कलांगुलम् ।कर्तरी मणिबन्धास्तु बाहु बाह्यमुखं भवेत् ॥४७॥अथवा रुद्रभागं तु दशांगुलमथापि वा ।कोर्परात् पूर्वसूत्रान्तं रससप्तदशांगुलम् ॥४८॥अष्टादशांगुलं वाथ एकोन विंशदेव वा ।ऊरुमूलाद् द्वयोरन्तः एकांगुलमुदाहृतम् ॥४९॥ऊरोर्मध्यान्तरं विंशत् यवमानमुदाहृतम् ।जान्वन्तरं चतुर्मात्रं जंघयोः पंचमात्रकम् ॥५०॥नलकान्तरं रसांशं तु भूतांशं गुल्फयोन्तरम् ।पार्ष्ण्यन्तरं चतुर्मात्रं रसांशं पादतलान्तरम् ॥५१॥पदांगुष्ठाग्रयोरन्तः व्यान्तरं वसुमात्रकम् ।आर्जवं राजसंभावं कल्प्येवं द्विजसत्तम ! ॥५२॥कर्तरी परहस्तौ द्वौ जटामकुटसंयुतम् ।वामेन्दु शेखरं वाथ प्रवालसदृशं प्रभुम् ।त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् ॥५४॥पीताम्बरधरं देवं वस्त्राग्रौ नलकान्तकौ ।उभयोः पार्श्वयोरेवं अम्बरं ऊरुमध्यगम् ॥५५॥केवलं ह्येवमाख्यातं वामे गौरी समन्वितम् ।तद्गौरी सहितं ख्यातं भिन्नपीठैक एव वा ॥५६॥तदेव भंग संयुक्ते देवी देवौ परस्परम् ।देवो वरदहस्तेन देवीं बाह्य पराश्रिताम् ॥५७॥स्तननाभ्यन्तरं वामपार्श्वमालिंगतं कुरु ।पार्श्वसूत्रात्परे वामबाहुमालिंगनं तु वा ॥५८॥देवी दक्षिणहस्तेन शम्भोर्दक्षिण पार्श्वतः ।कटिसूत्रोपरि स्पृष्ट्वा पुष्पं वामकरोद्धृतम् ॥५९॥अथवा प्राग्वद्देवेशो देव्यास्तु दक्षिणे करे ।रक्तोत्पलं परिग्राह्य वामहस्तं प्रलम्बितम् ॥६०॥एवमालिंगमूर्तिस्तु त्रिधा मार्गेण कल्पयेत् ।सर्वाभरणसंयुक्तं प्रभामण्डलसंयुतम् ॥६१॥चन्द्रशेखरमाख्यातं वृषारूढमतः शृणु ।इत्यंशुमान्काश्यपे चन्द्रशेखरमूर्तिलक्षणपटलः (षष्षष्टितमः) ॥६६॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP