संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| तोरणलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - तोरणलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत तोरणलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण तोरणानां तु लक्षणम् ।पादोदये दशांशे तु सप्तांशं चरणोदयम् ॥१॥शेषं च गुणभागं तु झषमानमुदाहृतम् ।नवांशे पादतुंगं तु षडंशं चरणायतम् ॥२॥शेषं झषोदयं ख्यातं अष्टांशे वांघ्रितुंगकम् ।पंचांशं चरणोत्तुंगं झषोत्सेधं गुणांशकम् ॥३॥तुंगार्धं विपुलं वाथ वेदभूतरसांघ्रिकैः ।तोरणस्यैव पाद्बाह्ये व्यासमेवं चतुर्विधम् ॥४॥प्रासादमण्टपादीनां मध्यभागे तु तोरणम् ।अनेन विधिना वापि कर्तव्यं भित्तिबाह्यके ॥५॥पत्राख्यतोरणं चादौ द्वितीयं मकरतोरणम् ।तृतीयं चित्रसंज्ञा तु त्रिविधं तोरणाकृतिः ॥६॥अर्धचन्द्रमिवाकारं पत्रजादिविराजितम् ।पत्रतोरणमाख्यातं ततोमकरमुच्यते ॥७॥पंचवक्त्रसमायुक्तं पार्श्वयोर्मकरास्यकम् ।मध्ये पूरीससंयुक्तं नानाविधलतान्वितम् ॥८॥नानालंकारसंयुक्तं युक्तं मकर तोरणम् ।तदेव पार्श्वयोर्मध्ये पुरीमस्य द्वयोरपि ॥९॥नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्यकम् ।सिंहेभव्यालहंसाद्यैः पालास्रं मुक्तदामकैः ॥१०॥अन्यैश्च विविधैश्चित्रैः रत्नबन्धैश्च भूषितम् ।चित्रतोरणमेतत्स्यात् प्रोच्यते तोरणत्रयम् ॥११॥तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः ।पादोच्चं पंचषट्सप्तभागेद्वौ तोरणाग्रकम् ॥१२॥शेषं पादोदयं ख्यातं एवं चित्रमिदं भवेत् ।चतुराश्राष्टकं वापि वृत्तं वा तोरणांघ्रिकम् ॥१३॥कुंभमंड्यादिसंयुक्तं बोधिकारहितं तु वा ।बोधिका सहितं वापि वीरकाण्डसमन्वितम् ॥१४॥कुड्यस्तंभविशालार्धं त्रिपादं वा समं तु वा ।तोरणांघ्रिविशालं तु प्रोच्यते द्विजसत्तम ! ॥१५॥उत्तरं वाजनं साब्जक्षेपणं कुद्रवाजनम् ।यथाक्रमेण संकल्प्य अनेन विधिना बुधः ॥१६॥तोरणांघ्रि विशालं वा त्रिपादं वोत्तरोदयम् ।तदर्धं वाजनोच्चं तु तस्यार्धं दलमानकम् ॥१७॥दलोर्ध्वक्षेपणं ख्यातं तस्यार्धं क्षुद्रवाजनम् ।उत्तरं बोधिकोर्ध्वे वा वीरकाण्डे तु वा भवेत् ॥१८॥उत्संध्यं तन्नताग्रेण कुर्यान्मकरविष्ठरम् ।तोरणाग्रविशालं तु कुड्यस्तंभोदयार्धकम् ॥१९॥कुड्यस्तंभद्वयोरन्तर्व्यासं वा तोरणाग्रकम् ।अंघ्रिवेत्रावसानं वा तस्माद्दण्डाधिकं तु वा ॥२०॥एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम् ।कुड्यतोरणमाख्यातं द्वारतोरणमुच्यते ॥२१॥द्वारतुल्योन्नतं व्यासं तोरणांघ्र्यन्तरं समम् ।उत्तरं वाजनं चाब्जक्षेपणं चाष्टमंगलम् ॥२२॥फलका पंचवक्त्राढ्यं प्रागुक्त विधिना कुरु ।पत्राख्यं मकराख्यं वा चित्रतोरणमेव वा ॥२३॥मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम् ।दर्पणं पूर्णकुंभं च वृषभं युग्मचामरम् ॥२४॥श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् ।श्रीवत्सं मध्यमे कुर्यात् शेषास्तु तस्य पार्श्वयोः ॥२५॥लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम् ।द्वारतोरणमेवं हि स्तंभतोरणमुच्यते ॥२६॥पादोच्चं तु त्रिधाभज्य द्विभागं चरणोदयम् ।पादं सर्वांगसंयुक्तं बोधिकारहितं कुरु ॥२७॥उत्तरं वाजनं चाब्जक्षेपणं निम्नवाजनम् ।तदूर्ध्वे झषखण्डं तु नानाचित्रैर्विचित्रितम् ॥२८॥तोरणं मकराख्यं तु मृणाभ्ये द्विक्रकन्धरम् ।द्युडानलात्मसंयुक्तं एतत्स्यात्स्तंभतोरणम् ॥२९॥पादान्तरे वा हारायां कर्णप्रासादमध्यमे ।शालामध्यान्तरालायां कर्तव्यं सर्वधामसु ॥३०॥स्तम्भतोरणमाख्यातं कुंभलता विधिं शृणु ।इत्यंशुमान्काश्यपे तोरणलक्षणपटलः (त्रयोदश) ॥१३॥ N/A References : N/A Last Updated : November 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP