संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| नृत्तमूर्तिलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - नृत्तमूर्तिलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत नृत्तमूर्तिलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण नृत्तमूर्तेस्तु लक्षणम् ।रुरुन्धवधनार्थं तु तद्भूता चर्ममुण्डनी ॥१॥रुरुंधवधनं कृत्वा तस्मास्वत्पंक्तिता मता ।तदाहिंसोत्सुका देवा तदासुखनिवृत्तये ॥२॥तदा नृत्तं करिष्यामि सर्वलोकहिताय वै ।देवानामार्तिनाशाय राजराष्ट्र विवृद्धये ॥३॥नृत्तमष्टशतं भेदं तेषादौ नवमुच्यते ।प्रागुक्तविधिना ग्राह्य बिम्बमानं द्विजोत्तम ! ॥४॥उत्तमं दशतालेन सर्वांगं परिकल्पयेत् ।भानुरुद्रदशांशेन तुंगं नृत्तानतं भवेत् ॥५॥उष्णीषमध्यमात्सव्ये ललाटान्मध्य दक्षिणे ।नीत्वा शिवांगुलं सव्ये नेत्रान्ते च पुटान्तके ॥६॥हनोः सव्ये तु हिक्कायां मध्ये नाभेश्च मध्यमे ।वामोर्वाभ्यन्तरे चैव स्थितां प्रौ (?) गुल्फमध्यमे ॥७॥प्रभामण्डलमध्यात्तु पूर्वसूत्रं प्रलम्बयेत् ।ललाटात्सूत्रनीव्रं तु युगांशं वार्धहीनकम् ॥८॥गुल्फात्सूत्रान्तरं चैव तद्वदेव विधीयते ।हिक्कामध्यात्तु सूत्रान्तं सार्धसप्ताष्टवांगुलम् ॥९॥मकुटो वक पक्षाग्रात् सार्धाष्टांशं तथैव च ।ऊर्ध्वकुक्षी स्पृशेत्पूर्वसूत्रमेवं प्रकल्पयेत् ॥१०॥तत्सूत्राद् डोलबाह्वग्रं अर्धाधिक कलांगुलम् ।तस्मादपरबाह्वग्रं युगांगुलमुदाहृतम् ॥११॥तस्मादग्नि कराग्रान्तं साष्टत्रिंशांगुलं तु वा ।चत्वारिंशतिमात्रं वा तस्मादौ गुणमात्रकम् ॥१२॥हिक्कासूत्रसमोद्धृत्य तद्धस्त मध्यमाग्रकम् ।तद्धस्ततलमध्ये वा मध्यांगुल्याग्र पर्वके ॥१३॥मध्ये पर्वेऽथवा धृत्वा त्वनलं पात्रसंयुतम् ।पात्रं विनाथवा वह्निं पंचांशं विस्तृतान्वितम् ॥१४॥तुंगं सप्तांगुलं वाष्टनवमात्रमथापि वा ।त्रिपंच सप्तजिह्वायां कल्पयेत्तु यथोचितम् ॥१५॥अष्टाविंशति मात्रं वा त्रिंशदंगुलमेव वा ।चत्वारिंशति मात्रं वा वामे संख्याः क्रमान्नयेत् ॥१६॥तद्धस्ते मणिबन्धोर्ध्वे हिक्कासूत्रसमं भवेत् ।डमरुके मध्यपीठस्य सूचिकर्णान्तमुद्धृतम् ॥१७॥तर्जन्यग्रं तु सुचिः स्यात् तर्जनी ऋजुता भवेत् ।अथवा चर्मसूत्रं तु पीड्यमध्यांगुलोपरि ॥१८॥अनामिकोपरिष्टात्तु डमरुकं परिकल्पयेत् ।डमरुकदीर्घविस्तारं वसुपंचांगुलं तथा ॥१९॥मध्यं गुणांगुलं व्यासं पद्माकारं प्रकल्पयेत् ।वलयद्वयसंयुक्तं वर्मसूत्रेण बन्धितम् ॥२०॥यद्द्रव्येण कृतं बिम्बं तद्द्रव्येण समाचरेत् ।सूच्यग्रात्कर्णसीमान्तं चत्वारिंशति मात्रकम् ॥२१॥स पंच चत्वारिंशच्च अष्टाविंशत्त्रयस्तथा ।पार्श्वसूत्रसमं सूचिं चाग्निस्ते मध्यमांगुलम् ॥२२॥दक्षिणे पूर्वहस्तं तु अभयं परिकल्पयेत् ।प्राक्सूत्रादभये हस्ते मध्यं भानुद्वयांगुलम् ॥२३॥तन्मध्यमांगुलाग्रं तु हिक्कासूत्रसमोद्धृतम् ।सूत्रान्तात्कोर्परं नीव्रं चत्वारिंशति मात्रकम् ॥२४॥अभये प्रकोष्ठमध्ये तु भुजंगवलयं न्यसेत् ।प्रकोष्ठमध्यनाहस्य पादं तस्य तु देशिकः ॥२५॥तदेतदुपरि ख्यातं फणं पंचांगुलं भवेत् ।सप्तांगुलविशालं तु घनमेकांगुलं भवेत् ॥२६॥पुरस्थितान्मोक्ष्यं तु जीह्वा नीव्रसमन्वितम् ।भुजंगवलयं ह्येवं कल्पयेत्कल्पवित्तमः ॥२७॥सूत्रात्कक्षान्तरं सव्यपार्श्वे द्वादशमात्रकम् ।सूत्रान्मध्योदरं वामे नवांगुलमुदाहृतम् ॥२८॥वामे स्फिक् पिण्डनीव्रं तु सूत्रादष्टादशांगुलम् ।सूत्रात्कुंचितजान्वोऽस्तु त्वन्तरं तु दशांगुलम् ॥२९॥नवांगुलं चाष्टमात्रं च जानुनीव्रं यथाक्रमम् ।भानुरुद्रदशांगुल्यं नतमानेन कल्पयेत् ॥३०॥स्थितांघ्रि जान्वोर्वामांघ्री जानुनीव्रं प्रकल्पयेत् ।कलांगुलं त्रिपंचमनुमात्रं वा जंघोस्तुद्वन्तरं त्रिधा ॥३१॥स्थितांघ्रि नलका मध्याद्वामपार्ष्ण्यन्तरं बुधः ।स वेद चत्वारिंशांशत्यंगुलं तु विधीयते ॥३२॥स सप्त षट्चत्वारिंशदंगुलं वाथ तद्भवेत् ।स्थित जान्वोद्धृतं पार्ष्ण्योः चतुर्विंशति मात्रकम् ॥३३॥त्रयस्त्रिंशति मात्रं वा जान्वोः पार्ष्ण्यन्तरं द्विधा ।उद्धृतांघ्रितलान्तं च स्थितजानूर्ध्व तत्समम् ॥३४॥उद्धृतांघ्रेस्तु जानूर्ध्वं नाभिसूत्रसमं भवेत् ।कोर्पराड्डोलहस्तस्य नाभि सूत्राद्दशांगुलम् ॥८५॥एकादशांगुलं वाथ कल्पयेत्कोर्परान्तकम् ।तद्धस्तो मणिबन्धाच्च वामजान्वोऽस्तु व्यन्तरम् ॥३६॥दशांगुलं वाथ कर्तव्यं नवांगुलमथापि वा ।डोलहस्ते तु मध्यस्थादंगुलाग्रं विशेषतः ॥३७॥वामपादे तु जंघान्तं अन्तरं धर्ममात्रकम् ।नवांगुलान्तरं वापि रुद्रांगुलमथापि वा ॥३८॥डोलहस्तो भयान्तं तु द्व्यन्तरं तु दशांगुलम् ।अन्यान्युक्तानि नीव्राणि यथा सौन्दर्यमाचरेत् ॥३९॥केशान्ताद्बकपक्षस्य तुंगमष्टादशांगुलम् ।सप्तादशांगुलं वाथ षोडशांगुलमेव वा ॥४०॥तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि ।सुविकीर्ण जटाभारं पंचसप्त च नन्दकम् ॥४१॥रुद्रसंख्याथवा विप्र उभयोः पार्श्वयोस्तथा ।द्वात्रिंशांगुलमारभ्य सैकषष्ठ्यंगुलान्तकम् ॥४२॥अंगुलांगुल वृद्ध्या तु जटादीर्घमुदाहृतम् ।अधो जटादीर्घमेवं हि तस्मादूर्ध्वोर्ध्वमूर्धनि ॥४३॥कनिष्ठांगुलि परीणाहं जटानाहमुदाहृतम् ।जटान्तरं पुष्पमालाभिः अलंकृत्य विशेषतः ॥४४॥नागं चैवार्क पुष्पं च धुर्धूरकुसुमं तथा ।हसितं शीर्षकं चैव करोटी रत्नबन्धनम् ॥४५॥भूषयित्वा तु मरुदे दक्षिणेऽर्धेन्दुशेखरम् ।सिन्दूरालं कृतस्कन्दं अक्षमाल्यैरलंकृतम् ॥४६॥भस्मोद्धूलित दिव्यांगं किंचित्प्रहसिताननाम् ।यज्ञोपवीतसंयुक्तं उरुसूत्रसमन्वितम् ॥४७॥देवांगे वोदरे मध्ये बाह्या वामेऽर्धनिर्गती ।प्रभामण्डलमाश्रित्योदरबन्धाग्रकं द्विज ! ॥४८॥व्याघ्रचर्माम्बरोपेतं ऊरुत्र्यंशावसानकम् ।डोलबाहूर्ध्वतो बध्वा व्याघ्रचर्म द्विजोत्तम ! ॥४९॥लम्बनं बाहुमूलं तु भानु वा मनुमात्रकम् ।तदर्धं वा त्रिपादं वा विस्तारं तद्विजोत्तम ! ॥५०॥पादौ नूपुरसंयुक्तौ सर्वाभरणभूषितम् ।हस्तपादांगुलीः सर्वाः रत्नहेमांगुलीयकाः ॥५१॥मध्यमांगुलि वर्ज्या तु शेषा वै मुद्रिकाकान्विता ।दक्षिणं कुंचितं पादं अपरोपरि स्थितम् ॥५२॥तिर्यक् पादतलं न्यस्त्वा नृत्तं कुर्यान्महेश्वरम् ।वामपादतलोद्धृत्य तिर्यग्दोर्दक्षिणानुगम् ॥५३॥डोलहस्तमथार्त्य अपस्मारमथोच्यते ।त्रिचतुष्पंच वक्त्रं वा अपस्मारस्य दैर्घ्यकम् ॥५४॥अष्टाचत्वारिंशांशं वा अपस्मारोदयं कुरु ।उष्णीषमेकभागेन केशान्तं च तथा भवेत् ॥५५॥वस्वंगुलं मुखायामं गलमर्धांगुलं भवेत् ।अध्यर्धांगुलमायामं कर्णव्यासं तु शेषतः ॥५६॥हिक्कादि हृदयान्तं तु रसांगुलमुदाहृतम् ।हृदादि नाभि पर्यन्तं तत्समं परिकीर्तितम् ॥५७॥नाभ्यादि मेढ्रमूलान्तं मानं षण्मात्रमुच्यते ।ऊरुदीर्घं तु सप्तांशं जानुदीर्घं द्वयांगुलम् ॥५८॥जंघा दीर्घोरुतुल्यं स्यात् द्वयांशं चरणोदयम् ।मन्वंशं तु करं हिक्का मध्यांगुलाग्रसीमकम् ॥५९॥शेषं युक्त्या तु कर्तव्यं शयेत्तु तदधोमुखम् ।शंभोः सव्ये शिरः स्थाप्य वामे पादौ विकीर्णितौ ॥६०॥अपस्मारोदरोच्चं तु धर्मनन्दाष्टमात्रकाः ।तन्मुखं तु समुद्धृत्य व्याललीलामुदान्वितम् ॥६१॥व्यालं वै वामहस्ते तु दक्षिणं तस्य मुद्रिकाम् ।सस्य श्याम निभाकारं अपस्मारं द्विजोत्तम ! ॥६२॥कलांशं पद्मपीठोच्चं विस्तारं तच्चतुर्गुणम् ।स पादं सार्धपादोन द्विगुणं वा तदायतम् ॥६३॥ऊर्ध्वपद्ममधः पद्मपिण्डिका लक्षणोक्तवत् ।प्रभामण्डलसंयुक्तं अनेन विधिना कृतम् ॥६४॥गुणांगुलं समारभ्य यावच्छतांगुलावधि ।तावदेकांगुलार्द्ध्या तु साष्ठनदिथोदयम् ॥६५॥एकांगुलं समारभ्य एकांगुलविवर्धनात् ।प्राग्वत् संख्याघनं ख्यातं दण्डस्य प्रथमस्य तु ॥६६॥तत्तदष्टांशहीनं तु ऊर्ध्वोर्ध्वक्रमशः कृशम् ।एकद्वित्रिचतुष्पंच षट्सप्ताष्टनवं दश ॥६७॥पुनः पुनस्तथा संख्या उपर्युपरि कल्पयेत् ।कर्तरीश्चावशात्तेषु दण्डसंख्या तु तत्कुरु ॥६८॥नानादललताभिश्च नानापुष्पोपशोभितम् ।तस्योपरिष्टादनलं हस्ते त्वग्निरिवाकृतिः ॥६९॥कर्तव्यं परितो विप्र ! तत्समं व्यन्तरानतम् ।भानुमण्डलबद्धीमान् प्रभामण्डलवर्तिनम् ॥७०॥तस्य वामेऽप्युमादेवीं प्रागुक्त विधिना कुरु ।एतत्स्यात्प्रथमं नृत्तं सर्वलोकहितावहम् ॥७१॥तदेव दक्षिणे पार्श्वे जटाग्रे जाह्नवी भवेत् ।शंभोर्देहांगुलेनैव षोडशांगुलमुन्नतम् ॥७२॥स्त्रीमानोक्तांगसंपन्ना हृदयांजलि संयुता ।एवं जाह्नवीसंयुक्तं नृत्तं चैव द्वितीयकम् ॥७३॥तदेव वामपादं तु अपस्मारोपरि स्थितम् ।उद्धृतं दक्षिणं पादं वामहस्तं प्रसारितम् ॥७४॥ललाटमध्याद्वामे तु वामनासापुटान्तकम् ।लम्बयेद् ब्रह्मसूत्रं तु स्थितं पादस्य गुल्फके ॥७५॥शेषं प्रागिवकर्तव्यं नृत्तं चैव तृतीयकम् ।सुविकीर्ण जटाभारं जटामकुटसंयुतम् ॥७६॥जटामण्डलसंयुक्तं शेषं प्रथमनृत्तवत् ।चतुर्थं नृत्तमेतद्धि सर्वप्राणि हितावहम् ॥७७॥उष्णीषोर्ध्वेऽर्कमात्रान्तं सव्यपादं समुद्धरेत् ।स्ववक्रं वामपादं तु अपस्मारोपरि स्थितम् ॥७८॥भुजाष्टकसमायुक्तं एतत्पंचकमुच्यते ।अभयं शूलपाशं च डमरुं दक्षिणे करे ॥७९॥कपालमग्नि पात्रं च घण्टां हस्तिकरोपमम् ।गजहस्तोपमं हस्तं प्रसार्यं दक्षिणानुगम् ॥८०॥यद्वत्प्रथमनृत्तस्य पूर्वसूत्रं प्रसारयेत् ।चिह्नं पंचमनृत्तस्य एवमेवेति विद्यते ॥८१॥दोर्भिः षोडशभिर्युक्तं वामे गौरी समन्वितम् ।स्कन्दधृत् * * * * * वामहस्ते धृतांजलिः ॥८२॥तदंजलि करो मध्यं न्वन्त हिक्कावसानकम् ।स्कन्दो भयकराभ्यां तु हनुस्तनं धृगादरात् ॥८३॥एवं गौरीं समीक्ष्येशमित्यादिस्ते द्विहस्तया ।अभयं डमरुकं चैव वज्रं शूलं तथैव च ॥८४॥पाशं दक्षिणां तथा दण्डं नागं वै दक्षिणे तथा ।सव्यानुगकरण्डैर्वा वेतालं वामानुभंगजापमम् ॥८५॥अनलं मीयरं चैव वलयं केतुरेव च ।घण्टां चैव कपालं च वामपार्श्वेऽष्टहस्तके ॥८६॥पादेन पंचमं नृत्तस्य यत्तत्तद्वद् विधीयते ।षष्ठमेवं समाख्यातं सप्तमं शृणु सुव्रत ! ॥८७॥त्रिणेत्रं चाष्टहस्तं च सुविकीर्ण जटायुतम् ।कुंचितं वामपादं तु अपस्मारोपरि स्थितम् ॥८८॥वामभागे शिरस्तस्य सुविकीर्णांघ्रि दक्षिणे ।उद्धृतं दक्षिणं पादं अंगुष्ठ जंघाग्रसीमकम् ॥८९॥पूर्वसूत्रात्तदंगं तु नीव्रं भान्वंगुलं भवेत् ।अभयं शूलपाशं च डमरुं दक्षिणे करे ॥९०॥कपालं चाग्निपात्रं च तथा विस्मयहस्तकम् ।गजहस्तोपमं वामे चतुर्थो ह्येवमेव हि ॥९१॥गजहस्तोपमं हस्तं सव्यासव्यानुगं तु वा ।ललाटस्य तु मध्यात्तु वामे तु स्तनमध्यमे ॥९२॥वामांघ्रि नलका मध्ये लम्बयेद् ब्रह्मसूत्रकम् ।तत्सूत्राद्वामजान्वोऽस्तु नीव्रं नवांगुलं भवेत् ॥९३॥नतमानं दशांशं स्यात् वामे गौरी समायुतम् ।सप्तमं नृत्तमाख्यातं जगदार्तिविनाशनम् ॥९४॥तदेव षड्भुजोपेतं अभयं डमरुं तथा ।शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा ॥९५॥गजहस्तोपमं वामे सूत्रं प्रागुक्तदष्टकम् ।पंचमस्य च नृत्तस्य षष्टमं शृणु सुव्रत ! ॥९६॥नेत्रद्वयोऽपि विख्यातो शेषास्तु त्रीणि नेत्रकम् ।चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् ॥९७॥अभयं डमरुं सव्ये वामेऽग्निगजहस्तवत् ।अपस्मारं विना पीठे वामांघ्रिः कुंचितं स्थितम् ॥९८॥तत्तत्पुरः स्थितं पीठे सव्यपादकनिष्ठिकाम् ।तत्पादं कुंचितं युक्त्या सूत्रं युक्त्या तु लम्बयेत् ॥९९॥नवमं नृत्तमाख्यातं गंगाधरमतः परम् ।इत्यंशुमान्काश्यपे नृत्तमूर्तिलक्षणपटलः (अष्टषष्टितमः) ॥६८॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP