संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| शूललक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - शूललक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत शूललक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण शूललक्षणमुत्तमम् ।ऊर्ध्वकायसमं वं?श दण्डदीर्घमुदाहृतम् ॥१॥मध्योदरविशालस्य चतुर्भागैकविस्तृतम् ।मूलेष्टांश विहीनं तु तस्याग्रं अ ततं भवेत् ॥२॥नाभ्यन्तं चतुरश्रं तु हिक्कान्तं वसुकोणकम् ।तदूर्धं वृत्तमाख्यातं शेषं वर्तुलमेव वा ॥३॥द्वात्रिंशदंगुलायामं वक्षोदण्डायतं भवेत् ।विस्तारं सार्धषण्मात्रं सार्धसप्तांगुलं तु वा ॥४॥विस्तारार्धघनं ख्यातं वक्षो दण्डं तदुच्यते ।अग्रं युगांगुल व्यासं मध्यादग्रं क्रमात्कृशम् ॥५॥वक्षोदण्डस्य मध्ये तु छिद्रं सार्धगुणांगुलम् ।हिक्कासूत्रादधस्तात्तु यावत्स्याद्द्व्यंगुलावधि ॥६॥वक्षोदण्डोर्ध्वसाम्यं स्याद् द्व्यंशं दण्डे तु योजयेत् ।षोडशांगुलमायामं कटिदण्डस्य देशिक ॥७॥वस्वंगुलं तु तत्तारं घनं वेदांगुलं भवेत् ।मध्ये युगांगुलं छिद्रं नाभेः पंचांगुलादधः ॥८॥कटिदण्डोर्ध्व मध्ये स्याद्वंशदण्डे तु योजयेत् ।वक्षोदण्डाग्रयोर्विप्र ! कटिदण्डाग्रयोरपि ॥९॥अथ वक्त्र शिखां कुर्यात् अनेन विधिना बुधः ।एकद्वित्रिचतुष्पंच षट्सप्ताष्टकरं तु वा ॥१०॥बिम्बोचितकरं यत्तत् संख्या वक्रशिखान्विताः ।द्व्यंगुलं च शिखायामं हस्तसंख्यापि तन्ततः ॥११॥वक्षोदण्डविशालं तु हस्तसंख्यात्तु भाजिते ।शिखाव्यासं तदेकांशं मूलेग्रे तु कृशं क्रमात् ॥१२॥कटिदण्डाग्रयोर्वक्रशिखायामं गुणांगुलम् ।सार्धांगुलं तु तत्तारं सुवृत्तं तद्घनं समम् ॥१३॥स्थानकं सकलं चेत्तु ऊरुदीघोपरि द्विजः ! ।अष्टांगुलं समारोप्य ऊरुशूलायतं भवेत् ॥१४॥आसने सकलं चोरुदीर्घादूर्ध्वं न रोपयेत् ।ऊरुमूले सुषिं कृत्वा कटिदण्डाग्रयोर्बुधः ॥१०॥शिखायामं समायोज्य यावद्बलधयं यथा ।जानुमानं द्विधा कृत्वा ऊरुजंघाद्वयोरपि ॥१६॥आरोपयेच्छिखामानं तस्मादारोपयेद्बुधः ।गुणांगुलं शिखामानं जंघादीर्घोभयैर्युतम् ॥१७॥मध्यच्छिद्रसमायुक्तं ऊर्वग्रं द्विशिखान्वितम् ।जंघामूलं त्रिभागैकं शिखा व्यासमुदाहृतम् ॥१८॥जानुसंधिं विना वाथ स्थानके सकलं कुरु ।संधि हीनांघ्रिशूलं तु एवमेवं विधीयते ॥१९॥जंघादीर्घोपरिष्टात्तु तालमानं तु रोपयेत् ।ऊरुमध्यत्रिभागैकं ऊरुदण्डस्य विस्तृतम् ॥२०॥तस्याग्रं तु त्रिपादं स्याज्जंघामूलं तु तत्समम् ।जंघामूलत्रिभागैकं हीनं जंघाग्रविस्तृतम् ॥२१॥त्रिधापादतलायामं कृत्वा भागद्वयान्वितम् ।स?लाग्रविस्तृतं तद्द्वित्रिद्व्यंश विस्तृतान्वितम् ॥२२॥एतत्पादतलं शूलं स्यात्समध्यायता परे ।कर्तव्यं सुषिरं तस्मिन् जंघाग्रादधिकायतम् ॥२३॥योज्य स्निग्ध दृढं कृत्वा बाहुमूलमथोच्यते ।बाहुमूलविशालं तु गुणांगुलमुदाहृतम् ॥२४॥अग्रं तु द्व्यंगुलं व्यासं प्रकोष्ठाग्र विशालकम् ।बाहुप्रकोष्ठयोश्चैव कोर्परं जानुवद्भवेत् ॥२५॥द्व्यंगुलं तु शिखामानं योजयेत् तु दृढं यथा ।पर्श्वयोर्वंशदण्डस्य पार्श्वदण्डे तु योजयेत् ॥२६॥कक्षान्तरं तु तद्दीर्घं तद्व्यासं तु गुणांगुलम् ।वंशदण्डसमं नीव्रं ऊर्ध्वाधस्ताच्छिखान्वितम् ॥२७॥अग्रौ तु वक्षो दण्डे तु मूलौ तु कटिदण्डके ।योजयेत्सुदृढं छिद्रे गुणांशं व्यन्तरान्वितम् ॥२८॥अग्रौ मूलौ निरुद्धं स्यात् पार्श्ववंशद्वयोरपि ।हस्तपादतलं श्रोत्रं ताम्रपत्रेण योजयेत् ॥२९॥आर्जवे वक्रबिम्बे च शूलं चैव तथा कुरु ।देवानां शूलमेवं स्यात् देवीनामथ वक्ष्यते ॥३०॥मध्योदरं त्रिधा भज्य एकांशं वंशविस्तृतम् ।अष्टांश हीनमग्रस्य विशालं तत्सुवृत्तकम् ॥३१॥बाहुपर्यन्त विस्ताराद्बाहुतत्यर्धवर्जितम् ।वक्षोदण्डायतं शेषं तस्यान्तं विसृतं भवेत् ॥३२॥युगांशं पृष्ठमानं तु शेषं गर्ते तु वेशनम् ।जंघा दण्डात्तु षण्मात्रं रोपयेत्स्थानके बुधः ॥३३॥गर्भगर्त प्रवेशार्धं तलाधस्तात्तु तद्भवेत् ।शूलमेवं समाख्यातं उपधाशूलमुच्यते ॥३४॥भित्तिमध्यं समारभ्य वक्षो दण्डपुरान्तकम् ।उपशूलायतं प्रोक्तं अष्टांगुलततं भवेत् ॥३५॥वेदांगुलं तु तन्नीव्रं शूलयोग्यद्रुमैर्बुधः ।शूलव्याससमं मध्यं छिद्रं तद्विशिखान्वितम् ॥३६॥भित्तिमध्यात्तु शूलस्य मूलं बध्वा दृढं बुधैः ।वक्षोदण्डकटीदण्डं धृत्वा वंशाख्यशूलकम् ॥३७॥छिद्रे दृढतरं चाग्निं तत्पूर्वे कीलबन्धनम् ।उपथाशूलशिखान्तं च वक्षोदण्डपुरं समम् ॥३८॥उपथाशूलशिखायां तु वंशाग्रे सुषिरं कुरु ।लोहजं दारुजं वाथ कीलं संयोजयेद्दृढम् ॥३९॥बिम्बास्तच्छूलमाख्यातं तस्मादुक्तवदाचरेत् ।शूललक्षणमाख्यातं शूलस्थापनमुच्यते ॥४०॥इत्यंशुमान्काश्यपे शूललक्षणपटलः (त्र्यशीतितमः) ॥८३॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP