संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
कुम्भलताविधिपटलः

अंशुमत्काश्यपागमः - कुम्भलताविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण कुंभलताविधिं शृणु ।
स्तंभमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत् ॥१॥

पादव्याससमं तुंगं सप्तादं पद्मविस्तरम् ।
पद्मोच्चं वसुधा भज्य कम्पमेकांशमुच्यते ॥२॥

अधः पद्मं गुणांशं तु एकांशं गलमुच्यते ।
ऊर्ध्वपद्मं द्विभागं तु कम्पमेकेन कारयेत् ॥३॥

तदूर्ध्वे कुंभतुंगंतु पद्मस्योच्चसमं भवेत् ।
तत्तुंगद्विगुणं कुंभं व्यासमित्युच्यते मया ॥४॥

कुंभस्य स्तंभनिर्यूहं वल्लीमण्डलसंयुतम् ।
कुंभमंड्यादिसंयुक्तं वीरकाण्डविहीनकम् ॥५॥

फलकोपरि पद्मं तु कुंभमानेन कारयेत् ।
कुंभं कुंभं लतां ह्येतां अन्यथा वक्ष्यते बुधैः ॥६॥

तदेवोत्संधिकोर्ध्वे तु वीरकाण्डसमन्वितम् ।
बोधिकारहितं यत्तत् स्तंभकुंभलता स्मृता ॥७॥

स्तंभतोरणवन्मूर्ध्नि कर्तव्या तोरणलता ।
एवं त्रिविधिनीत्या तु प्रोच्यते कुंभलता द्विज ! ॥८॥

इत्यंशुमान्काश्यपे कुंभलताविधिपटलः (चतुर्दश) ॥१४॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP