संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
गङ्गाधरमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - गङ्गाधरमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


गंगाधरमहं वक्ष्ये संक्षेपाच्छृणु सुव्रत ! ।
सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् ॥१॥

ललाटमध्यमात्सव्ये नीत्वा नवयवान्तकम् ।
दक्षिणेऽप्यक्षिसीमान्ते सव्यनासापुटान्तके ॥२॥

हिक्कामध्ये समालंब्य नाभेस्सव्ये द्वयांगुलम् ।
दक्षिणे मेढ्रमूलस्य मध्यमाद् द्व्यंगुलान्तके ॥३॥

पार्ष्ण्योश्च मध्यमे चैव ब्रह्मसूत्रं प्रलम्बयेत् ।
युगांशं नतमानं तु पादांगुष्ठ द्वयोन्नतम् ॥४॥

अष्टादशांगुलं प्रोक्तं त्र्यंशं पार्ष्णिद्वयोत्तरम् ।
विश्लीषं स्याज्जटाबन्धं वामेत्वीषन्नताननम् ॥५॥

दक्षिणे पूर्वहस्तं तु वरदेव्याननाश्रितम् ।
वामे तु पूर्वहस्तेन देवीमालिंगनं कुरु ॥६॥

दक्षिणे परहस्तं तु जटाजाह्नविसंयुतम् ।
उष्णीषान्तं समुद्धृत्य वामे कृष्णमृगं धृतम् ॥७॥

देवस्य वामपार्श्वे तु गौरीर हिताननम् ।
सुस्थितं वामपादं तु कुंचितं दक्षिणे भवेत् ॥८॥

आभंगेन नतं सूत्रं कल्पयेत्कल्पवित्तमः ।
प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृत् ॥९॥

अथवा दक्षिणं हस्तं प्रकोष्ठं तिर्यग गतम् ।
श्रोण्यधस्तात्तलम्बं स्याद्वस्त्रद्धृतमिवाकृतिः ॥१०॥

सर्वालंकारसंयुक्तं सर्वाभरणभूषितम् ।
गम्भीरं दक्षिणे पार्श्वे ऋषिभिः प्रार्थितेश्वरः ॥११॥

गंगाधरहरं देवं ततो वै त्रिपुरान्तकम् ।


इत्यंशुमान्काश्यपे गंगाधरमूर्तिलक्षणपटलः (एकोनसप्ततितमः) ॥६९॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP