संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
वृत्तस्फुटितलक्षणपटलः

अंशुमत्काश्यपागमः - वृत्तस्फुटितलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण वृत्तस्फुटितलक्षणम् ।
षडंगुलं समारभ्यं द्विद्व्यंगुलविवर्धनात् ॥१॥

कलांगुलावधिर्यावत् तावद्व्यासं तु षट्विधम् ।
वितारार्धं तु तन्निव्रं त्रिद्व्यंशं वा त्रिभागिकम् ॥२॥

वृत्ताकारसमं चैव तोरणंघ्रिवदायतम् ।
सकन्धरं तदूर्ध्वे तु शुकनास्यान्वितं तु वा ॥३॥

कर्णकूटाकृतिं वाथ वृत्ताकारं प्रकल्पयेत् ।
स्तंभोत्सेधयुगांशे तु द्विभागं चरणायतम् ॥४॥

प्रस्तरोदयमेकांशं शुकनास्योदयांशकम् ।
तदेव कूटमानं तु तत्तदुक्तावसानयेत् ॥५॥

अथवान्तरमंचं तु प्रोक्तमार्गेण वा कुरु ।
वृत्त स्हुटितमेवं हि लतामंडलमण्डितम् ॥६॥

स्तंभाख्ये तोरणं चैव तथा कुंभलता द्विज ! ।
वृत्ताख्य स्फुटितं चैव हारान्तरेषु कल्पयेत् ॥७॥

स्तंभोत्तरे वा कर्तव्यं हर्म्यादीनां विशेषतः ।

इत्यंशुमान्काश्यपे वृत्तस्फुटितलक्षणपटलः (पंचदश) ॥१५॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP