संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| स्तंभलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - स्तंभलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत स्तंभलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण चरणायामविस्तृतम् ।आकारं भूषणं चैव संक्षेपाच्छृणु सुव्रत ॥१॥स्तंभं च तलिपं चैव चरणं जंघमेव च ।स्थाणुः स्थूणं च पादं च पर्याय वचनस्त्विमे ॥२॥आप्तोत्सेधांशमानेन पादायामं विधीयते ।अधिष्ठानस्य तुंगस्य द्विगुणं वांघ्रितुंगकम् ॥३॥तस्माद्धरातलोच्चं तु षडष्टांशाधिकं तु वा ।पादोच्चपंक्ती नन्दाष्टभागैकं वांघ्रितुंगकम् ॥४॥दारुपादं तु ततं ह्येतत् कुड्यपादमथोच्यते ।तदर्धं वा त्रिभागोनचतुर्भागोनमेव वा ॥५॥कुड्यस्तम्भविशालं स्यात् एतत्सर्वेषु धामसु ।प्रतेरुत्तरसीमान्तं (अन्यराघ?) षालस्तंभमुच्यते ॥६॥उपानादुत्तरान्तं यत् निखातस्तंभमुच्यते ।तुंगं सप्ताष्टधा भज्य नवधर्मांशमेव वा ॥७॥रुद्रभान्वंशकं कृत्वा एकांशं त्वंघ्रिविस्तरम् ।तन्मूलतारमाख्यातं तत्तारं तु तथा भजेत् ॥८॥एकभागविहीनं तु शेषमग्रविशालकम् ।एकादिषोडशान्तानां तलं प्रत्येवमाचरेत् ॥९॥मूलादग्रं युगाश्रं तु कुंभमृण्ड्यादि संयुतम् ।ब्रह्मकान्तमिति ख्यातं वस्वश्रं विष्णुकान्तकम् ॥१०॥रसाश्रमिन्द्रकान्तं स्यात् चन्द्रकान्तं कलाश्रकम् ।कण्ठमानेन तन्मूले वेदाश्रं तु प्रकल्पयेत् ॥११॥स्तंभाग्रं चैकमानेन चतुरश्रसमन्वितम् ।तयोर्मध्यं तु वस्वश्रं षोडशाश्रमथापि वा ॥१२॥वृत्ताकारं तु वा विप्र ! कुंभमंड्यादि संयुतम् ।रुद्रकान्तमिदं ख्यातं मूलादग्रं तु वर्तुलम् ॥१३॥कुंभमंड्यादिहीनं यत् तद्व्यापी रुद्रकान्तकम् ।मूलादग्रं युगाश्रं तु मध्येष्टाश्रं तदुच्यते ॥१४॥चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा ।तदूर्ध्वे वृत्तमेवं स्यात् त्रिभागं तुंगसादृशम् ॥१५॥शिवच्छन्दमिदं ख्यातं शिवहर्म्ये प्रशंसितम् ।दण्डं सार्धद्विदण्डं वा मूले पद्मासनोदयम् ॥१६॥द्विगुणं तस्य विस्तारं पद्माकारं तु कारयेत् ।सपद्मं कर्णिकायां तु चरणस्थापनं कुरु ॥१७॥यथेष्टाकृतिसंयुक्तं कुंभमण्ड्यादिसंयुतम् ।चक्रवाकलताद्यैस्तु भूषितं पद्मपादकम् ॥१८॥पद्ममानेंघ्रिमूले तु व्यालेन व्यालपादकम् ।मूलेभं तत्प्रमाणेन गजपादमुदाहृतम् ॥१९॥मूले सिंहादिभिर्युक्तं यथेष्टाकृति संयुतम् ।कुंभमंड्यादिसंयुक्तं तत्तनाम्ना प्रकीर्तितम् ॥२०॥वृत्ताकारे तदायामे शुण्डुपादैः समन्वितम् ।कुंभमंड्यादिसंयुक्तं शुण्डुपादमुदाहृतम् ॥२१॥मुक्तादामैरलं कृत्य पिण्डिपादमुदाहृतम् ।विष्कंभ कर्णमानेन स्तंभाग्रे चतुरश्रकम् ॥२२॥तदर्धस्वर्धदण्डेन त्वब्जमष्टाश्रसंयुतम् ।दण्डमानेन तस्याधो वस्वश्रं परिकल्पयेत् ॥२३॥तदधः पूर्ववत्पद्मं तस्याधो दण्डमानतः ।चतुरश्र समायुक्तं तस्याधस्तात्तु पूर्ववत् ॥२४॥मूले तु शेषं वेदाश्रं चित्रं वाथ तदुच्यते ।तन्मध्ये पट्टं वस्वश्रं श्रीकण्ठं तदुदाहृतम् ॥२५॥मध्यपट्टकलाश्रं चेत् श्रीवक्त्रं स्तंभमुच्यते ।मुलादग्रं युगाश्रं स्यात् त्रिपट्टं क्षेपणान्वितम् ॥२६॥क्षेपणस्तंभमाख्यातं पट्टं पत्रादिशोभितम् ।स्तंभतारत्रिभागैकं चतुर्भागैकमेव वा ॥२७॥स्तंभमध्ये शिवां कुर्यात् ऊर्ध्वाधस्ताद्विशेषतः ।स्तंभमूले तु पद्मादीन् स्तंभमानेन कल्पयेत् ॥२८॥स्तंभलक्षणमाख्यातं बोधिकालक्षणं शृणु ।इत्यंशुमान्काश्यपे स्तंभलक्षणपटलः (अष्टमः) ॥८॥ N/A References : N/A Last Updated : October 14, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP