संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
नालस्हापनविधिपटलः

अंशुमत्काश्यपागमः - नालस्हापनविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण निर्माल्यद्वारलक्षणम् ।
प्रतिबन्धे प्रतेरन्ते तदन्ये पट्टिकान्तिके ॥१॥

गलान्ते कुमुदान्ते वा व प्रान्ते पादुकान्तके ।
नालं कुर्यादधश्चोर्ध्वे नालं तस्मिन्सुयोजयेत् ॥२॥

भान्वंगुलं समारभ्य त्रित्र्यंगुल विवर्धनात् ।
चतुर्विंशांगुलं यावत् तावत्पंचविधाय तम् ॥३॥

भित्ति बाह्यगतं ह्येतत् तस्यार्धं गर्भगेहकम् ।
वेशयित्वाथ वा भित्तेः अभ्यन्तरसमं तु वा ॥४॥

वस्वंगुलं समारभ्य द्विद्वयंगुल विवर्धनात् ।
कलांगुलावसानं तु विस्तारं पंचधा क्रमात् ॥५॥

तन्मूलतारपंचांशं त्र्यंशं चाग्रसुविस्तरम् ।
तद्विस्तरसमं व्यासं त्रिपादं वार्धतद्घनम् ॥६॥

विस्तारस्य त्रिभागैक उच्चतारं नतं तथा ।
नालमध्ये तु कर्तव्यं निम्नोन्नतविवर्जितम् ॥७॥

मूलादग्रं नतं किंचित् मूलं सिंहस्य बन्धितम् ।
गजोष्ठसदृशालम्ब्य यथा सुन्दरमग्रतः ॥८॥

व्यालेभसिंहभूतं वा नालं धृत्वासनस्थितः ।
नालमेवं प्रकर्तव्यं सौम्ये प्रा * ममध्यमे ॥९॥

स्थापयित्वा विशेषेण अनेन विधिना बुधः ।
नालं गन्धोदकैर्गव्यैः स्नापयित्वाम्भसा ततः ॥१०॥

शान्तिहोमं तु कुर्वीत वारुणं सूक्तमुच्चरन् ।
स्नापकस्सुप्रसन्नात्मा सुमुहूर्ते सुलग्नके ॥११॥

नालं तु स्थापयेद्धीमान् स्थपतिः स्थापकान्वितः ।
सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् ॥१२॥

सुधया गुलतोयैश्च बन्धयेत्सुदृढं यथा ।
पुंशिलाया सुकर्तव्या नालं तु चरणाधिपम् ॥१३॥

नालस्थापनमेवं तु स्तम्भलक्षणमुच्यते ।
इत्यंशुमान्काश्यपे नालस्हापनविधिपटलः (सप्तमः) ॥७॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP