संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
उत्तमनवतालविधिपटलः

अंशुमत्काश्यपागमः - उत्तमनवतालविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


नवतालोत्तमं वक्ष्ये शृणुत्वेकाग्रमानसः ।
वसवश्चाष्टमूर्तिश्च विद्येशा लोकपालकाः ॥१॥

अन्याश्च देवताश्चैव नवतालोत्तमेन तु ।
सद्वादशशतांशं तु बेरमानविभाजिते ॥२॥

उष्णीषमेकभागेन केशान्तं तु गुणांगुलम् ।
केशान्तादक्षि सूत्रान्तं वेदमात्रं विधीयते ॥३॥

तस्मान्नेत्रात्पुटान्तं च वेदमात्रमुदीरितम् ।
पुटाद्याद्धनुपर्यन्तं वेदांशं प्रविधीयते ॥४॥

कर्णमानं तु वेदांशं भान्वंशं हृदयावधि ।
हृदयान्नाभिसीमान्तं तावद्वादश मात्रकम् ॥५॥

नाभ्यादि मेढ्रमूलान्तं भानुमात्रं विधीयते ।
ऊरुदीर्घं चतुर्विंशत् दशजानु युगांशकम् ॥६॥

जंघादीर्घोरु तुल्यं स्याद्वेदांशं चरणोदयम् ।
हिक्काधो बाहुदीर्घं तु चतुर्विंशति भागया ॥७॥

द्विर्नवांशं तु कोष्ठं स्याद्रुद्रांशं तु तलायतम् ।
तन्मध्यांगुलमायामं षडंगुलमुदाहृतम् ॥८॥

कन्यसं दशतालोक्तमार्गे शेषं समाचरेत् ।
तस्माद्येव यवार्धं हि अंगं प्रत्येनमाचरेत् ॥९॥

मानमेवं समाख्यातं लक्षणं कथितं पुरा ।

इत्यंशुमान्काश्यपे उत्तमनवतालविधिपटलः (एकोनषष्ठितमः) ॥५९॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP