संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
कल्कसंस्कारलक्षणपटलः

अंशुमत्काश्यपागमः - कल्कसंस्कारलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ कल्कविधानं तु वक्ष्ये संक्षेपतः क्रमात् ।
नद्यां वापि तटाके वा दीर्घिकायामथापि वा ॥१॥

सस्य क्षेत्रे तथा विप्र त्रिरुषारजले शुभे ।
सुदृशाग्राणि तुल्यागा स्थूल वालुकसाश्रिताः ॥२॥

संग्राह्य शर्करां ह्येषां पेष्य प्रक्षालनं कुरु ।
शर्करां शोषणं कृत्वा सूक्ष्म चूर्णं तु तत्कुरु ॥३॥

त्रिफलोदकेन संमृज्य पिण्डं कृत्वा तु शोषयेत् ।
कपित्थनिर्यासस्यैव जलं त्रिविधमुच्यते ॥४॥

पंचांशं चैव निर्यासात् सार्धं वा पंच षड्गुणम् ।
सृतस्वच्छजलं चैव सैकं चेति क्रमोदिताः ॥५॥

स्वच्छसेकजलैः पिण्डं पेषयेन्नवनीतवत् ।
पश्चात्कार्पासतूलैश्च मिश्रं कृत्वा सुषेषयेत् ॥६॥

कल्कभिन्नं तु यत्तत्तु कदली दण्डतन्तुवत् ।
एतत्कल्कं समालिप्य प्रथमं कल्कमेव हि ॥७॥

निर्यासात् त्रिगुणं सार्धत्रिगुणं वा चतुर्गुणम् ।
मरीचित्रिफलं ह्येवं त्रिविधं परिपठ्यते ॥८॥

तेष्वं चौतु जलाभ्यां तु मर्दयेत्तु पुनः पुनः ।
क्रमेण लेपयेत्कल्कं द्वियवं त्रियवं घनम् ॥९॥

शनैः शनैः क्रमाल्लिप्य भिन्नच्छिद्रं विवर्जितम् ।
द्विमासं सार्धमासं वा मासं वा शोषयेत्ततः ॥११॥

कूर्चं न्यस्त्वा ततो विप्र षेषन्या पेषयेत्क्रमात् ।
ततः स्वच्छजलैः कल्कं प्रमाणान्तन्तु पूरयेत् ॥११॥

बहुकृत्वा प्रमाणं तु शोध्यमानं समानयेत् ।
अंगोपांगं च प्रत्यंगान् कल्पयेल्लक्षणान्वितम् ॥१२॥

हस्तपादोदरादीनि अंगमित्यभिधीयते ।
उपांगं भूषणं ख्यातं प्रत्यंगं चिह्नवाहनम् ॥१३॥

कपित्थस्यैव निर्यासात्तत्सार्धत्रिगुणांभसा ।
पाटाश्चादन्तु कर्तव्यं कल्कमालेपयेत्ततः ॥१४॥

तत्कल्कं तु यवाष्टांशं दशाहं दपरस्ततः ।
निर्यासतोयं कूर्चेन सेचषेष्या तु षेषयेत् ॥१५॥

मण्डनानि तदूर्ध्वस्तं मण्डयेल्लक्षणान्वितम् ।
पश्चाद्वै चिक्कणं लिप्य श्वेतवर्णं ततो लिपेत् ॥१६॥

इत्येवं कल्कसंस्कारं लक्षणं सकलस्य तु ।


इत्यंशुमान्काश्यपे कल्कसंस्कारलक्षणपटलः (सप्ताशीतितमः) ॥८७॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP