संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
उपपीठविधानपटलः

अंशुमत्काश्यपागमः - उपपीठविधानपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण उपपीठविधिं परम् ।
स्वाधिष्ठानसमोच्चं वा त्रिपादं वार्धमेव वा ॥१॥

पंचभागाग्निभागं वा सपादं सार्धमेव वा ।
पादोनद्विगुणं वाथ द्विगुणं वा विशेषतः ॥२॥

एवमष्टविधं ख्यातं उपपीठोदयं द्विज ।
दशधाभज्यमधिष्ठानं एकद्वित्रिचतुष्टयम् ॥३॥

पंचांशं वाथ निष्क्रान्तं अधिष्ठानस्य पादुका ।
उपपीठस्य नीर्वं तु पंचधा परिकीर्तितम् ॥४॥

तन्नीव्रमुपपीठे तु पादवाह्यं परिकल्पयेत् ।
अथवाग्रपादसदृशं द्विगुणद्विगुणं तथा ॥५॥

जगतेनीर्व तुल्यं वा उपानसदृशं तु वा ।
एवं हि पंच भेदं स्यात् उपपीठस्य निर्गमम् ॥६॥

सभादीनामुपपीठस्य निष्क्रान्तं दण्डमुच्यते ।
सभादीनां तु तद्बाह्ये निष्क्रान्तं दण्डमुच्यते ॥७॥

अथैकदण्डमारभ्य नवदण्डावसानकम् ।
उपानं नवधा तीव्रं अधमादित्रयं त्रयम् ॥८॥

तदुच्चे द्वादशांशे तु उपानोच्चं द्विभागया ।
पद्ममंशेन कर्तव्यं अर्धांशं कम्पमुच्यते ॥९॥

भूतांशकण्ठतुंगं तु कम्पमब्जं तु पूर्ववत् ।
सार्धांशं वाजिनं कुर्यात् कम्पमर्धेन कारयेत् ॥१०॥

अष्टांगमेवमाख्यातं षडंगं तद्विनाम्बुजम् ।
कंपेनाम्बुजमानं तु योज्यं भद्रोपपीठकम् ॥११॥

ऊर्ध्वकंपं विना वापि पंचांगमुपपीठकम् ।
उपपीठस्य चोत्सेधं सप्तविंशतिभाजिते ॥१२॥

द्विभागं पादुकोत्सेधं पंकजं तत्समं भवेत् ।
कम्पमेकांशमित्युक्तं द्वादशांशं गलोदयम् ॥१३॥

उत्तरं चैकभागेन तत्समं चोर्ध्वमम्बुजम् ।
अग्निभागं कपोतोच्चं मंशमालिं मिष्यते ॥१४॥

त्र्यश्रमेकेनमन्तरितं कुर्यात्प्रतिद्विभागया ।
वाजनं चैकभागेन नाम्ना तत्प्रतिभद्रकम् ॥१५॥

द्विभागं पादुकोत्सेधं द्विभागं पंकजोदयम् ।
कम्पमेकेन कर्तव्यं एकान्तरितं भवेत् ॥१६॥

द्विभागं प्रतितुंगं तु त्वेकेनैव तु वाजिनम् ।
अष्टांशं गलमानं तु कम्पमेकेन कारयेत् ॥१७॥

अब्जमेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ।
एकेन लिंगमानं तु मन्तर्यंशेन कल्पयेत् ॥१८॥

प्रतितुंगं द्विभागेन वाजनं चैकभागया ।
सप्तविंशतिभागे तु नाम्ना तत्प्रतिसुन्दरम् ॥१९॥

उपपीठस्य चोत्सेधं एकविंशतिभाजिते ।
उपानं तु द्विभागेन तत्समं त्वम्बुजोदयम् ॥२०॥

कम्पमर्धेन कर्तव्यं पद्ममर्धेन कारयेत् ।
महापट्टी द्विभागेन पद्ममर्धेन कारयेत् ॥२॥

कम्पमर्धेन कर्तव्यं कर्णोच्चं वसुभागया ।
भागेन कम्पमर्धेन पद्मकम्पे कपोतकम् ॥२२॥

त्रिभिस्तत्कम्पमर्धेन नाम्ना सौभद्रमुच्यते ।
उपानद्विभागमर्धांशैः अम्बुजांशेन कन्धरम् ॥२३॥

द्विभागेनाब्जं कर्तव्यं पट्टिका तत्समं भवेत् ।
पद्मकं सार्धभागेन कम्पमर्धेन कारयेत् ॥२४॥

सप्तभागं गलोत्सेधं कम्पमर्धेन कारयेत् ।
अम्बुजं सार्धभागेन महापट्टी द्विभागया ॥२५॥

अब्जमर्धार्धभागेन कम्पमर्धेन कारयेत् ।
पंचपंचोपपीठोच्च समभागद्विभाजिते ॥२६॥

कल्याण कारिका नाम्ना सर्वधामसु पूजितम् ।
एवं षडंगमाख्यातं उपपीठं द्विजोत्तम ! ॥२७॥

अंगनिष्क्रान्तवेशं च अधिष्ठानविधानवत् ।
भूतैव्यालेभसिंहैश्च मकरैः पत्रजातिभिः ॥२८॥

उपपीठगले विप्र ! भूषयेत्सर्वलक्षणम् ।
प्रत्यग्रमकरस्याभा वालारूढसमस्तकम् ॥२९॥

अवले बलवर्धं च अधिष्ठानोत्तमाचरेत् ।
उपपीठं समाख्यातं अधिष्ठानविधिं शृणु ॥३०॥

इत्यंशुमान्काश्यपे उपपीठविधान पटलः (पंचमः) ॥५॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP