संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| गोपुरलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - गोपुरलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत गोपुरलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण गोपुराणां तु लक्षणम् ।अन्तर्मण्डल सालादिस्त्वधुना प्रोच्यते क्रमात् ॥१॥द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके ।द्वारगोपुर इत्येते क्रमान्नाम्ना प्रकीर्तिताः ॥२॥एकद्वित्रितलं वापि द्वारशोभां तु कल्पयेत् ।द्विभूमिर्वा त्रिभूमिर्वा चतुर्भूमिरथापि वा ॥३॥द्वारशाला तु कर्तव्या साले स्यात्तु द्वितीयकम् ।त्रिचतुष्पंचभूमिर्वा द्वारप्रासादमारभेत् ॥४॥चतुष्पंचतलं वाथ षट्तलं वाथ हर्म्यकम् ।पंचषट्सप्तभूमिर्वा द्वारगोपुरमिष्यते ॥५॥अथवा सर्वसालेषु एकद्वित्रितलं तु वा ।सोपपीठमधिष्ठानं विना वादुपपीठकम् ॥६॥तयोरुच्चादयास्सर्वे नवपंचावदाम्यहम् ।मूलप्रासादविस्तारं सप्ताष्टनवभाजिते ॥७॥दशैकादशभागे च एकांशरहितं क्रमात् ।शोभादि गोपुरान्तानां विपुलं कीर्तितं क्रमात् ॥८॥विकल्पाभासहर्म्याणां गोपुराणां ततिस्त्विमे ।मूलालयविशालं तु चतुष्पंचषडंशके ॥९॥सप्ताष्टांशेन हीनं तु छन्दशोभादयं भवेत् ।मूलगेहत्रिभागैकं भागमर्धांशमेव वा ॥१०॥त्रिद्व्यंशचतुरंशे तु गुणांशं च तथैव च ।पंचभागे तु वेदांशं सालेषु प्रथमादिषु ॥११॥शोभादि गोपुरान्तानां ततिर्जात्यालयं क्रमात् ।कल्प्यैवं हर्म्यमानं स्याद्धस्तमान वशात्ततः ॥१२॥द्विहस्तादि द्विरष्टान्तं एकहस्तविवर्धनात् ।शोभादि गोपुरान्तानां प्रत्येकं त्रित्रिभेदकम् ॥१३॥विकल्पाभासयोरेवं छन्दहर्म्येऽथ वक्ष्यते ।गुणहस्तं समारभ्य सप्तादशकरावधि ॥१४॥एकहस्त विवृद्ध्या तु शोभादीनां त्रयं त्रयम् ।चतुर्हस्तं समारभ्य यावदष्टदशैः करैः ॥१५॥शोभादीनां तु विस्तारं जातिहर्म्ये तु विद्यते ।प्रत्येकं त्रित्रिधा मानं छन्दं पंचविधं भवेत् ॥१६॥हस्तमानेन विस्तारं क्षुद्राणां महतीं क्रमात् ।स्वस्वोदितः प्रकर्तव्यं विपरीतं विपत्करम् ॥१७॥अथवा त्रिचतुष्पंच षट्सप्ताष्टनवांशकम् ।दशैकादशहस्तं तु अधमादित्रयं त्रयम् ॥१८॥सर्वसालेषु कर्तव्यं तस्मात्ते सार्वदेशिकम् ।अथवान्यप्रकारेण शोभादीनां तु विस्तरम् ॥१९॥पंचहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।त्रयोदशकरान्तं तु शोभाव्यासं तु पंचधा ॥२०॥त्रिपंचहस्तमारभ्य द्विद्विहस्तविवर्धनात् ।त्रयोविंशत्करान्तं तु द्वारशाला तु पंचधा ॥२१॥पंचविंशत्करारभ्य त्रयोविंशत्करान्तकम् ।द्वारप्रासादविस्तारं पंचधा परिकीर्तितम् ॥२२॥पंचत्रिंशत्करारभ्य चत्वारिंशत्त्रयावधि ।पंचधा द्वारहर्म्यस्य विस्तारं परिकीर्तितम् ॥२३॥स पंच चत्वारिंशत्तु पंचाशत्त्रिकरान्तकम् ।द्विद्विहस्तविवृद्ध्या तु पंचधा गोपुरस्ततम् ॥२४॥द्वारायतनव्यासास्ते नतस्तदायतं शृणु ।स पादं सार्धपादोन द्विगुणं द्विगुणं तु वा ॥२५॥स त्रिभागैकभागं तु द्विभागस्त्वायतं भवेत् ।शोभादि गोपुरान्तानां एवं ह्येवं प्रगृह्यताम् ॥२६॥तेषु किंचिद्विशेषोऽस्ति तद्विशेषं शृणुष्वपि ।हस्तमानेन विस्तारं गृहीते तु विशेषतः ॥२७॥आयामं पूर्ववत्कल्प्य अनेकेष्विष्टमायतम् ।हस्तच्छेदं प्रवृद्ध्या वा हन्या वा पूर्वमाचरेत् ॥२८॥आयादि शोभनोपेतं हस्तमानेन कल्पितम् ।तौ विना हर्म्यमूलस्य वशं संकल्पितस्य तु ॥२९॥व्यासायामं समाख्यातं तेषां तुंगमथोच्यते ।विस्तारं सप्तधा भज्य शोभोच्चं रुद्रभागया ॥३०॥तारादर्धाधिकं तुंगं द्वारशालोच्छ्रयं भवेत् ।सप्ताभागेन रुद्रांशं भान्वंशं वा तृतीयके ॥३१॥विस्तारे तु नवांशे तु मन्वंशोच्चं चतुर्थके ।विस्तारद्विगुणोत्सेधं महागोपुरमिष्यते ॥३२॥होमादि स्थूपि पर्यन्तं प्रोक्तोच्चं तु प्रगृह्यताम् ।विस्तारायामयोर्मानं सूत्रं पाद्बाह्यमुच्यते ॥३३॥तद्बाह्ये कूटकोष्ठादि नीव्रं प्रासादवद्भवेत् ।विस्तारस्य त्रिभागैकं चतुर्भागैकमेव वा ॥३४॥पंचभागे द्विभागं वा सालाद्बाह्ये तु निर्गतिः ।सार्धहस्तं समारभ्य षट्षडंगुलवर्धनात् ॥३५॥पंचहस्तावधिर्यावत् क्षुद्राणां द्वारविस्तृतम् ।अल्पानां च त्रिधा प्रोक्तं द्व्यन्तराणां ततः शृणु ॥३६॥त्रिहस्तं तु समारभ्य यावत्सप्तकरावधि ।षडंगुलविवृद्ध्या तु द्वारव्यासं प्रकीर्तितम् ॥३७॥चतुर्हस्तं समारभ्य यावन्नवकरान्तकम् ।रसमत्रविवृद्ध्या तु महते द्वारविस्तृतम् ॥३८॥तारे पंचांश सप्तांशं सप्तांशे तु दशायतम् ।अध्यर्धं पादहीनं तु द्विगुणं द्विगुणोन्नतम् ॥३९॥सार्धपादं तु पादं वा द्वारोत्सेधं तु सप्तधा ।लिंगस्य मध्यमं द्वारं मध्यमं तु वदाम्यहम् ॥४०॥शिवाग्निभूतधा कृत्वा नवांगुलं विशेषतः ।लिंगमध्यात्तु वामे वा द्वारमध्यं प्रकल्पयेत् ॥४१॥शोभादि गोपुरान्तानां द्वारमध्यं क्रमाद्विदुः ।तन्मध्याद्गोपुरायामं उभयोः पार्श्वयोस्समम् ॥४२॥द्वरयोगं कवाटं च द्वारलक्षणवत् कुरु ।गुणभक्तिसमारभ्य यावदेकोन विंशतिः ॥४३॥ताअत्पंक्तिस्तु विस्तारे एवमेवं प्रकल्पयेत् ।यावद्द्विपंक्तयोर्व्यासे तावदेवायपंक्तयः ॥४४॥विस्तारे पंचभागे तु गुणांशे गर्भगेहकम् ।शेषं कुड्यविशालं स्या तारार्धं वाग्रहस्तकम् ॥४५॥शेषं भक्ति विशालं स्यादेकभूमौ द्विजोत्तमौ ।परितः कुड्यविस्तारं अनेनैव प्रकल्पयेत् ॥४६॥एवं एकतलं ख्यातं द्वितलं तु तथोच्यते ।विस्तारे पंचभागं स्यात् आयामेऽपि तथैव च ॥४७॥द्व्यंशांशं गर्भगेहं तु सार्धांशं कुड्यविस्तृतम् ।एकांशं कर्णकूटं स्यात् गुणांशं कोष्ठदीर्घकम् ॥४८॥हारान्तरं शिवांशं स्यात् कल्पयेदेवमेव वा ।विस्तारं सप्तभागं स्यात् नवभागं तदायतम् ॥४९॥युगांशं गर्भगेहं तु सार्धांशं कुड्यविस्तृतम् ।कर्णकूटं तु तारेंशं शालादीर्घं गुणांशकम् ॥५०॥हारान्तरं तदंशेन विस्तारे चैवमेव वा ।शालादीर्घं तु पंचांशं आयामं तु प्रकल्पयेत् ॥५१॥हारान्तरं च कूटं च एकैकांशेन कल्पयेत् ।कूटान्तरसमायामं शेषं हारान्वितं भवेत् ॥५२॥हारान्तरार्धमानेन भद्रं वा भद्रपंजरम् ।द्वितलं ह्येवमाख्यातं त्रितलं त्वधुनोच्यते ॥५३॥नवांशं विभजेद् व्यासं आयामं च तथा भवेत् ।गर्भगेहं गुणांशं स्याद् अंशेन गृहपिण्डिका ॥५४॥आलिन्दं चैकभागेन हारव्यासं शिवांशकम् ।कर्णकूटं शिवांशेन शालादीर्घं गुणांशकम् ॥५५॥एकांशं पंजरव्यासं अर्धांशं हारयोन्तरम् ।कल्प्येवमादिभूमं तु द्वितलं पूर्ववद्विदुः ॥५६॥अथवान्यप्रकारेण त्रितलं शृणु सुव्रत ! ।द्वारशोभं तु विस्तारं रुद्रांशं तु तदायतम् ॥५७॥गुणांशं गर्भगेहं तु गृहपिण्ड्यंशमुच्यते ।अलिन्दं तत्समं ख्यातं हारं भागेन कल्पयेत् ॥५८॥अलिन्दांशं तु कुड्यं वा गर्भगेहान्वितं तु वा ।आयामे पंचभागेन कोष्ठदीर्घं प्रकल्पयेत् ॥५९॥शेषं पूर्ववदुद्दिष्टं द्वितीयं द्वितलोक्तवत् ।त्रितलं ह्येवमाख्यातं चतुर्भूमिमिदं परम् ॥६०॥विस्तारे तु दशांशे तु तद्वदायामपंक्तयः ।गर्भगेहं त्रिभागादि सार्धांशं कुड्यविस्तृतम् ॥६१॥अलिन्दं शिवभागेन हारव्यासं तथैव च ।पंजरं कर्णकूटं च त्वेकैकांशेन कल्पयेत् ॥६२॥कूटतारसमायामं शेषं हारान्तरान्वितम् ।शालायामे तु वेदांशं अर्धांशं हारयोन्तरम् ॥६३॥आदिभूम्येवमाख्यातं ऊर्ध्वं पूर्ववदाचरेत् ।विस्तारे तु दशांशे तु भान्वंशं तु तदायतम् ॥६४॥पूर्वे परे च शालायां पंचभागेन कल्पयेत् ।शेषं पूर्ववदुद्दिष्टं चतुभूमिमिदं परम् ॥६५॥तारमेकादशांशं तु आयामं च तथैव च ।पूर्वे परे च पार्श्वे च शाला पंचांशमायतम् ॥६६॥एकांशं पंजरव्यासं कूटव्यासं शिवांशकम् ।हारान्तरं तथांशं च कल्प्येवं प्रथमं तलम् ॥६७॥तस्योर्ध्वभूमयस्सर्वाः पूर्ववत्परिकल्पयेत् ।तारमेकादशांशे तु तद्दीर्घं तु त्रयोदश ॥६८॥गुणांशं गर्भगेहं तु द्विभागं भित्तिविस्तृतम् ।अलिन्दं चैकभागेन हाराभागेन कल्पयेत् ॥६९॥कूटकोष्ठादि सर्वांगं प्रागिवैव प्रकल्पेय्त् ।पंचभूमेस्समाख्यातं षट्तलं त्वधुना शृणु ॥७०॥तारे तु द्वादशांशे तु मंचंशे तु तदायतम् ।युगांशं गर्भगेहं तु द्विभागं भक्ति विस्तृतम् ॥७१॥अलिन्दं भागया कल्प्य हारा भागेन कल्पयेत् ।पार्श्वशाला तु वेदांशं षडंशं मुखपृष्ठयोः ॥७२॥हारान्तरं शिवांशं स्यात् व्योमं पंजरकूटयोः ।शेषं पूर्ववदुद्दिष्टं रसभूम्यैवमेव तु ॥७३॥त्रयोदशांशे विष्कंभे आयामे च तथैव हि ।भूतांशं गर्भगेहं तु गृहपिण्डी द्विभागया ॥७४॥अलिन्दं तु शिवांशेन खण्डहर्म्यं शिवांशकम् ।कोष्ठायामं तु भूतांशं सर्वत्रांशेन पंजरम् ॥७५॥कूटमंशेन कर्तव्यं हारान्तरं तथैव हि ।अथवा त्रयोदशंतारं आयामं तु त्रिपंचकम् ॥७६॥मुखे मुखे महाशाला सप्तांशेन प्रकल्पयेत् ।पंचभागेन कर्तव्यं कर्तव्यं पार्श्वदीर्घकम् ॥७७॥शेषं पूर्ववदुद्दिष्टं सर्वालंकारसंयुतम् ।सप्तभूमिस्समाख्याता तन्महागोपुरं भवेत् ॥७८॥सालिन्दं वा विनालिन्दं कल्पयेत्कल्पवित्तमः ।विनालिन्दं कृतं चेत्तु कुड्यगर्भगृहं तु वा ॥७९॥अलिन्दांशं तु संयोज्य कारयेत्तु द्विजोत्तम ! ।आदिभूम्यैवमाख्यातं ऊर्ध्वं षट्तलवद्भवेत् ॥८०॥सप्तभूमिं समाख्यातं तेषां गण्यमथोच्यते ।पादाधिष्ठानयोस्तुंगं मूलप्रासादमूलकम् ॥८१॥चतुःपंचषडंशं वा सप्ताष्ट नव एव वा ।दशैकादशभागं वा सप्ताष्ट नव एव वा ॥८२॥दशैकादशभागं वा कृत्वैकांशोपपीठकम् ।शेषं चानलभागं तु कृत्वैकांशं धरातलम् ॥८३॥द्विभागं चरणोत्तुंगं कल्पयेत्कल्पवित्तमः ।उपपीठविधानोक्त तुंगं चैवोपपीठकम् ॥८४॥अथवा हस्तमानेन द्वारमानं यथोचितम् ।तदुच्चं तु चतुष्पंच षट्सप्ताष्टौ तु वा भवेत् ॥८५॥नवरुद्रविभागं वा कृत्वैकांशोपपीठकम् ।उपपीठोन्नतं ख्यातं शेषं तु गुणभाजिते ॥८६॥अधिष्ठानं तदेकांशं द्विभागं चरणायतम् ।होमादुत्तरसीमान्तं द्वारमानं विधीयते ॥८७॥पादबन्धमधिष्ठानं द्वारशोभादिना कुरु ।स्थूप्यन्तमुत्तराद्यं च रसभागं विभाजिते ॥८८॥प्रस्तरस्तु सपादांशं शश्यंशं गलमानकम् ।पादोन गुणभागं तु शिरश्शेषं शिखोदयम् ॥८९॥एवमेकतलं प्रोक्तं द्वितलं शृणु सुव्रत ! ।उत्तरादि शिखान्तं च नवभागं विभाजिते ॥९०॥प्रस्तरोच्चं स पादांशं द्विभागं चरणोदयम् ।मंचमानं शिवांशं स्यात् तत्समं कन्धरोदयम् ॥९१॥शिखरं सार्धपक्षांशं सपादांशं शिखोदयम् ।द्वितलं ह्येवमाख्यातं त्रितलं त्वधुना शृणु ॥९२॥उत्तरादि शिखान्तं च द्वादशांशं विभाजिते ।सपादं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रिणोदयम् ॥९३॥प्रस्तरं शशि भागेन द्विभागं चरणोदयम् ।मंचमानं शिवांशं स्याद् अंशं ग्रीवोदयं भवेत् ॥९४॥सपादाक्षांशेन शिखरं एकांशं स्थूपि मानकम् ।त्रितलं ह्येवमाख्यातं चतुर्भूमि मथोच्यते ॥९५॥उत्तरादि शिखान्तं च द्विनवांशं विभाजिते ।पादोन द्व्यंशमंचोच्चं गुणांशं चरणोदयम् ॥९६॥तदर्धं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रिणोदयम् ।तदर्धं प्रस्तरोत्सेधं द्विभागं चरणोदयम् ॥९७॥तदर्धं मंचमानं तु तत्समं गलमुच्यते ।गुणांशं शिखरोत्सेधं शिखामानं शिवांशकम् ॥९८॥चतुर्हूमिं समाख्यातं पंचभूमि मतः शृणु ।शिखान्तमुत्तराद्यं च त्रयोविंशति भाजिते ॥९९॥द्विभागं प्रस्तरोत्सेधं सार्धाग्न्यंशांघ्रि तुंगकम् ।तदर्धं मंचमानं स्यात् पादायामं गुणांशकम् ॥१००॥तस्यार्धं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रि तुंगकम् ।तदर्धं मंचमानं तु द्विभागं चरणोदयम् ॥१०१॥प्रस्तरोच्चं शिवांशेन कन्धरोच्चं तथैव च ।सार्धद्व्यंशं शिरोत्तुंगं एकादशं स्थूपि मानकम् ॥१०२॥पंचभूमिं समाख्यातं षट्तलं चाधुना शृणु ।उत्तरादि शिखान्तं च एकोन त्रिंशदंशके ॥१०३॥द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंसकम् ।स त्रिपादशिवांशं तु प्रस्तरोदयमीरितम् ॥१०४॥सार्धाग्न्यंशांघ्रि तुंगं तु तदर्धं प्रस्तरोदयम् ।सार्धद्व्यंशांघ्रि तुंगं तु तस्यार्धं प्रस्तरोदयम् ॥१०५॥द्विभागं चरणोत्सेधं तस्यार्धं मंचमानकम् ।शिवांशं गलमानं तु सार्धद्व्यंशं शिरोदयम् ॥१०६॥स पादांशं शिखामानं सप्तभौममथोच्यते ।उत्तरादि शिखान्तं च मानं षट्त्रिंशदंशके ॥१०७॥स पादिभागमंचोच्चं सार्धवेदांशमंघ्रिकम् ।द्विभागं प्रस्तरोच्चं तु वेदांशं चरणोदयम् ॥१०८॥पादोनं द्विभागमंचं स्यात् सार्धाग्न्यंशांघ्रि तुंगकम् ।पादोन द्व्यंशमंचोच्चं गुणांशं पादमानकम् ॥१०९॥सार्धांशं प्रस्तरोत्सेधं सार्धाक्षांशांघ्रि तुंगकम् ।तदर्धं मंचमानं तु द्विभागं तलिपायतम् ॥११०॥प्रस्तरं शशिभागेन शिवांशं गलमानकम् ।पादहीनाग्निभागं तु शिरश्शेषं शिखोदयम् ॥१११॥एवं सप्ततलं ख्यातं अलंकारमथोच्यते ।मण्टपसा यथा द्वारशालां कुर्याद् द्विजोत्तम ॥११२॥दण्डं वा द्वारशाला स्याद् प्रासादं सदनाकृतिः ।मालिकाकृति कर्तव्यं द्वारहर्म्यं द्विजोत्तम ! ॥११३॥शालाकारं प्रकर्तव्यं द्वारगोपुरमुच्यते ।सर्वे वै गोपुराभं वा कल्पयेत्कल्पवित्तमः ॥११४॥तेष्वादौ द्वारशोभं तु वक्ष्येऽहं द्विजसत्तम ! ।एकद्वित्रितलं वापि सर्वालंकारसंयुतम् ॥११५॥मुखे मुखे महानासी पार्श्वयोर्वंशनासिका ।वस्वकृत्याल्पनासाढ्यं प्रागुक्तविधिना द्विज ! ॥११६॥युग्मस्थूपि समायुक्तं लूपारोहशिरस्तु वा ।मण्टपाकृतिकं वापि श्रीकान्तं तदुदाहृतम् ॥११७॥शालाकारशिरस्तस्मिन् षण्णासीमुखपृष्ठयोः ।पाश्वयोर्वंशनासाढ्यं अयुग्मस्थूपसमन्वितम् ॥११८॥अन्तः पादोत्तरैर्युक्तं इतिकान्तमिदं परम् ।मुखे मुखे च षण्णासी पार्श्वयोर्वंशनासिका ॥११९॥सभाकारं शिरस्कन्धं कान्तं विजयमेव हि ।एवं त्रिविधनीत्या तु द्वारशोभाः प्रकल्पयेत् ॥१२०॥मुखे मुखे महानासी पार्श्वयोश्च तथैव च ।अर्धकोटि चतस्राढ्यं पंजरं च तदाकृतिः ॥१२१॥शालाकारं शिरोपेतं अयुग्मं स्थूपिसंचितम् ।विजयं विशालमेतद्धि विशालायाममुच्यते ॥१२२॥अर्धकोटिसभ्द्रागं भद्रनासी मुखे मुखे ।पार्श्वयोर्वंशनासाढ्यं शिरोभद्रसमन्वितम् ॥१२३॥पादं प्रत्यल्पनासाढ्यं सर्वावयवसंयुतम् ।विप्रतीकान्तलंकारं वक्ष्यते तु विशेषतः ॥१२४॥पूर्ववद्भूमिभागं च चतुर्दिग्भद्रसंयुतम् ।महानासी चतस्राढ्यं शिरोभद्रसमन्वितम् ॥१२५॥अन्तः पादोत्तरैर्युक्तं अयुग्मस्थूपिकान्वितम् ।त्रिविधा द्वारशालास्याद् द्वारप्रासादमुच्यते ॥१२६॥अन्तः पादोत्तरैर्युक्तं मन्धराद्यैरलंकृतम् ।द्वारोर्ध्वे रंगसंयुक्तं द्वारं तद्भद्रसंयुतम् ॥१२७॥पूर्वे परे महानासी पार्श्वयोर्वंशनासिका ।स्वस्तिका कृतिनासाढ्यं चतुष्पंजरसंयुतम् ॥१२८॥कूटकोष्ठदिसर्वांगं प्रागुक्त विधिना कुरु ।श्रीकेशालंकृतं वक्ष्ये भूमिभागादि पूर्ववत् ॥१२९॥पूर्वे परे च शालायां सभद्रं भद्रनासिका ।नानामसूरकस्तम्भं वेदिजालकतोरणैः ॥१३०॥अन्तः पादोत्तरैर्युक्तं मध्यावरणसंयुतम् ।पार्श्वयोर्दण्डवक्त्राढ्यं क्षुद्रनासीविभूषितम् ॥१३१॥शालाकारं शिरोपेतं जालकादिविभूषितम् ।केशविशालालंकारं भूमिभागादि पूर्ववत् ॥१३२॥पार्श्वयोश्च मुखे पृष्ठे महानासी चतुष्टयम् ।अयुग्मस्थूपि संयुक्तं द्वारप्रासादकं त्रयम् ॥१३३॥वक्ष्येऽहं द्वारहर्म्यस्य लक्षणं द्विजसत्तम ! ।प्रागुक्तवत्प्रकर्तव्यं भूमिभागे द्विजोत्तम ! ॥१३४॥सभाशिखरसंयुक्तं स्वस्तिकाकृतिनासिकाम् ।शिखरं चाष्टनासाढ्यं अयुग्मस्थूपिसंयुतम् ॥१३५॥स्वस्तिकं चेति विख्यातं दिशा शान्तिकमुच्यते ।मुखे मुखे च भद्रांगं शिरश्चायतमण्डनम् ॥१३६॥चतुर्दिक्षु महानासी विदिक्षु क्षुद्रनासिका ।अन्तः पादोत्तरैर्युक्तं अयुग्मस्थूपिकान्वितम् ॥१३७॥कूटादिभूमिभागं च प्रागिवैव प्रकल्पयेत् ।पुरे परे महानासी सतारे द्व्यंशनीव्रकम् ॥१३८॥शालाकार्या शिरः कार्यं अयुग्मस्थूपिकान्वितम् ।शालाक्रान्तं संयुक्तं नानालंकारशोभितम् ॥१३९॥नानाधिष्ठान चरणैः युक्तं तत्सोपपीठकम् ।द्वारहर्म्यं त्रिधा प्रोक्तं शृणु गोपुरलक्षणम् ॥१४०॥चतुर्दिग्भद्रसंयुक्तं अन्तः पादोत्तरैर्युतम् ।शालाकारं शिरोयुक्तं भद्रनासी मुखे मुखे ॥१४१॥पार्श्वयोश्च महानासी पार्श्वयोर्द्विर्द्विनासिकाः ।मातृखण्डमिदं ख्यातं श्रीविशालमथ शृणु ॥१४२॥पूर्ववद्भूमिभागं च मूलकन्तु करीकृतम् ।शीर्षं च तसाकारं सभाकारमथापि वा ॥१४३॥नानामसूरकस्तम्भ वेदिकाभिरलंकृतम् ।चतुर्दिशि महानासी विदिक्षु क्षुद्रनासिकाः ॥१४४॥चतुर्मुखं ततो वक्ष्ये भूमिभागादि पूर्ववत् ।दिशिभद्रसमायुक्तं मध्यवारणसंयुतम् ॥१४५॥नानामसूरकस्तम्भं वेदिकादिरलंकृतम् ।सभाकारशिरोवापि शालाकारमथापि वा ॥१४६॥मुखे मुखे महानासी पाश्वयोर्द्विर्द्विनासिकाः ।अन्तः पादोत्तरैर्युक्तं प्रस्तरे तु तलं प्रति ॥१४७॥अन्तस्सोपानसंयुक्तं त्रिविधं द्वारगोपुरम् ।अलीन्दंशं तु कुड्यं वा वर्षस्थलमथापि वा ॥१४८॥तुलाद्यैः प्रतरावधि अलीन्दांगं यथोचितम् ।शालाकारं सभागं वा मालिका कृतिरेव वा ॥१४९॥द्वयेष्विष्टयकद्वारे कृततत्रैव प्रकल्पयेत् ।बाह्ये बाह्येंघ्रियस्थाप्य मध्ये मध्ये युतं तु वा ॥१५०॥गृहपिण्डिं गर्भगेहं च प्रागिवैव प्रकल्पयेत् ।अलीन्दं हारयोर्माने विवृत्तांघ्रिकमेव वा ॥१५१॥प्रस्तरोद्दिष्टभूम्यन्तः सोपानादिसमन्वितम् ।कूटकोष्ठाद्यलंकारं ऊर्ध्वस्थवत् प्रकल्पयेत् ॥१५२॥भूमिभागमलंकारं गलान्तं परिकल्पयेत् ।शीर्षदण्डकशालाभं शालाकारं तदुच्यते ॥१५३॥लुपारो व्योक्तमांगं यत् सभाकारं समुच्यते ।प्रस्तरं प्रतिसंछाद्यं मण्ड्यं यश्वीष्टरं विना ॥१५४॥मालिका कृतिकं ख्यातं मण्टपे तु परस्परम् ।गोपुरं ह्येवमाख्यातं परिवारमथ शृणु ॥१५५॥इत्यंशुमान्काश्यपे गोपुरलक्षणपटलः (चतुश्चत्वारिंशः) ॥४४॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP