संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
जालकलक्षणपटलः

अंशुमत्काश्यपागमः - जालकलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण शृणुजालाकलक्षणम् ।
पादवर्गे गले चैव जालकस्थानमुच्यते ॥१॥

प्रासादेषु महाशालास्वन्तराले च मध्यमे ।
वातायनं प्रकर्तव्यं अनेन विधिना बुधः ॥२॥

योजयेद्वेदिकोर्ध्वे तु जालकं तु द्विजोत्तम ! ।
वेदिकाजालकार्धं तु छेद्यं सर्वविनाशनम् ॥३॥

तस्माद्यत्नेन वेदिं तु जालकार्धं न छेदयेत् ।
द्विदण्डं कन्यसं व्यासं त्रिदण्डं मध्यमं भवेत् ॥४॥

चतुर्दण्डविशालं तु उत्तमं परिकीर्तितम् ।
विस्तारसदृशोत्सेधाद् एकदण्ड विवर्धनात् ॥५॥

विस्तारद्विगुणं यावत् तावद्वैजालकोन्नतम् ।
एषु तुंगविशालेषु यदिष्टं तत्परिग्रहेत् ॥६॥

स्तम्भव्यासार्धमानं तु घनव्यासांघ्रिकंपयोः ।
विस्तारार्ध घनं व्यासं त्रिचतुर्थांशमेव वा ॥७॥

मध्ये स्तंभं च रंघ्रं च वर्ज्या जालकमाचरेत् ।
युग्मपादसमायुक्तं युग्मकं पेनमुच्यते ॥८॥

गोनेत्रं हस्तिनेत्रं च नन्द्यावर्तमृजुंक्रियाम् ।
पुष्पघण्डं रसकण्ठं च जालकं षड्विधं भवेत् ॥९॥

दीर्घाश्रं कण्ठगच्छिद्रं गोनेत्रमिति संज्ञितम् ।
युगाश्रं कण्ठगच्छिद्रं हस्तिनेत्रमुदाहृतम् ॥१०॥

पंचसूत्रं तु यच्छिद्रं प्रदक्षिणवशात्कृतम् ।
नन्द्यावर्तस्य पुष्पाभं नन्द्यावर्तमुदाहृतम् ॥११॥

आर्जवं संभकं वौद्वौ जालकं तदृजुक्रियम् ।
पुष्पखण्डं च कर्णं च नन्द्यावर्तमिवाकृतिः ॥१२॥

स्तम्भयोगं कवाटं च भित्तिमध्याद्बहिः स्थितम् ।
युग्मायुग्मकवाटं वा घाटनाद्घाटनक्षमम् ॥१३॥

जालकं तु सभादीनां मध्यमानेन कल्पयेत् ।
लोहैद्रुमोत्पलैर्द्रव्यैः वेष्टकाभिस्तु जालकम् ॥१४॥

त्रयोविधं तु यद्द्रव्यं तेन तत्रैव योजयेत् ।
जालकं ह्येवमाख्यातं ततस्तोरणलक्षणम् ॥१५॥

इत्यंशुमान्काश्यपे जालकलक्षणपटलः (द्वादश) ॥१२॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP