संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| चतुर्भूमिविधानपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - चतुर्भूमिविधानपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत चतुर्भूमिविधानपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण चतुर्भूमेस्तु लक्षणम् ।विस्तरोत्सेधमानं तु प्रोक्तं प्रासादमानके ॥१॥रव्यंशं मानसूत्रान्तं कृते गर्भगृहं रसम् ।गृहपिण्ड्यालिंदहारादि प्रत्येकं चैकभागया ॥२॥विन्याससूत्रयोरन्तर वसुधा विभजेत्समम् ।कर्णकूटं ततांशं तु कोष्ठं तद् द्विगुणायतम् ॥३॥पंजरव्यासमंशेन शेषं हारान्तरं भवेत् ।पुनरप्यूर्ध्व भूमिं च वसुभागविभाजिते ॥४॥कर्णकूटं च कोष्ठं च पंजरं पूर्ववद्भवेत् ।तदूर्ध्वे अष्टभागे तु शिवांशं कूटविस्तृतम् ॥५॥कोष्ठायामाश्वनीभागं अर्धांशं पंजरस्य तु ।शेषं हारान्तरं प्रोक्तं हीनाधिक्यं तु नाश्रयेत् ॥६॥ऊर्ध्वभूम्यग्निभागे तु व्योमांशं मध्यभद्रकम् ।दण्डं वाध्यर्ध दण्डं वा द्विदण्डं वाथ निर्गतम् ॥७॥प्रासादोच्चं तु विभजेत् संग्रहं त्रिंशदंशकम् ।सार्धाष्टांशं अधिष्ठानं भूतांशं चरणोदयम् ॥८॥अधिष्ठानसमं मंचं तलिपं पादोन पंचकम् ।सपक्षांशं च मंचोच्चं कल्पयेद्द्विजसत्तम ! ॥९॥सार्धवेदांश पादोच्चं पक्षांशं प्रस्तरोदयम् ।सपादवेदभागं तु चरणोदयमिष्यते ॥१०॥पादोन(प)क्षांशं चोच्चं शिवांशं वेदिकोदयम् ।कर्णोच्चं तु द्विभागं स्यात् सार्धवेदांश शीर्षकम् ॥११॥स्तूप्युच्चं तु द्विभागं स्यात् शान्तिकं भवनं भवेत् ।चत्वारिंशद् द्वयाधिक्य भागं कृत्वा गृहोन्नतम् ॥१२॥गुणांशं तलमानं तु रसांशं चरणोदयम् ।प्रस्तरं चाग्निभागेन भूतांशं तलिपायतम् ॥१३॥पादोनाग्न्यंशमंचं स्यात् भूतांशं चरणोदयम् ।सपादद्विभागमंचोच्चं सार्धवेदांघ्रिणोदयम् ॥१४॥द्विभागं मंचमानं तु शिवांशं वेदिकोदयम् ।अध्यर्धांशं गलोत्सेधं युगांशं शिखरोदयम् ॥१५॥द्विभागं तु शिखामानं पौष्टिकं तदुदाहृतम् ।पंचाशद्विभजेद्धामतुंगं स्तूप्यवसानकम् ॥१६॥सार्धत्रिंशमधिष्ठानं सप्तांशं चरणोदयम् ।तदर्धं मंचमानं तु षडंशं चरणोदयम् ॥१७॥गुणांशं मंचमानं तु ऊर्ध्वपादं तु तद्द्वयम् ।त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपंचकम् ॥१८॥प्रस्तरोच्चं त्रिभागं स्यात् अंशेन वेदिकोदयम् ।द्विभागं गलमानं तु शरांशं शिखरोदयम् ॥१९॥सार्धांशं स्थूपिमानं तु जयदं तदुदाहृतम् ।उपानादि स्थूपिपर्यन्तं पंचाशद्विभजेद्बुधः ॥२०॥तलोच्चं सार्धमग्न्यंशं सप्तांशं चरणोदयम् ।तलोच्च सदृशं मंचतलीपं सार्धषड्भवेत् ॥२१॥पादाधिकत्रिभागांशं मंचमानमुदाहृतम् ।पादोच्चं रसभागेन गुणांशं प्रस्तरोदयम् ॥२२॥सार्धपंचांशमंघ्र्युच्चं मंचं सार्ध द्विभागया ।एकांशं वेदिकामानं द्विभागं स्याद्गलोदयम् ॥२३॥पंचांशं शिखरोत्तुंगं सपादं शिखरोदयम् ।अद्भुतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः ॥२४॥आरामोच्चं तु पंचाशत् भागं कृत्वा विशेषतः ।सार्धाग्न्यंशमधिष्ठानं धाल्वंशं चरणोदयम् ॥२५॥प्रस्तरोच्चं त्रिभागेन चरणं सार्धषड्भवेत् ।सपादाग्न्यंश मंचं स्यात् तलिपं सार्धषट्ककम् ॥२६॥त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपंचकम् ।पादोनाग्न्यंशमंचोच्चं शिवांशं वेदिकोदयम् ॥२७॥द्विभागं गलमानं तु पादांशं शिखरोदयम् ।व्योमांशं तु शिखामानं विमानं सार्वदेशिकम् ॥२८॥होमादिस्तूपि वर्गान्तं वेदाश्रं परिकल्पयेत् ।भानुकूटं तथा कोष्ठं भानुद्विगुणपंजरम् ॥२९॥शिखरे तु चतुर्दिक्षु भद्रनासी चतुष्टयम् ।पादं प्रत्यल्पनास्याढ्यं शिखरोल्पाष्टनासिकाः ॥३०॥कूटकोष्ठादि सर्वांगं नागराद्युचितं कुरु ।एकाकारतलस्तंभं सुभद्रमिति विद्यते ॥३१॥तदेव शिखरेष्टाल्पनासिकारहितं भवेत् ।तद्ब्राह्म्यमिति विख्यातं सर्वदेव प्रियावहम् ॥३२॥तदेवं शिखरं कण्ठं वृत्तं श्रीकान्तमुच्यते ।वस्वश्रं शीर्षकं कण्ठं श्रीमण्डनमुदाहृतम् ॥३३॥तदेव शिखरे चाष्टौ महानासी समन्वितम् ।श्रीवन्तमिति ख्यातं शालाभद्रयुतं तु वा ॥३४॥विभद्रं वाथ कर्तव्यं सर्वेषां सदनामपि ।श्रीकान्तं शिखरेल्पाष्ट नास्याढ्यं श्रीविशालकम् ॥३५॥नानांघ्रितलसंयुक्तं तत्तन्नाम्ना प्रकीर्तिताः ।विस्ताराध्यर्धमायामं सभाकारं तु शीर्षकम् ॥३६॥संपदालयमित्युक्तं सर्वदेवार्हकं परम् ।मानसूत्रान्तरं नन्दभागं कृत्वा विशेषतः ॥३७॥गर्भगेहं गुणांशं स्याद् भागेन गृहपिण्डिका ।अलिन्दमंशेन कर्तव्यं हारभागेन कल्पयेत् ॥३८॥ततो विन्याससूत्रान्तं सदनं नवभाजिते ।एकांशं कूटविस्तारं गुणांशं कोष्ठदीर्घकम् ॥३९॥एकांशं पंजरव्यासं सार्धांशं हारयोन्तरम् ।शालामध्ये महानासी नीव्रं तदर्धभागया ॥४०॥ऊर्ध्वभूम्यष्टभागे तु कूटमंशेन कल्पयेत् ।शाला तद्द्विगुणायामं शिवांशं पंजरं भवेत् ॥४१॥शेषं भारान्तरं चोर्ध्वे भूतांशं रसभाजिते ।कूटमेकेन कर्तव्यं कोष्ठं तद्द्विगुणायतम् ॥४२॥अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।ऊर्ध्वे भूमिस्तदर्धं तु मध्ये दण्डेन निर्गतिः ॥४३॥चतुरष्टाश्र वृत्ताभं कूटानां शीर्षकं क्रमात् ।ककरीदण्डवत्कोष्ठं वस्वश्रं हर्म्यशीर्षकम् ॥४४॥महानास्यष्टकोपेतं शीर्षकं परिकल्पयेत् ।रविकोष्ठं च कूटं च रविद्विगुणपंजरम् ॥४५॥प्रागिवोच्चांशमानं तु भद्रकोष्ठमिदं परम् ।गेहव्यासं तु धर्मांशं कृत्वा नालीग्रहं चतुः ॥४६॥ग्रहपिंड्यंशमानेन अलिन्दं चैकभागया ।हारव्यासं शिवांशेन परितः परिकल्पयेत् ॥४७॥विन्याससूत्रयोरन्तर्व्यासाद्धर्मद्विभाजिते ।कर्णकूटं तदेकांशं कोष्ठायामं तु तद्वयम् ॥४८॥अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।चतुष्कूटाष्टकोष्ठं च पंजरं भानुसंख्यया ॥४९॥हारान्तरं चतुर्विंशत् कल्पयेत्प्रथमे तले ।अलिन्दं जलपादाढ्यात् प्रस्तरान्तघनी कृतम् ॥५०॥ऊर्ध्वं तु वसुभागे तु शिवांशं कूटविस्तृतम् ।कोष्ठं तद्द्विगुणायामं पंजरं चांशमानकम् ॥५१॥शेषं हारान्तरं ख्यातं चोर्ध्वे वसुभाजिते ।कूटं भागेन कर्तव्यं कोष्ठं तद्द्विगुणायतम् ॥५२॥शेषं हारान्तरं ख्यातं क्षुद्रपंजरसंयुतम् ।ऊर्ध्वभूमं त्रिभागैकं मध्ये दण्डेन निर्गमम् ॥५३॥चतुरश्रमधिष्ठानं अष्टाश्रं मस्तकं गलम् ।शिखरेऽष्टमहानासी पादं प्रत्यल्पनासिका ॥५४॥कर्णकूटं तु भानुः स्यात् कोष्ठं षोडशभिर्युतम् ।नतं कूटोन्नतं कोष्ठं अन्तरप्रस्तरान्वितम् ॥५५॥क्षुद्रनीडाष्टविंशः स्यात् नानामसूरकांघ्रि च ।नानालंकारसंयुक्तं नाना जालक तोरणैः ॥५६॥नानाचित्रं विचित्रं तु तुंभभागं तु पूर्ववत् ।जयावहमिदं ख्यातं सर्वदेवार्हकं परम् ॥५७॥तदेव वर्तुलं कर्णं शीर्षकं सार्वकामिकम् ।तदेवान्तरमंचं स्यात् कूटकोष्ठं च पंजरम् ॥५८॥कूटानां शीर्षकं स्थूपी कुम्भं कर्णं च वर्तुलम् ।एवं स्यान्मूलभूमं तु वस्वश्रं मध्यमे तले ॥५९॥युगाश्रं चोर्ध्वभूमौ तु कर्णकूटं प्रकल्पयेत् ।सुखावहमिदं ख्यातं सर्वदेवार्हकं परम् ॥६०॥तदेव कूटकोष्ठं च अन्तरप्रस्तरं विना ।सह्योश्च समसूत्रं तु तदव्ययगृहं भवेत् ॥६१॥तदेव शिखरं कर्णं युगाश्रं धातृकान्तकम् ।इत्यंशुमान्काश्यपे चतुर्भूमिविधानपटलः (एकोनत्रिंशः) ॥२९॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP