संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| त्रिपुरान्तकमूर्तिलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - त्रिपुरान्तकमूर्तिलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत त्रिपुरान्तकमूर्तिलक्षणपटलः Translation - भाषांतर त्रिपुरान्तकमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।त्रिचतुष्पंचमात्रं स्यात् नतमानं यथाक्रमम् ॥१॥आभंगं समभंगं चाप्यति भंगमिति त्रिधा ।प्रतिमोच्चं नतं तुंगं भंगमानं हि कल्पयेत् ॥२॥पादांगुष्ठ द्वयोश्चैव त्वन्तरं षोडशांगुलम् ।आभंगं तद्विजानीयात् अष्टादशांगुलं समम् ॥३॥विंशत्यंगुलमाख्यातं अतिभंगमिति त्रिधा ।तत्त्रिभागैकभागं तु पार्ष्ण्योश्च त्वन्तरं भवेत् ॥४॥उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ।हनोर्वामे समालंब्य दक्षिणस्तन वामके ॥५॥नाभेर्दक्षिणपार्श्वे तु वामोरुः सव्यपार्श्वके ।दक्षिणांघ्रौ तु पार्ष्ण्योस्तु वामपार्श्वे तु लम्बयेत् ॥६॥आभंगसूत्रमाख्यातं समभंगमथ शृणु ।ललाटं मध्यनासाग्रं पादयोः पार्ष्णिमध्यमे ॥७॥लम्बयेत्पूर्वसूत्रं तु अन्तरं तु वदाम्यहम् ।तत्सूत्राद्वामपार्श्वे तु हिक्कामध्यं शिवांगुलम् ॥८॥अर्धांगुलं तु तत्सूत्रात् वामे हृदयमध्यमम् ।तत्सूत्राद्दक्षिणे नाभिमध्यमं तु द्वियंगुलम् ॥९॥तत्सूत्राद्दक्षिणे चैवमग्रं चैव युगांगुलम् ।तत्सूत्राद्वामगोजानोरन्तरं द्वादशं यवम् ॥१०॥समभंगमिति ख्यातं अतिभंगमथ शृणु ।उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ॥११॥दक्षिणस्तन मध्ये तु तत्सूत्रं तु गुणांगुलम् ।नाभिमध्यात्तु वामे तु सूत्रनीव्रं द्वयंगुलम् ॥१२॥तत्सूत्राद्वामजान्वन्तं मध्यमं त्रिविधीयते ।वामांघ्रिपार्ष्णिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् ॥१३॥स्पर्शनं वेशनं नीव्रं समपादस्थानकोक्त च ।एवं त्रिभंगसूत्रेषु संमिश्रं तु न कारयेत् ॥१४॥उत्तमं त्वतिभंगं स्यात् मध्यमं समभंगकम् ।आभंगमधमं ख्यातं त्रिपुरान्तकमूर्तिनः ॥१५॥दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् ।दक्षिणे पूर्वहस्तोर्ध्वं नाभिसूत्रावसानकम् ॥१६॥सिंहकर्णं तु तद्धस्तं पाणिमध्यं तु पीडितम् ।बाणायामं सप्तविंशत्यंगुलं तु विधीयते ॥१७॥कनिष्ठांगुलि परीणाहं देवेशस्य करे तु तत् ।आस्यं पंचांगुलं व्यासं मात्रोच्चं व्याससादृशम् ॥१८॥आस्यतुंगसमं पुच्छं अग्न्यंगुलं तदायतम् ।वामहस्ते धनुर्धृत्वा कक्षान्तं तत्करोर्ध्वकम् ॥१९॥एकद्वित्र्यंगुलं वापि तस्य नेत्रोद्धृतं तु वा ।विंशदंगुलतुंगं त्रिः पंचसप्तनवांगुलम् ॥२०॥हीनं वाप्यधिकं वापि नवधा धनुषायुधम् ।पूर्णमुष्टिस्तु नाहं स्यान्मध्यादग्रं क्रमात्कृशम् ॥२१॥अग्रमध्यांगुलं व्यासं वृत्तं वर्णैर्विचित्रितम् ।बाणनाहं त्रिभागैकं रज्जुनाहं तु तन्तुना ॥२२॥धनोर्दार्घैकभागे तु सप्तांशं रज्जुदैर्घ्यकम् ।तद्दीर्घस्यानुकूल्यं तु धनोर्वक्रमुदाहृतम् ॥२३॥त्रिवक्रसहितं वाथ बालचन्द्राभमेव च ।धनुषाकृतिरेव स्यात् लोहजं दारुजं तथा ॥२४॥कर्तरी परहस्तौ द्वौ टंककृष्णमृगान्वितौ ।टंकं दक्षिण हस्ते तु वामहस्ते मृगं धृतम् ॥२५॥जटामकुटसंयुक्तं सर्वाभरणभूषितम् ।प्रवालसदृशप्रख्यं वामे गौरीसमन्वितम् ॥२६॥त्रिपुरान्तकमूर्तेस्तु प्रथमं लक्षणं त्विदम् ।तदेव वामपादं तु अपस्मारोपरिस्थितम् ॥२७॥शेषं प्रागिव कर्तव्यं द्वितीयं लक्षणं भवेत् ।सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् ॥२८॥शेषं प्रागिव कर्तव्यं सूत्रं चितिरपार्श्वकम् ।तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु ॥२९॥तदेव वामपादं तु अपस्मारोपरिस्थितम् ।प्रागिवैव विशेषं तु चतुर्थं लक्षणं तु वा ॥३०॥कटके बाणधरे हस्ते मध्यरेखा कलांगुलम् ।तिथ्यंशं मनुमात्रं वा त्रयोदशांगुलमेव वा ॥३१॥भानुरुद्रांगुलं वाथ अन्तरं षड्विधं भवेत् ।तत्करे कोर्परं नीव्रं श्रोणिपार्श्वे तथा भवेत् ॥८२॥कक्षाद्धनुर्धरे हस्ते मणिबन्धान्तरं तथा ।तत्करे कोर्परोद्धृत्यं हृदयान्तमुदाहृतम् ॥३३॥एकद्वित्रिचतुष्पंचमात्रं तस्मात्तदन्तु वा ।सर्वेषामपि सामान्यप्यन्तरं कथितं मया ॥३४॥तदेव पूर्वहस्तौ द्वौ कटको हृदि सीमके ।वामदक्षिणहस्तं च क्रमादूर्ध्वमधोमुखम् ॥३५॥बाणमूलधृतं सव्यं वामबाणासनोद्धृतम् ।परहस्ते दक्षिणे टंकं धनुश्चैव तु वामके ॥३६॥तद्धस्ते तु मृगं वाथ वामे गौरीसमन्वितम् ।अपस्मारं विना पादं नतं सूत्रं च प्रागिव ॥३७॥एवं चतुर्भुजोपेतं मूर्तं पंचविधं भवेत् ।अतिभंगसमोपेतं अष्टहस्तसमन्वितम् ॥३८॥बाणं च परशुं खड्गं अभयं दक्षिणे करे ।धनुर्विस्मयहस्तं च खेटकं कटकं तथा ॥३९॥वामहस्ते समाख्यातं पूर्वसूत्रात् करान्तकम् ।यथा शोभनतुंगं वा कल्पयेद्गौरिसंयुतम् ॥४०॥षष्ठमेवं समाख्यातं सप्तमं दशदोर्युतम् ।बाणं चक्रं तथा शूलं टंकं वज्रं च दक्षिणे ॥४१॥धनुश्शंखं तथा सूचिविस्मयं खेटकं तथा ।वामे पंचकरे ख्यातं अतिभंगमथोपरि ॥४२॥तदेव दक्षिणं जानुं रथस्याधो निधापयेत् ।तत्पूर्वे वामपादं तु तलं न्यस्त्वा रंथोपरि ॥४३॥रथं तु मुकुलोपेतं मुकुलं रज्जुना वृतम् ।मुकुलाभ्यन्तरे ब्रह्मा चतुर्वक्त्रश्चतुर्भुजः ॥४४॥तस्य दक्षिण हस्तौ द्वौ वेणुदण्डकमण्डलुम् ।कुण्डिकं पद्मपाशं च वामहस्तद्वये धृतम् ॥४५॥रथस्य मुकुला धस्ताद् वृषभं श्वेतवर्णकम् ।रथं त्वापन्नमार्गेण कल्पयेत्कल्पवित्तमः ॥४६॥त्रिपुरान्तकमाख्यातं अष्टभेदं द्विजोत्तम ! ।प्रवालसदृशं वर्णं सत्वराजसमाश्रितम् ॥४७॥सर्वाभरणसंयुक्तं एकवक्त्रं त्रिणेत्रकम् ।तस्य वामेऽप्युमा देवीं प्रागुक्तविधिना कुरु ॥४८॥इत्यंशुमान्काश्यपे त्रिपुरान्तकमूर्तिलक्षणपटलः (सप्ततितमः) ॥७०॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP