संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
संकरवर्णपटलः

अंशुमत्काश्यपागमः - संकरवर्णपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


सुवर्णार्हकवर्णं च वक्ष्येऽहं द्विजसत्तम ! ।
पीताश्म तु च पीता स्यात्तदश्म चूर्णवत्कृतम् ॥१॥

नालिकेरोदकैर्मिश्रं दध्यारक्तनिभं भवेत् ।
तत्सुधा कर्म रक्तं स्यात् शंखदण्डं सितं भवेत् ॥२॥

राजावर्तं च श्यामं च पाषाणौ द्वौ च पूजितौ ।
इतराभासशक्ताः स्युः सुधाकर्मसु सुव्रतः ॥३॥

अथ सुकरवर्णं तु वक्ष्येऽहं द्विजसत्तम ! ।
सितरक्तसमं मिश्रं गौरवं च मुदाहृतम् ॥४॥

सितपीतं समं मिश्रं यत्तत्कर्बुरकं भवेत् ।
सित कृष्णसमं मिश्रं धूम्रवर्ण मुदाहृतम् ॥५॥

श्वेतं कृष्णं च पीतं च समभागं तु मिश्रकम् ।
सारशविरिदं ख्यातं वर्णकर्मसुचोदितम् ॥६॥

श्वेतं रक्तं च संमिश्रं कर्बूरकमुदाहृतम् ।
रक्तं पीतं समं मिश्रं बकुलस्य फलाकृतिः ॥७॥

ज्वलनच्छविराख्यातं अग्निवर्णमिदं परम् ।
पीतस्य द्विगुणं रक्तं मिश्रितं चातिरक्तकम् ॥८॥

उदयार्कसमं चैतद् वर्णमित्यभिधीयते ।
रक्तस्य द्विगुणं पीतमिश्रितं गुलवर्णकम् ॥९॥

पीतस्य तु तदर्धं तु मिश्रितं कपिलं भवेत् ।
पीतं वेदांशरक्ताढ्यं शफरस्य निभं भवेत् ॥१०॥

कृष्णस्य द्विगुणं रक्तं मिश्रितं तु कषा?यकम् ।
श्वेतस्य द्विगुणं पीतं मिश्रितं पिंगलं भवेत् ॥११॥

श्वेतस्य त्रिगुणं पीतं मिश्रं कल्हारसादृशम् ।
कृष्णस्य द्विगुणं पीतं मिश्रितं चबुसंनिभम् ॥१२॥

तदेव तु नृणां वर्णं स्यात् कृष्णं पीतसमं तु वा ।
हरितालं श्यामसमं मिश्रं शुकपक्षसमं भवेत् ॥१३॥

तदेवारितालमाधिक्यं धान्यांकुरमुदाहृतम् ।
श्यामं स्याद्धरितालाढ्यं कुंकुष्ठारीतालार्धकम् ॥१४॥

मिश्रितं सस्यश्यामं स्यात् कृष्णं लाक्षासमन्वितम् ।
जम्बूफलसमन्वे तु वर्णमित्युच्यते मया ॥१५॥

जातिलिंगसमं लाक्षासारलोहितमुच्यते ।
कृष्णनीलसमं मिश्रं केशवर्णमुदाहृतम् ॥१६॥

सस्यश्यामं च रक्तं च संमिश्रमष्टवर्णकम् ।
कृष्णं रक्तसमं मिश्रं मधुवर्णमुदाहृतम् ॥१७॥

तदेवरक्तमाधिक्यं मानुषं वर्णमुच्यते ।
मानुषारक्तमाधिक्यं वर्णरूक्षहरीतकी ॥१८॥

तस्माच्छयामनिभोपेत नात्रवर्णमुदाहृतम् ।
तेषु यद्द्रव्यमल्पेन बाहुमानसमन्वितम् ॥१९॥

बहुसारेति तत्ख्यातं बहुद्रव्याल्पमानितम् ।
अल्पसारमिति ख्यातं सारेल्पकल्पितं विदुः ॥२०॥

वर्णानामानुकूल्यं तु सारमेवं समाश्रितम् ।

प्. ३७७) इत्यंशुमान्काश्यपे संकरवर्णपटलः (एकोननवतितमः) ॥८९॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP