संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| लिंगप्रासादपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - लिंगप्रासादपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत लिंगप्रासादपटलः Translation - भाषांतर अथ बेरं ताम्रजं शैलं दारवं वा विधीयते ।दारवान्मृण्मयं श्रेष्ठं मृण्मयाच्छैलमुत्तमम् ॥१॥शैलजात्ताम्रजं मुख्यं भवति ध्रुवार्च्चाचेत् ।ताम्रजं शिलैर्वा कुर्यात् बेरायामं तदर्धायाममुत्तमम् ॥२॥गुणांशान्मध्यमं द्व्यंशं मध्यमात्तच्छरांशकम् ।तद्धामविसृतार्धं द्विधा कृत्वा तस्या परार्धंषड्विंशतिभागं कृत्वा तत् पूर्वार्धमंशेनसहैकैकसमयोजयेत् । सप्तविंशति तदुत्सेधं भवति । गर्भागारस्यचतुर्चतुर्भागं त्रिभागं द्विभागं शरांशाद् गुणांशगर्भार्धंवा । तस्यापरार्धमपूर्ववत् कुर्यात् । पादोत्सेधं द्वारोत्सेधं वा ।तत्पादहीनमर्धं वा * * वांशो हीनमष्टमांशोनं वा अधिष्ठानस्यपादमर्धं त्रिपादसमं पादाधिकपादो द्विगुणं वा । तन्मानेनगुणांश हस्तमानांगुलेन पंचविंशत्यंगुलाद्यैकचत्वारिंशदंगुलान्तं द्व्यंगुलबृद्ध्यांगुलि भेदं न तथा भवति ।यन्मान समन्ताष्टांशं कृत्वा एकद्वित्रि चतुरंशाधिन्नेत्रांस्यबाहुस्तनान्तमित्येतद् नवधा भवति । एतेष्विष्टमानं विनिश्चित्यपदादुष्णीषान्तं ध्रुवभेतकारयेत् । तच्चित्रं चित्रार्घंचित्राभासमिति त्रिविधं भवति । उत्तमं चित्रं मध्यमचित्रमाभासमयंषण्मानैः सहिअं चित्रनाहार्धसंदर्शनमर्धचित्रं नाहोन्नतिभ्यांहीनं अयत्नदाभासा सा सर्वत्रलोहजं मृण्मयं चित्रमेवार्धचित्रमेवार्धचित्रं न कारयेत् । कुर्याच्चेदाभिचारिकं भवति । लोहजंदारवं चित्रं अर्धं वा कारयेत् । आभासं पटकुट्यादि लेख्यं बेरेचित्रर्चनमैहिकामुष्मिकप्रदं अर्धविचित्रार्चनं वाकेवलामुष्मिकफलप्रदं आभासेऽर्चनमैहिक फलप्रदं तथाभासंद्विविधं भवति । अचलमित्यचलभित्तौ लिखितं च । लंपटे लिखितंतस्मादचलमेव कारयेत् । दाभासं भित्तौ समुल्लिखितस्तन्नक्षिमोचनंध्रुवबेरशुद्धिं च कृत्वा । देवीमानं । देव्या बाहुस्तनान्तं वाकण्ठान्तं वा देव्योर्मननम् । मन्योर्विंशशेषिकयोरन्येषांपरिवाराणां च तत्तत्समम् । पादहीनं मध्यपादं वातत्तदालयवशाद्वा कारयेत् । ब्रह्माणं शंकरं च ध्रुवबेरसमंनवांशोनमष्टांशोनं वा कारयेत् । येन द्रव्येण देवः कृतः तेनद्रव्येण देव्यादिपरिवान्तं तत्तदालयक्रमेण कारयेत् ।इति श्री वैखानसे मरीचि प्रोक्त बेरोन्नतकल्पविधि पटलः॥अथ वक्ष्ये विशेषेण प्रतिमानां तु लक्षणम् ।प्रकारं पापनाशं स्यात् तिकारं शान्तिकं विदुः ॥१॥मकारं पुत्रवृद्धिं स्यात् नकारं पुण्यदं भवेत् ।मूलबेरस्य मानं तु आलयांशेन कारयेत् ॥२॥आलयांशविभागेन ज. * न्मांशकेन च ।द्व्यंशेनैव कर्तव्यं प्रतिमानां तु कारयेत् ॥३॥मूलबेरस्य सार्धं वात्त्रिभागं वा द्विभागकम् ।अर्धांशेनोत्तमं विद्यात् तृतीयांशंतु मध्यमम् ॥४॥तुरीयांशं च भागेन त्वधमं च प्रकीर्तितम् ।उत्तमं मध्यमं वाप्य धमं वाथ कन्यसम् ॥५॥बेरमानं च कर्तव्यं प्रतिमानां तु लक्षणम् ।युक्तायुक्तं विचार्याथ प्रतिमानां च कारयेत् ॥६॥बेरमानविधिःशिलाग्रहणविधिःअन्तर्गर्भास्तु विज्ञेया बाह्यलक्षणलक्षिताः ।लक्षितेषां लेपयेत् * * * * * * * * * ।ब्रह्माणं वज्रपाणिं च शूलपाणिं च वैष्णवम् ॥१॥अजक्षीरेण संयोज्य उपलं लेपयेत्तदा ।लेपिते यत्क्लिन्नं स्यात् एकरात्रोषिते तथा ॥२॥स गर्भान्तर्विजानीयात् सितागोसासुवृश्चिकम् ।श * * * कृष्णजीर्णे तु * * * * * * ।कासीसं पीतलोध्रं च गोक्षीरेण तु षेषयेत् ॥३॥लेपिते तु शिलां तेन रुधिराभा यदा भवेत् ।दिवसैस्सक्थुभिश्चैव एकरात्रोषितं तथा ॥४॥तद्दशस्तत्रिविज्ञेया कूर्मेवाथ न संशयः ।पृथ्वीत्रशूलिनी ब्राह्मं महीं क्षीरं च षेषितम् ॥५॥लेपिते तु शिलान्तेन रुधिराभयदा भवेत् ।कृष्णमनो भवेत्तत्र कृकलासमथापि वा ॥६॥मत्तकं करवीरं च कुष्ठमंजिफलत्रयम् ।एतानि श्लिष्णयित्वा तु स्त्रीस्तन्येनैव पोषयेत् ॥७॥अश्मानं शक्तमत्रयदि स्यात् ।कालकूटविषं तत्र न तु हस्तेन संस्पृशेत् ॥८॥ग्रहाणां लक्षणं ह्येवं शिलाग्रहणमारभेत् ।शिला स्थापयित्वा तु भुवं पश्चात् समीपतः ॥९॥ततो गुरुः॥पंचगव्येन संप्रोक्ष्य पवमानमुदीरयन् ।गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥१०॥सद्यादि वामभिर्दत्वा शिलायां संप्रपूजयेत् ।ततोऽस्य पूर्वभागे तु होमकर्म समारभेत् ॥११॥पंचांशं लिंगविष्कंभं चतुरश्री कृते तु तत् ।तत्कर्णद्विगुणांशं वा द्विगुणं वार्धमेव वा ॥१॥पीठव्यासमिति ख्यातं तेन तत्त्रिचतुर्गुणम् ।गर्भगेहस्य विस्तारं कुड्यं गर्भसमं तु वा ॥२॥त्रिभागं वाग्निभागेशं गर्भगेहार्धमेव वा ।अग्निव्यासमिति ख्यातं प्राग्वत् * * तु शक्तिकात् ॥३॥रुद्रांशं नाहसदृशं पीठतारमुदाहृतम् ।तेन द्वित्रिचतुर्गुण्यं गर्भगेहस्य विस्तरम् ॥४॥नालीगृहं तु संकुंड्य तारं त्रिपादमेव वा ।पूर्ववद्भित्तिकाख्यातं नाहं रुद्रांशकस्य तु ॥५॥चतुरश्रीकृते कर्णं पीठव्यासमुदाहृतम् ।तेनैव द्विगुणांशं वा त्रिगुणं वा चतुर्गुणम् ॥६॥गर्भगेहविशालं स्यात् तस्यार्धं कुड्यविस्तृतम् ।पंचभागैकभागं वा अग्न्यंशेंशमथापि वा ॥७॥चतुर्भागैकभागं वा तुंगं प्रागिव कल्पयेत् ।पूजांशोच्चे युगाश्रं तु द्विगुणे वा युगाश्रके ॥८॥कर्णं पीठविशालं स्यात्तेन द्वित्रिचतुर्गुणम् ।पंचांगुणं तु वा गर्भगेह व्यासमुदाहृतम् ॥९॥त्रिचतुष्पंच षड्भागेकांशं कुड्यविशालकम् ।शान्तिकाभ्युदयं ख्यातं पूर्ववद्द्विजसत्तम ! ॥१०॥रुद्रांशतारद्विगुणं चतुरश्री कृते सति ।कर्णपीठततं ख्यातं तद्द्वयं गर्भविस्तृतम् ॥११॥त्रयं वा विसृतं तस्य चतुर्गुणमथापि वा ।त्रिचतुष्पंच भागेंशं कुड्यस्य व्यासमुच्यते ॥१२॥पूजांशस्य परीणाहे द्विरष्टांशं विभाजिते ।मंचांशं चतुरश्राभे कर्णपीठ विशालकम् ॥१३॥तेनैव द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ।नालिगेहं विशालं स्यात् तदर्धं कुड्यविस्तृतम् ॥१४॥चतुर्भागैकभागं वा वस्वंशेंशमथापि वा ।अग्निभागैकभागं वा गर्भकुड्यं तु पूर्ववत् ॥१५॥लिंगविष्कम्भकर्णं तु चतुरश्री कृते बुधः ।तत्कर्णं तु दशांशेन पिण्डिका व्यासमुच्यते ॥१६॥तेन द्वित्रिगुणं वापि चतुष्पंचगुणं तु वा ।नालीगृहविशालं स्यात् तस्यार्धं भित्ति विस्तृतम् ॥१७॥त्रिचतुष्पंच षट्सप्तभागैकांशं तु भावयेत् ।कुट्टिमस्य विशालं तु तुंगं पूर्ववदेव हि ॥१८॥लिंगविष्कम्भत्रिगुणं पीठ व्यासमुदाहृतम् ।तेन द्वित्रिगुणं वापि नालीगेहविशालकम् ॥१९॥तदर्धं त्रिचतुर्भागं भागं वा कुड्यविस्तृतम् ।शान्तिकाभ्युदयं प्राग्वत् कर्तव्यं हि विशेषतः ॥२०॥विष्कंभे चतुरश्रे तु कर्णमध्यर्धमेव वा ।द्विगुणं द्विगुणार्धं वा त्रिगुणं पिण्डिका ततः ॥२१॥तेन द्वित्रिचतुष्पंच गुणं वा गर्भगेहकम् ।पीठव्याससमं सार्धद्विगुणं द्विगुणार्धकम् ॥२०॥कुड्यव्यासमिति ख्यातं तुंगं पूर्वतदेव हि ।पूजांशस्यैव द्विगुणं पीठ व्यासमुदाहृतम् ॥२३॥तेन द्वित्रिचतुष्पंच गुणं वा नालिगेहकम् ।तदर्धं त्रिपादमग्न्यंशं भित्तिव्यासमुदाहृतम् ॥२४॥शान्तिकाभ्युदयं प्राग्वत् कल्पयेद्देशिकोत्तमः ।हीने हीनप्रमाणेषु द्वन्तरेष्टविभाजिते ॥२५॥प्रत्येकं नवधा पीठ व्यासन्नालीगृहं तथा ।कुड्यव्यासं च हर्म्यैश्च कर्तव्यं नवधा द्विज ! ॥२६॥एकानेकतलं वापि कूटकोष्ठादिसंयुतम् ।साधारं वा निराधारं प्रागुक्त विधिना कुरु ॥२७॥एवं स्वायंभुवानां च लिंगानां बाणसंज्ञताः ।रत्नलोहजलिंगानां पीठनालीगृहायतम् ॥२८॥कारयेत्तु विशेषेण सर्वलोकहिताय वै ।स्थूलमूलं शिरः स्थूलं मध्यस्थूलं तु आर्षकम् ॥२९॥स्थूलदेशे * * नाहं विष्कंभं चैव संगृहेत् ।पाषाणं च शिरोमानं विना तुंगं तु संगृहेत् ॥३०॥पौरुषाद्यन्यलिंगानां नाहं त्रिस्सप्तधा भजे ।तेष्वेकांशकलांशेंशं लिंगमध्यात्तु दक्षिणे ॥३१॥व्यपोह्य निर्मितं सूत्रं गर्भगेहस्य मध्यमम् ।प्रासादमध्यसूत्रं च द्वारमध्यं तदेव हि ॥३२॥नेमयुक्त्यात्र्यक्लत् सूत्रं कल्प्य प्रासादमाचरेत् ।येन लिंगेन यन्मानं निर्मितं सदनस्य तु ॥३३॥युग्मं वा युग्महस्तं तु हस्तच्छेदं प्रपूरयेत् ।यवादि रसमात्रान्तं हीनं वाप्यधिकं तु वा ॥३४ ।गर्भगेहविशालं स्यात् समाश्रमायताश्रकम् ।स पादं सार्धपादोनद्विगुणं त्रिगुणं तु वा ॥३५॥गर्भगेहायतं ख्यातं कुड्यं तदर्धविस्तृतम् ।त्रिपादं वा त्रिभागैकं शेषं पूर्ववदेव हि ॥३६॥प्. ४०६) नागरे शान्तमूर्तीनां राजसानां तु द्राविडे ।वेसरे नृत्तमूर्तीनां रौद्राणां यानमूर्तिनाम् ॥३७॥क्रमेण सदनं ख्यातं तत्तद्युक्त्या तु कल्पयेत् ।विपरीतं न कर्तव्यं सर्वोदय फलार्थिभिः ॥३८॥इत्यंशुमान्काश्यपे लिंगप्रासादपटलः (पंचनवतितमः) ॥९५॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP