संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
गजहारिमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - गजहारिमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेण गजारेर्मूर्तिलक्षणम् ।
ललाटमध्यनासाग्रात् वा वेतुस्तनमध्यमात् ॥१॥

वामस्फिक् पिण्डमध्यात्तु पूर्वसूत्रं प्रसारयेत् ।
तत्सूत्राद्दक्षिणे वामपादपार्ष्ण्यन्तरं द्विज ! ॥२॥

साष्टत्रिंशतिमात्रं वा षट्त्रिंशत्यंगुलं तु वा ।
तत्सूत्रादमतः सव्यपादांगुष्ठान्तरं द्विज ॥३॥

एकविंशति मात्रं वा एकोनविंशदेव वा ।
सर्वाभरणसंयुक्तं चतुर्दोरष्ट एव वा ॥४॥

चतुर्भुजं चेत्पाशं च गजचर्म च दक्षिणे ।
गजशृंगं च चर्मं च वामपार्श्वे करद्वये ॥५॥

चतुर्दोरेवमाख्यातं अष्टहस्तमथोच्यते ।
शूलं डमरुकं पाशं गजचर्म च दक्षिणे ॥६॥

गजशृंगं कपालं च गजचर्म च विस्मयम् ।
वामपार्श्वे तु चत्वारो हस्ता एवं प्रकीर्तितम् ॥७॥

शंभोर्वामांघ्र्यधस्तात्तु गजस्यैव तु मस्तकम् ।
मकुटस्योपरिष्टात्तु गजपुच्छं प्रकल्पयेत् ॥८॥

पार्श्वयोर्गजपादास्तु यथा युक्त्या तु कारयेत् ।
प्रभामण्डलवच्छेषं गजचर्म प्रकल्पयेत् ॥९॥

व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् ।
सर्वालंकारसंयुक्तं अतिरत्नसमप्रभम् ॥१०॥

एवं तु गजहामूर्तिः प्रथमं तु विधीयते ।
शूलं खड्गं तथा चर्म गजशृंगं च दक्षिणे ॥११॥

कपालं खेटकं घण्टां गजचर्म च वामके ।
ललाटमध्यनासाग्रदक्षिणस्तनमध्यमात् ॥१२॥

सव्यस्फिक् पिण्डमध्यात्तु लम्बयेद् ब्रह्मसूत्रकम् ।
सुस्थितं वामपादं तु गजमूर्ध्नस्तु देशिक ! ॥१३॥

उद्धृतं दक्षिणं पादं तिर्यगुत् टितं भवेत् ।
तदंघ्रिपार्ष्ण्यात् स्फिक् पिण्डात्वन्तरं चतुरंगुलम् ॥१४॥

तज्जानुर्वामक्षस्य सीमासूत्रं समं नयेत् ।
एवं द्विविधमाख्यातं गजहारिं च चोच्यते ॥१५॥

स्कन्दोद्धृतह्युमादेवी शंभोर्वामे भयान्विता ।
एवं हि कल्पितं बिम्बं राजराष्ट्रविवृद्धिदम् ॥१६॥

इत्यंशुमान्काश्यपे गजहारिमूर्तिलक्षणपटलः (त्रिसप्ततितमः) ॥७३॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP