संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| लिङ्गलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - लिङ्गलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत लिङ्गलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण शिवलिंगस्य लक्षणम् ।संहारे विषया भूतालयं गच्छन्त्यशेषतः ॥१॥यथा सृष्टिस्तथा तस्मिन् सृष्टिर्वा लिंगमुच्यते ।संहारे निष्कलं शान्तं पण्यमानमुदीरितम् ॥२॥मुक्तित्वं सर्वजन्तूनां स्वात्मनः परमं विना ।सर्वत्र व्यापिनं गुह्यं सर्वलोकैकनायकम् ॥३॥तस्माद्वै सृष्टिकाले तु शान्तितत्वं समुद्भवेत् ।तच्छान्तेः शक्तिसंभूतं तस्मान्नादस्य संभवम् ॥४॥तस्माद्बिन्दुस्समुत्पन्नं नादं सादाख्यमुच्यते ।बिन्दोर्मनोन्मनी ख्याता तस्यामीश्वरसंभवः ॥५॥ईश्वरात्तु महेशस्य सृष्टिस्तस्मात्तु वैष्णवम् ।तस्मात्प्रजेशस्संभूतः प्रजेशात्तु विशेषतः ॥६॥त्रीणि चैव तु त्रिंशच्च त्रिशत त्रिसहस्रकम् ।देवता ऋषयश्चैव दानवाप्सरयोनयः ॥७॥संभवास्तुदिता विप्र तेष्वादौ त्रीणि निष्कलम् ।बिन्द्वन्तं सकलं ख्यातं मिश्रं नादान्यबिन्दुकम् ॥८॥नादं लिंगाकृतिर्ज्ञेया बिन्दुः पीठांगमुच्यते ।लिंगं शिवमयं ख्यातं पीठं तस्यात्मिकायतम् ॥९॥तस्माच्छिवात्मिकाश्चैव शिवात्मी चानलोष्णवत् ।जगदार्तिविनाशार्थं सर्वप्राणि हितावहम् ॥१०॥देवादीनां हितार्थाय ध्यानपूजा निमित्तकम् ।लिंगयोनि प्रकारेण सादाख्यं तत्वमुद्भवम् ॥११॥सर्वेषामुदयार्थं तत् प्रोच्यते लिंगलक्षणम् ।तल्लिंगं त्रिविधं प्रोक्तं चलं चैवाचलं तथा ॥१२॥चलाचलमिति ख्यातं क्रमेणैव विशेषतः ।रत्नजं लोहजं वाथ लिंगं कृत्वा सयोनिकम् ॥१३॥लिंगद्रव्येतरं वाथ योनिं कृत्वा लक्षणम् ।शिरसोद्वर्तनोपेतं लक्षणोद्धारवर्जितम् ॥१४॥वृत्ताकारमशेषं तु कृते लिंगोदयार्थकम् ।उदयेनलैकभागं वा वेदांशैकमथापि वा ॥१५॥पीठं प्रवेशयेच्छेषं दृश्यमानसमन्वितम् ।गमागमाक्षमं चैष्टदंशे न्यस्त्वोद्धृतक्षयम् ॥१६॥यत्तल्लिंगं चलं ख्यातं अचलस्य त्रिभागिकम् ।शैलजं बाणजलिंगं वा गर्भगेहे तु विष्ठरे ॥१७॥स्थापयेच्चलवत्पीठे चैवं दृश्यं चलाचलम् ।अमजं सूत्रसंयुक्तं बाणलिंगं तु तद्विना ॥१८॥तेष्वादौ चललिंगं तु लक्षणं वक्ष्यतेऽधुना ।सुमासतिथिनक्षत्रे लग्ने वारे शिलां ग्रहेत् ॥१९॥आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमारभेत् ।दिव्यन्तरिक्षभौमादिनिमित्तान्युपलक्षयेत् ॥२०॥वायसे दक्षिणे वामाद् आगतश्च तथैव च ।एवं वै दक्षिणे वामे हस्तिमांसेन संयुतम् ॥२१॥कन्यागोदर्शनं चैव गायस्त्वा वाहनं तथा ।दध्ना च पूर्णकुंभं च क्षीरकुंभ तथैव च ॥२२॥पुष्पं पुष्पधृतो विप्र सुता भर्तृवती स्त्रियः ।अन्नं च मांसहारं च शिवभक्तिपरायणः ॥२३॥ज्वालानलं च दीपं च जलैः पूर्णघटं वृषम् ।वराहं च गजं चैव वेश्या चात्यन्तसुन्दरी ॥२४॥शुभान्येतानि दिव्यानि अशुभं विपरीतकम् ।उल्कापातं दिशादाहं न्वहाकथ (?) प्रवर्तनम् ॥२५॥अशुभान्यन्तरिस्थं भौमांद्या शोभनोच्यते ।मुक्तकेशशिराश्चैव विकीर्णाकेशसंयुताः ॥२६॥तैलाभ्यंगं च नग्नं च काषाय वसनान्वितम् ।दर्शनेन च मृद्भाण्डैः तैलपात्रं तथैव च ॥२७॥छिन्ननासिकमर्त्याश्च हीनांगास्त्वधिकांगकाः ।अभावपुत्रनारी च विधवा च तथैव च ॥२८॥तथैव बहुभक्षश्च भौमान्येतानि वर्जयेत् ।शुभं चेद्गमनं कुर्यात् अशुभेषु निवर्तयेत् ॥२९॥शुभेषु गच्छेदाचार्यः शिल्पिना गमनं चरेत् ।पर्वते सागरे तीर्थे क्षेत्रे चैव वने तथा ॥३०॥क्षीरवृक्षसमीपे च देवहर्म्यसमीपके ।नदी तटाकतीरे वा शिलां संगृह्य देशिकः ॥३१॥अन्य स्थानेन गृह्यात्तां गृहीते कर्तृनाशनम् ।श्वेतारक्ता च पीता च कृष्णा चैव चतुर्विधा ॥३२॥गोक्षीरशंखकुन्देन्दु मुक्ता स्फटिकसंनिभा ।मल्लिकाकुसुमाभा च श्वेतायां सप्तधा स्मृताः ॥३३॥जपालिंशुकपुष्पाभा इन्द्रगोपसमप्रभा ।दाडिमी पुष्पसंकाशा बन्धूककुसुमप्रभा ॥३४॥जातिलिंगसमाकारा शशरत्नसमप्रभा ।रक्ता सप्तविधा ख्याता एवमेव द्विजोत्तम ! ॥३५॥सुवर्णसदृशाकारा सर्षपपुष्पसंनिभा ।आसनापुष्पसंकाशा हरिद्रस्य च चूर्णवत् ॥३६॥कूष्माण्डकुसुमप्रख्या हेरण्डकुसुमप्रभा ।आरग्वधस्य पुष्पाभा पीतशैलाद्विसप्तधा ॥३७॥महिषाक्षांजनाभासा नीलोत्पलसमप्रभा ।भृंगमायूरकर्णाभा महिषस्य च नासिवत् ॥३८॥राजावर्त निभाकारा कृष्णमुद्गसमप्रभा ।ह्रस्वमुद्गसमाकारा कृष्णशैला दश स्मृता ॥८९॥श्वेता रक्ता च पीता च कृष्णा विप्रादिषु क्रमात् ।सर्वकामार्थ मोक्षं च दद्यात्सततमेव च ॥४०॥परेषां वा परे श्रेष्ठं परेषां परमं विना ।प्रतिलोमानुलोमाभ्यां बीजयोग्यं तु गृह्यताम् ॥४१॥आचार्यः शिल्पिभिश्चैव सितवस्त्रधरावुभौ ।शुक्लमाल्यानु लिप्तांगौ पंचांगभूषणान्वितौ ॥४२॥कुठारादीनि संग्राह्य शिलां गच्छेत्समाहितौ ।यस्मिन्देशे शिलांशं तु तां कृत्वा तु प्रदक्षिणम् ॥४३॥दोषादोषां शिलां दृष्ट्वा परिच्छेद्य विशेषतः ।वातातपाग्नि दग्धां च संकीर्णं क्षीरवारिणा ॥४४॥दुर्देशस्थां तटस्थां च कर्मान्ते तु सुयोजिताम् ।शर्कराढ्यां तथैवान्यैः झर्झरां रुक्षसंनिभाम् ॥४५॥रेखाबिन्दुकलंकादि संयुक्तां परिवर्जयेत् ।सूत्रपातवदाकारा वीररश्मि समायुता ॥४६॥वर्षपातवदाकारा रेखा वै त्रिविधा स्मृता ।जम्बूफलसमाकारा स्तनाक्षसदृशोपमा ॥४७॥अन्यद्वावृत्तसाकारा त्रिविधो बिन्दुरेव हि ।कृष्णलोहनिभाकारा कृष्णभृंगस्य संनिभा ॥४८॥शिखिपिंछनिभाकारा कलंका च चतुर्विधा ।खर्जूर पत्र साकारा दूर्वास्तंभ निभा तथा ॥४९॥वेण्वंकुरवदाकारा लूतपादवदाय च ।इक्षोरग्रसमाकारा हरीका पंचधा स्मृता ॥५०॥शंखाभं हेमसदृशं कांसलोहसमप्रभम् ।दरिरूपं त्रिधा ख्यातं सर्वदोषभयावहम् ॥५१॥कृष्णाश्वनि सिता रेखा सर्वसंपत्समृद्धिदा ।कृष्णे कृष्णा तु नाशाय श्वेते कृष्णा तथैव च ॥५२॥तस्मात्सर्वप्रयत्नेन इतरा परिगृह्यताम् ।हरिका कृष्णशैले तु सितवर्णं विशेषतः ॥५३॥खर्जूरपत्रसदृशा दूर्वास्तम्बाकृतिः शुभा ।अन्या कृत्याशुभा ख्याता गोधान्यधननाशनम् ॥५४॥कलंकं रोगदं ज्ञेयं त्रासं राष्ट्र विनाशनम् ।बिन्दुः पुत्रविनाशं स्यात् दरी सर्वविनाशनम् ॥५५॥एवं परीक्ष्य बहुधा कारयेल्लक्षणान्विताम् ।बाला युवतिर्वृद्धा च पुंस्त्रीनपुंसकं तथा ॥५६॥सुरैराकृतिभेदैश्च परिच्छेदविधिं शृणु ।घनकम्बुध्वनी ह्रस्वा शिला बाला इति स्मृता ॥५७॥घण्टाध्वनिसमा दीर्घा यौवना सा प्रकीर्तिता ।विवृतध्वनिसंयुक्ता या सा वृद्धा प्रकीर्तिता ॥५८॥घण्टाध्वनि समादान्ता दीर्घा सा पुंशिला युवा ।तालध्वनिसमाकारा दीर्घा या सा शिला स्त्रियः ॥५९॥अस्निग्धा वाथ रुक्षा वा स्वरहीना नपुंसका ।सुरैरेव समाख्यातां आकृत्या भेदमुच्यते ॥६०॥प्. २३७) चतुरश्रा च वस्वश्रा स्त्रीशिलेति प्रकीर्तिता ।आयताश्रा च वृत्ता च दशद्वादशकोणका ॥६१॥पुंलिंगा सा शिला ख्याता सुवृत्ता सा नपुंसका ।दशाश्रां द्वादशाश्रां च बालां वृद्धां च वर्जयेत् ॥६२॥पुंशिला गृहितं लिंगं स्त्रीशिलाभिस्तु पिण्डिका ।नपुंसकशिलायां तु पादाधारशिलायद् ॥६३॥कर्तव्यं विपरीतं यत् तदा कर्तुर्विनाशनम् ।प्रागग्रां वोदगग्रां वा शिलां संग्राह्य शिल्पिकः ॥६४॥प्रागग्रे पश्चिमे मूलेप्युदगग्रे च दक्षिणे ।अधोभागे मुखं ख्यातं ऊर्ध्वगता भवेत् ॥६५॥एवं परीक्ष्यसंग्राह्या गव्यैः क्षाल्यो हृदा बुधः ।सद्यमंत्रेण संस्नाप्य गन्धपुष्पादिभिर्यजेत् ॥६६॥तस्यास्तु शांकरे देशे शान्तिहोमं च कारयेत् ।अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥६७॥समिधं हृदयेनैव मूलेनाज्यं तु होमयेत् ।चरुहोममघोरेण पुरुषेणैव तण्डुलम् ॥६८॥तिलमीशानमन्त्रेण सर्षपं कवचेन तु ।शतमर्धं तदर्धं वा प्रत्येकं तु शताहुतिः ॥६९॥स्विष्टमग्नेतिमंत्रेण पूर्णाहुतिमथाचरेत् ।ततो वह्निं समुद्वास्य पूजोद्वासादिकं न्यसेत् ॥७०॥शिलां छेद्य हृदा विद्वान् शस्त्रमंत्रेण पूजयेत् ।कवचं तु समुच्चार्य शिलाच्छेदनमाचरेत् ॥७१॥तदूर्ध्वं शिल्पिकार्यं तु स्थपत्यादि समाचरेत् ।गर्भगेहप्रमाणं च द्वारमानं तथैव च ॥७२॥स्तम्भं च तालमानं च हस्तमानांगुलं तथा ।लिंगमानोद्धृतं सप्त तेषां प्रत्येकनैकधा ॥७३॥गर्भगेहं तु पंचांशं गुणांशं श्रेष्ठमुच्यते ।श्रेष्ठोत्तमादिनवधा प्रोच्यते द्विजसत्तम ! ॥७४॥प्रासादे त्वादिभूमौ तु स्तम्भदीर्घसमं हि तत् ।तदुत्तममितिख्यातं तस्यार्धं मध्यमं भवेत् ॥७५॥तयोर्मध्येष्टभागे तु नन्दभेदं द्विजोत्तम ! ।स्तम्भयामततैवे तु नवभागं विभाजिते ॥७६॥नवधा लिंगमानं तु स्तम्भमानं द्विजोत्तम ! ।अधिष्ठानोदये विप्र स्तम्भमानवदाचरेत् ॥७७॥एकहस्तं समारभ्य साष्टांशं च विवर्धनात् ।नवहस्तविधिर्यावत् संख्या षष्टि स पंचकम् ॥७८॥पंचहस्तविमानादि हर्म्यं हस्तावसान्वितम् ।पंचहस्तादधो हर्म्यं लिंगं स्तम्भवशं विना ॥७९॥हस्तादि गुणहस्तान्तं विकल्पाभास हर्म्ययोः ।त्रिहस्तं षट्करान्तं तु लिंगं छन्द विमानके ॥८०॥षट्करादि नवान्तं तु लिंगं जाति ग्रहोचितम् ।एवं हस्तं समाख्यातं तालमानमथोच्यते ॥८१॥तालादि नवतालान्तं एकतालविवर्धनात् ।सा लिंगो नवसंख्या स्युः कल्प्यजातिरथो भवेत् ॥८२॥त्रयोदशांगुलमारभ्य यावन्नन्दशतांगुलम् ।तदेकानैकभागं च लिंगमानांगुलेन तु ॥८३॥त्रिभागसहितं लिंगं हस्तक्षीणं न कारयेत् ।हस्तमानात्क्षयं लिंगं वृत्ताकारं विशेषतः ॥८४॥वेदानलोदयोवांशं विष्ठरे योजयेद्बुधः ।शेषं तु दृश्यमानं स्यात् विकल्पाभास हर्म्यके ॥८५॥विष्ठरे वेशलिंगं तु विकल्पो परिगृहे विना ।एकांगुलं समारभ्य यावद्रुद्रांगुलावधि ॥८६॥लोहजं रत्नजं वत्यूर्ध्वे शैलजमुच्यते ।त्रयोदशांगुलाधस्तात् शैलजं तु न कारयेत् ॥८७॥एवं त्वनेकभेदेन प्रोच्यते लिंगमानकम् ।नागरं द्राविडं लिंगं वेसरं च वदाम्यहम् ॥८८॥लिंगोदये तु वेदांशं एकांशं कन्यसं ततो ।तुंगे त्र्यंशं शिवांशं तु विस्तारं श्रेष्ठमुच्यते ॥८९॥तयोर्मध्येऽष्ट भागे तु नवधा तारमुच्यते ।अधोदये कलांशे तु पंचांशं शान्तिकं भवेत् ॥९०॥वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत् ।आभिचारं द्विभागं स्याद् व्यासमेवं चतुर्विधम् ॥९१॥एवं त्रयोदशव्यासं नागरे तु विधीयते ।लिंगोच्चे द्विन्नवांशे तु रसभूतयुगांशके ॥९२॥गुणांशे शान्तिकादि स्याद्राविडे तु चतुर्विधम् ।वेसरं च चतुर्भेदं हर्म्यलिंगस्य पिण्डिका ॥९३॥वेसरे लिंग तुंगे तु विंशत्यंशं विभाजिते ।अष्टांशं सप्तषट्पंच भागैर्व्यासं प्रकल्पितम् ॥९४॥शान्तिकं पौष्टिकं चैव जयदात् भुदकं भवेत् ।वेसरं च चतुर्भेदं हर्म्यं लिंगस्य पिण्डिका ॥९५॥पादाधारशिलाश्चैव एकजाति स्वयं करम् ।यत्रैव कल्पितं लिंगं वर्धहेतु मुदाहृतम् ॥९६॥अन्योन्यसंकरश्चेत्तु राज्ञो मुख भयावहम् ।तस्मात् सर्वप्रयत्नेन संकरं न समाचरेत् ॥९७॥लिंगानां नागराद्येवं ख्यातमायादि तच्छृणु ।लिंगस्योत्सेधमानं तु मानांगुलेन भाजयेत् ॥९८॥मात्राच्छेदं प्रवृद्ध्या वा हान्या वा परिपूरयेत् ।श्रेष्ठान्तराधमर्मार्वामात्रपूर्णं परिग्रहेत् ॥९९॥उत्सेधमात्रमष्टाभिर्वृद्धितं ऋक्षसंख्यया ।हृत्वा ते दिनसंख्या तु अश्विन्यादि द्विजोत्तम ! ॥१००॥नवभिर्गुणिने सप्ता हृत्वात्वर्कादि वारके ।अनले गुणिते चाष्ट हृते योनिमुदाहृतम् ॥१०१॥अष्टाभिर्वृद्धिते भानु हृते त्वायमुदाहृतम् ।नवभिर्गुणिते नाडि हृते शेषं व्ययं भवेत् ॥१०२॥युगवृद्ध्या हृते त्वंशं नवमं तस्करादिभिः ।आयाधिक्यं व्ययं हीनं संपदामास्पदं सदा ॥१०३॥ध्वजं सिंअहवृषे हस्ती शुभयोनिमुदाहृतम् ।सितसौम्यशशी जीवो सप्तवारे शुभाशुभम् ॥१०४॥नृपकर्तुश्च जन्मर्क्षात् लिंग-ऋक्षावसानकम् ।जन्मत्रयं च वेदाष्टा ऋतु नन्दाभ्यवर्जितम् ॥१०५॥शुभावहदिनान्येते शेषकास्त्वशुभावहाः ।भानुवारादि संयुक्तं विशाखादिश्चतुश्चतुः ॥१०६॥रिपुत्वामरणं नाशं अपमृत्युर्यथा क्रमम् ।शेषं योगं परिग्राह्य शुभमानं तु संगृहेत् ॥१०७॥समलिंगं वर्धमानं शैवाधिक्यं च स्वस्तिकम् ।सर्वतो भद्रलिंगं च सार्वदेशिकमेव च ॥१०८॥धारालिंगं मुखं लिंगं लिंगमष्टविधं भवेत् ।समलिंगं तु विप्राणां नृपाणां वर्धमानकम् ॥१०९॥शैवाधिक्यं तु वैश्यानां शूद्राणां स्वस्तिकं भवेत् ।सर्वेषामितरं लिंगं सर्वकामफलप्रदम् ॥११०॥एवमेव महादेवो लिंगं भेदं नृणां हितम् ।इष्टायामविशाले तु चतुर श्रीकरं पुरा ॥१११॥पश्चाद् भागत्रयं कल्प्य अनेन विधिना बुधः ।चतुरश्रमधोभागं ब्रह्मभागमथोच्यते ॥११२॥मध्ये तु वसुकोणं स्यात् विष्ण्वंशं तत्प्रकीर्तितम् ।ऊर्ध्वभागे तु वृत्तस्य तच्छिवांशेति विद्यते ॥११३॥अंशं प्रत्यविधानेन त्वशेषं तु शिवात्मकम् ।वृक्षस्य मूलमध्याग्रं शाखापुष्पसमन्वितम् ॥११४॥शब्दः स्पर्शश्च रूपं च रसगन्धौ तथैव च ।चर्म चा रुद्रमेकस्य एकैकांशः प्रकीर्तितः ॥११५॥तथाप्यंशभेदयुक्तस्य प्रमाणभेदं न विद्यते ।तथैव शिवलिंगस्य भागं प्रत्यविभिभेदिना ॥११६॥लिंगतारं युगाश्रं तु कृत्वा कर्णार्धकं क्रमात् ।कोणात्कोणं तु संकल्प्य तेन मानेन देशिकः ॥११७॥तद्बाह्ये च्छेदयेद्विद्वान् अष्टाश्रं तद्भवेदिह ।अथवा लिंगतारं तु सप्तभागं विभाजिते ॥११८॥गुणांशं मध्यपट्टं स्याद् छेदयेत्तु बहिर्बुधः ।अथवा वसुभागे तु मध्यपट्टं रसांशकम् ॥११९॥छेदयेत्तु विशेषं तु वस्वश्रत्रिविधा वहि ।अष्टाश्रं पट्टविस्तारे चतुरश्रीकृते सति ॥१२०॥तत्कोणार्धं तु वस्वश्रं कोणात्कोणं तु लांछयेत् ।प्. २४३) तद्बाह्यं तु परिच्छेद्य कलाश्रं तद्भवेदिह ॥१२१॥कलाश्राश्रे तु संछेद्य वृत्ताकारं तु तद्भवेत् ।अष्टाश्रादीनि विन्यासं चतुरश्रं तु लभ्यते ॥१२२॥लिंगायामे त्रिभागे तु एकांशं चतुरश्रकम् ।मध्ये वोमं तु वस्वश्रं अग्रे वृत्तं शिवांशकम् ॥१२३॥समलिंगमिति ख्यातं विप्रादीनां तु वृद्धिदम् ।भानुद्व्यंशे ततायामे सप्तांशं चतुरश्रकम् ॥१२४॥अष्टांशेनाष्टकोणं तु नवांशं वृत्तमुच्यते ।षट्सप्तवसुभागं वा पंच षट्सप्त एव वा ॥१२५॥चतुष्पंचषडंशं वा वर्धमानं चतुर्विधम् ।लिंगायामे दशांशे तु गुणांशं चतुरश्रकम् ॥१२६॥वस्वश्रं चैव तत्तुल्यं युगांशं स्याच्छिवांशकम् ।शिवाधिकमिति ख्यातं अथवान्यप्रकारतः ॥१२७॥वेदवेदशरं वापि पंच पंच षडंशकम् ।षट्षट्सप्तांशकैर्वापि शैवाधिक्यं चतुर्विधम् ॥१२८॥लिंगायामे नवांशे तु चतुरश्रं द्विभागया ।वस्वश्रं तु गुणांशेन वेदाश्रं वृत्तमुच्यते ॥१२९॥स्वस्तिकं ह्येवमाख्यातं सर्वतो भद्रमुच्यते ।मूलादग्रं सुवृत्तं तु लिंगोत्तुंगं त्रिभागिके ॥१३०॥तलवेशं तदेकांशं व्योमांशं योनिबन्धनम् ।पूजाभागं तदेकांशं सर्वतो भद्रमेव हि ॥१३१॥सार्वदेशिकलिंगे तु वृत्ताकारमशेषकम् ।भूतवेदगुणांशं वा लिंगोच्चे तु विभाजिते ॥१३२॥पीठे तु वेशमेकांशं शेषं पूजांशमुच्यते ।सार्वदेशिकलिंगं तु एवमेव प्रकल्पयेत् ॥१३३॥समलिंगोच्छ्रयं नन्दभागं कृत्वा विशेषतः ।षडंशैर्वर्तुलैर्नाहं सप्तांशैर्मध्यनाहकम् ॥१३४॥वसुभागमधोनाहं यत्तत्त्रैराशिकं भवेत् ।सर्वजात्यार्हकं चैव त्रैराशिकमिदं परम् ॥१३५॥मूलादग्रं युगाश्रं तु धारालिंगं तु तच्च वै ।समत्वमूलवेदाश्रं शेषं वस्वश्रमेव वा ॥१३६॥चतुरश्रं अधोभागं अष्टाश्रं मध्यमं भवेत् ।पूजाभागं कलाश्रं तु धारालिंगं त्रिधाभवेत् ॥१३७॥तदाश्रमूर्ध्निपर्यन्तं यवार्धं वा यवान्नतम् ।समलिंगस्य धारस्य सर्वप्राणि हितावहम् ॥१३८॥धारालिंगं समाख्यातं मुखलिंगमथोच्यते ।पूजाभागं त्रिधाकृत्वा ऊर्ध्वभागे मुखं भवेत् ॥१३९॥पंचमूर्ध्नि चतुर्वक्त्रं ग्रीवा चैकसमायुतम् ।कर्णाष्टौ द्वादशाक्षं च सर्वलक्षणसंयुतम् ॥१४०॥लिंगाकारमधस्तस्य तस्याधः पिण्डिकान्वितम् ।अत ऊर्ध्वस्य भागं तु चतुर्विंशच्छतांशकैः ॥१४१॥त्रयवाधिकचन्द्रांशं उष्णीषोच्चमुदाहृतम् ।केशान्तं निम्नभागं स्यात् मुक्तादामलकाकृतिः ॥१४२॥केशान्ताद्दक्ष सूत्रान्तं युगांशं त्रयबाधिकम् ।नेत्रसूत्रात्पुटान्तं च पुटान्ताद् हनुमानकम् ॥१४३॥प्रत्येकं त्र्ययबाधिक्यं युगांशं परिकीर्तितम् ।हन्वादिगलमानं तु चतुर्यवमुदाहृतम् ॥१४४॥यवैकोनयुगांशं तु कर्णोच्चमिति विद्यते ।शेषं लिंगाकृतिख्यातं कल्पयेल्लक्षणान्वितम् ॥१४५॥चतुर्वक्त्रं चैकवक्त्रं वा चतुर्बाहु द्विबाहुकः ।स्तनसूत्रोपरीबिम्बं लक्षणेन समन्वितम् ॥१४६॥हिक्कासूत्रोपरिष्टाद्वा शेषं लिंगाकृतिर्भवेत् ।मुखलिंगमिदं ख्यातं नृपाणामभिवृद्धये ॥१४७॥विष्कम्भमष्टधा कृत्वा मूले मध्ये तदग्रके ।भागहीनं तु संकल्प्य स्थूलमूलमुदाहृतम् ॥१४८॥ह्रासयेच्छिवभागादि शिरःस्थूलं तदुच्यते ।एवमार्षकमाख्यातं ऋषिभिः पूजितं वरम् ॥१४९॥गुणाश्रं पंचकोणं च षट्सप्तद्वादशाश्रकम् ।दशनवाश्रकं चैव अग्रे तारमनोपमम् ॥१५०॥फलका दर्पणाकारं एकरेखमरेखकम् ।शिरसोद्वर्तनं हीनमानोन्मानेनन्वितम् ॥१५१॥दिव्यं स्वायंभुवं चेति ख्यातं देवैः सुपूजितम् ।बाणेन पूजितं भोगे बाणलिंगमुदाहृतम् ॥१५२॥स्थूलं सूक्ष्मं शिरोमूलं क्रमेण परिपठ्यते ।उन्नतं तु मुखं ख्यातं स्पर्शने त्वतिशीतलम् ॥१५३॥बाणलिंगमिदं ख्यातं मधुवर्णसमानवत् ।विष्ठरे तु प्रवेशांशं सार्वदेशिकलिंगवत् ॥१५४॥लोहजं रजतं चैव सार्वदेशिकवत्कुरु ।लिंगभेदं समाख्यातं शिरसोद्वर्तनं शृणु ॥१५५॥लिंगमूर्तादि केशान्तं शिरसोद्वर्तनं भवेत् ।तस्माल्लिंगोदये चोर्ध्वे शिरसोद्वर्तनं द्विज ! ॥१५६॥छत्राकारं भवेत्पूर्वं कुक्कुटाण्डं द्वितीयकम् ।तृतीयं त्रिपुषाकारं अर्धचन्द्रं चतुर्थकम् ॥१५७॥यस्य लिंगस्य विष्कंभं अष्टधा भाजयेद्बुधः ।ऊर्ध्वादर्धांशमालम्ब्य प्रथमं छत्रशीर्षकम् ॥१५८॥द्वात्रिंश द्विभजेत्तारं ऊर्ध्वभूतांशं लम्बितम् ।छत्राभं तु द्वितीयं स्यात् सप्तांशं तु तृतीयकम् ॥१५९॥चतुर्थं तु नवांशं तु छत्राभं तु चतुर्विधम् ।द्विजानां च नृपाणां च छत्राभं सर्वकामदम् ॥१६०॥सर्वेषामपि लिंगानां प्रशस्तं छत्रशीर्षकम् ।व्यासे द्वात्रिंशदंशे तु मनुपक्षकलांशकैः ॥१६१॥सप्तादशांशकं चैव कुक्कुटाण्डं चतुर्विधम् ।वर्धमाने तु लिंगे तु प्रशस्तं क्षत्रियार्हकम् ॥१६२॥द्वाविंशांशे शिरस्तारे धर्मरुद्रांशकैस्तथा ।भानुत्रयोदशांशैस्तु त्रिपुषाभं चतुर्विधम् ॥१६३॥शिवाधिके प्रशस्तं वा वैश्यार्हं सर्वकामदम् ।त्रिंशत्यंशे विशालेऽस्मिन्द्वाविंशत्येक विंशतिः ॥१६४॥विंशदेकोनविंशांशं अर्धचन्द्रं चतुर्विधम् ।स्वस्तिकाख्येषु लिंगेषु कर्तव्यं शूद्रवृद्धिदम् ॥१६५॥सार्वदेशिकलिंगानां अन्येषां च विशेषतः ।छत्रादिशीर्षकाकारो कर्तृजातिवशान्नयेत् ॥१६६॥दैविकार्षकलिंगानां अष्टांशं शीर्षकं भवेत् ।शिरसोद्वर्तनोत्सेधं गुण एकविभाजिते ॥१६७॥युंज्यादंशं तु लिंगोच्चात् शिरसो वर्तनान्वितम् ।उष्णीषमनमाख्यातं शिरोमानं तदुच्यते ॥१६८॥मूर्ध्नि मध्यात्तदंशांतं परितोद्वर्तयेत्क्रमात् ।यावल्लम्बांशसीमान्तं मूर्ध्नि मध्यात् नतम् ॥१६९॥छत्रशीर्षकलिंगानां मूर्ध्नि मध्यात् नतं यवम् ।वक्त्रत्रयसमायुक्तं कर्तव्यं छत्रशीर्षकम् ॥१७०॥शीर्षकाच्छीर्षकात्सर्वं एवं क्रमेणोच्यते ।शीर्षके लिंगतारोच्चं उक्तादन्यं न कारयेत् ॥१७१॥उक्तादन्यं कृतं चेत्तु राजराष्ट्रभयावहम् ।तस्मात् सर्वप्रयत्नेन उक्तमार्गेण कारयेत् ।लिंगलक्षणमाख्यातं पिण्डिकालक्षणं शृणु ॥१७२॥इत्यंशुमान्काश्यपे लिङ्गलक्षणपटलः (एकपंचाशः) ॥५१॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP