संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
वसुभूमिविधानपटलः

अंशुमत्काश्यपागमः - वसुभूमिविधानपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण वसुभूमिविधिं परम्॥
प्रासादमानविधिना संग्राह्यं विसृतोदयम् ॥१॥

त्रयोदशविभागं तु कृत्वा प्रासादविस्तृतम्॥
भूतांशं गर्भगेहं तु द्विभागं गृहपिण्डिका ॥२॥

अलिन्दं चैकभागेन हारा भागेन कल्पयेत्॥
अथवा नवभागेन गर्भगेहं विधीयते ॥३॥

भागेन गृहपिण्डी स्यात् अलिन्दं चैकभागया॥
कुड्यमेकेन कर्तव्यं अलिन्दं तु शिवांशकम् ॥४॥

शशिभागेन हारा स्यात् कल्प्यैवं द्विजसत्तम !॥
विन्याससूत्रयोरन्ते त्रयोदश विभाजिते ॥५॥

प्. १३२) कूटमेकांशमित्युक्तं कोष्ठदीर्घं द्विभागया॥
त्रिभागं मध्यकोष्ठं स्यात् शेषं हारान्तरं भवेत् ॥६॥

तदर्धं पंजरव्यासं भद्रं वाऽभद्र एव वा॥
भानुकोष्ठं चतुष्कूटं कलापंजरसंयुतम् ॥७॥

हारान्तरं तु द्वात्रिंशत्कल्पयेदादिभूतले॥
वर्षस्थलमलीन्दं स्यात् प्रस्तरान्तं घनीकृतम् ॥८॥

तदूर्ध्वभूमिविस्तारं त्रयोदशविभाजिते॥
कूटकोष्ठादि सर्वांगं आदिभूमिमिवैव तु ॥९॥

तस्योर्ध्व भू विशालं तु भानुभागविभाजिते॥
कर्णकूटं तदेकांशं शालादीर्घं द्विभागया ॥१०॥

अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत्॥
पंजरं कूटकोष्ठं च संख्यावादितलोक्तवत् ॥११॥

तदूर्ध्वभूविशालं च भानुभागविभाजिते॥
कूटकोष्ठादिसर्वांगं मानसंख्यैव पूर्ववत् ॥१२॥

तदूर्ध्व भूदशांशे तु कूटकोष्ठं च पूर्ववत्॥
हारान्तरमथार्धांशं लम्बपंजरसंयुतम् ॥१३॥

तदूर्ध्वे भूविशालं तु वसुभागविभाजिते॥
कर्णकूटं तदेकांशं मध्येशाला द्विभागया ॥१४॥

पंजरव्यासमेकांशं अर्धांशं हारयोन्तरम्॥
चतुष्कूटं चतुश्शाला वसुपंजरसंयुतम् ॥१५॥

प्. १३३) हारान्तरं कला प्रोक्तं कल्प्येवं षट्तलं भवेत्॥
तदूर्ध्वे भूविशालं तु षड्भागं विभजेत्समम् ॥१६॥

कूटमेकांशमित्युक्तं मध्ये कोष्ठं द्विभागया॥
अर्धांशं पंजरव्यासं शेषं हारान्तं भवेत् ॥१७॥

तदूर्ध्वे भूविशालार्धं मध्ये दण्डेन निर्गतिः॥
कूटात्कोष्ठस्तु नीव्रा वा मध्यशाला तु नीव्रकम् ॥१८॥

कूटकोष्ठविशेषं तु समसूत्रकमेव वा॥
सप्तसप्त त्रिभागेन कृत्वा गेह समुच्छ्रयम् ॥१९॥

सार्धाग्यंशमधिष्ठानं सप्तांशं चरणोदयम्॥
प्रस्तरं तु स पादाग्निसार्धषट्कांघ्रि तुंगकम् ॥२०॥

मंचमानं गुणांशं तु षड्भागं चरणोदयम्॥
पादोनाग्न्यंश मंचं स्यात् सार्धभूतांघ्रितुंगकम् ॥२१॥

सार्धद्विभागमंचोच्चं कल्पयेत्तु विशेषतः॥
स पादं पंचभागं तु चरणोदयमीरितम् ॥२२॥

प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम्॥
स पादद्विभागमंचं स्यात् पादं पादोन पंचकम् ॥२३॥

मंचमानं द्विभागं तु पादं सार्धयुगांशकम्॥
स त्रिपादांशमंचोच्चं व्योमांशं वेदिकोदयम् ॥२४॥

कण्ठं पादोन पक्षांशं सार्धवेदांश शीर्षकम्॥
कण्ठमानसमं स्थूपी तुंगमित्येव मुच्यते ॥२५॥

प्. १३४) स्थूप्यन्तं तदुपानादि वेदाश्रं परिकल्पयेत्॥
सौष्ठ्यग्रं च युगाश्रं स्यात् स्तंभं प्रत्यल्पनासिकाः ॥२६॥

शिखरे तु चतुर्नासी युक्त्यास्ते तु महत्तरः॥
एकाकारतलं स्तंभं शिवच्छन्दमुदाहृतम् ॥२७॥

तदेव नतशालाः स्युः समंचो सौष्टिकेन ताः॥
वागीशमिति विख्यातं सर्वदेवार्हकं परम् ॥२८॥

तदेव नतकूटं च कोष्ठोन्नताः समंचकाः॥
यागवन्तमिति ख्यातं सर्वदेव प्रियावहम् ॥२९॥

चतुरश्राष्टवृत्ताभसौष्टिकोष्ठं पुनः पुनः॥
विमानशिखरं कण्ठं अष्टाश्रं परिकल्पयेत् ॥३०॥

तदष्टांगमिति ख्यातं मम प्रीतिकरं परम्॥
तदेव कूटकोष्ठं च समंचं वा विमंचकम् ॥३१॥

समोन्नतं तथा नीव्रं नानाधिष्ठान कांघ्रियः॥
नानाचित्रैर्विचित्रं तु पार्वतीमिति विद्यते ॥३२॥

तदेव शिखरं कण्ठं वृत्ताभं परिकल्पयेत्॥
नाम्ना कैलासमित्युक्तं मम प्रीतिकरं परम् ॥३३॥

एवमष्टतलं ख्यातं नवभौममथोपरि॥

इत्यंशुमान्काश्यपे वसुभूमिविधानपटलः (चतुस्त्रिंशः) ॥३४॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP