संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
जीर्णोद्धारपटलः

अंशुमत्काश्यपागमः - जीर्णोद्धारपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेणं जीर्णोद्धारविधिं परम् ।
जीर्णदेहं त्यजेद्देही तदन्यं परिपठ्यते ॥१॥

तदा तज्जीर्णदेहं तु असुरादि गुणाश्रिताः ।
तस्माच्छीघ्रं प्रयत्नेन जीर्णोद्धारं समाचरेत् ॥२॥

लिंग वा प्रतिमाहर्म्यं मण्टपं गोपुरं तु वा ।
प्रकारं परिवारं वा जीर्णास्ते तु स लक्षणम् ॥३॥

तेन द्रव्येण चोत्कृष्टैः पूर्ववत्परिकल्पयेत् ।
पंजरं कूटकोष्ठं वा महानास्यल्पमेव वा ॥४॥

धरातलांघ्रिवस्तूपी वेदीजालकतोरणम् ।
यदंगं तेषु विच्छिन्नं तदंगं प्राग्वदाचरेत् ॥५॥

उपानादौ च सदने भिन्ने छिन्ने तु पातके ।
तांस्त्यक्त्वाद्येष्टकादीनि प्रथमारंभवत्कुरु ॥६॥

मानादिष्वधिकं हीनं कर्तव्यं तत्सलक्षणैः ।
मोहाद्धीने तु वाधिक्ये कर्तुर्वित्तायुषक्षयम् ॥७॥

राष्ट्रक्षोभं सदाप्येते नृपतेर्मृत्युमाचरेत् ।
तस्मात्सर्वप्रयतेन सदनं प्राग्वदाचरेत् ॥८॥

जीर्णावस्थौ तु मानं तद् अनुक्तमार्गेण चाश्रितौ ।
पुनश्शास्त्रोक्तमार्गेणाधिक मानादिभिर्युतम् ॥९॥

कर्तव्यं विजयायुष्यं नृपतेर्नित्यमावहेत् ।
पूर्वमानादिषु क्षीणं पुनः कर्म न कारयेत् ॥१०॥

अति मोहेन कुर्वीत सर्वदोषास्पदं भवेत् ।
परिवारालयं पीठं प्राकारं गोपुरं तथा ॥११॥

प्रतिमामण्टपादीनि मण्टपाश्च सभास्तथा ।
पुरा सुमाननीयापि पुनः कर्माधिकं शुभम् ॥१२॥

सोक्तस्थाने गते वापि पुनर्बाह्यगतं शुभम् ।
प्राग्वच्च सुदृढं कृत्वा संप्रोक्षणमथाचरेत् ॥१३॥

लोहजानां तु बिम्बानां अंगहीनं तु संभवे ।
तदंगं पूर्ववत्कृत्वा स्थापनं सम्यगाचरेत् ॥१४॥

हिक्कादूर्ध्वे तु विच्छिन्ने त्यक्त्वान्यं परिपठ्यते ।
नलकादिषु विच्छिन्ने पादयोर्हस्तयोऽस्तु वा ॥१५॥

तेनैव जीर्णलोहेन पूर्ववद्बिम्बमाचरेत् ।
अब्दत्रयं तु तल्लोहं खात्वा भूमौ विशेषतः ॥१६॥

पश्चादग्नौ द्रुतं कृत्वा पुनर्बिम्बं समाचरेत् ।
मृण्मये वर्णहीने तु पुनः कृत्वा तु पूर्ववत् ॥१७॥

कल्करज्जु मृदो वापि भिन्नच्छिन्नादि संभवेत् ।
तत्तदंगं पुनः कार्यं शूलं चैव तथैव हि ॥१८॥

दारुशूलेष्टका वापि शूलदोषविहीनकम् ।
तदेव संगृहेद्धीमान् दोषाढ्यं परिवर्जयेत् ॥१९॥

लिंगे पीठेश्रहीने तु सूत्रहीने तु वा लिखेत् ।
व्यपोह्य लिंगपीठं च स्थापयेत् पूर्ववद्बुधः ॥२०॥

जीर्णलिंगं च पीठं च बिम्बं वै सागरे न्यसेत् ।
आर्षे च पौरुषे वापि पूर्वमेवा कृतालये ॥२१॥

पश्चात्कृतं शिवं हर्म्यं पूर्वद्रव्यैर्नवाधिकम् ।
कल्पयेत्पंचसालानां बाह्ये बाह्यन्तरेऽपि वा ॥२२॥

मूलवस्तु समं चैवाधिकालयं विशेषतः ।
महामर्यादि सालस्या भ्यन्तरे तु न कारयेत् ॥२३॥

क्षीणालयं प्रकर्तव्यं बाह्ये त्रित्रिगुणानु वा ।
महामर्यादि बाह्ये तु गत्वालयं प्रकल्पयेत् ॥२४॥

उत्तमान्तरमाख्यातं एवमेवं प्रकल्पितम् ।
मर्यादेर्महाशायां बाह्ये वा प्राग्वदन्तरम् ॥२५॥

नीत्वा तु नाशनं कर्तृप्रजानाशं महाव्याधिं विशेषतः ।
कलहंसस्य नाशं च सिध्यते नात्र संशयः ॥२६॥

परितः शेष देवानां भागेषु शिवमन्दिरम् ।
कर्तव्यं विजयायुष्यं पुत्रपौत्रादिवर्धनम् ॥२७॥

यत्रैव कल्पितं हर्म्यं पूर्वे परिपश्चिमाननम् ।
मूलवस्तु समीक्ष्यैवं कल्पयेत्कल्पवित्तमः ॥२८॥

मध्योत्तमान्तरे विप्र ! परिवारसमन्वितम् ।
परिवारविहीनं तु कल्पितं कन्यसान्तरम् ॥२९॥

एवमेवान्य देवानां आलये विप्र कल्पयेत् ।
मूलगेहेर्चितं देवं चान्यं वा तत्र पूजयेत् ॥३०॥

पौषाच्चदार्षकं श्रेष्ठं आर्षाद्वैगाणवं वरम् ।
गाणवाद्देविकं श्रेष्ठं तस्मात्स्वायंभुवं वरम् ॥३१॥

क्षेत्रहर्म्यं समाख्यातं कोटिवृद्ध्युत्तरं फलम् ।
फलार्थिभिः कल्पितं तदनुकर्म द्विजोत्तम ! ॥३२॥

इत्यंशुमान्काश्यपे जीर्णोद्धारपटलः (षण्णवतितमः) ॥९६॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP