संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
प्रस्तरलक्षणपटलः

अंशुमत्काश्यपागमः - प्रस्तरलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण प्रस्तरस्य तु लक्षणम् ।
स्तंभार्धं मंचमानं तु आपोत्सेधांशमेव वा ॥१॥

तदुच्चं त्वेकविंशांशं कृत्वा गुणांशकं तरम् ।
वाजनं चैकभागेन भूतमालां ततं त्रिभिः ॥२॥

भूतमालोपरिष्टात्तु वाजनं त्वेकभागया ।
सप्तांशं तु कपोतोच्चं आलिंगं चैकभागया ॥३॥

अंशेनान्तरितं कुर्यात् प्रत्युत्सेधं गुणांशकम् ।
वाजनं त्वेकभागेन अथवान्यप्रकारतः ॥४॥

तुंगमेकोनविंशांशं कृतोत्तरं त्रिभागया ।
भागेन वाजनं कुर्यात् अग्न्यंशैर्वभी भवेत् ॥५॥

वाजनं त्वेकभागेन कपोतोच्चं रसांशकम् ।
आलिंगमंशमंगेन कुर्यादन्तरितं भवेत् ॥६॥

प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया ।
उत्सेधं चैवमाख्यातं अंगनीव्रमथोच्यते ॥७॥

स्तंभात्तु बोधिकानीव्रं बोधिकादुत्तरं तथा ।
वाजनस्य तु निष्क्रान्तिं उत्तराद्वाजनोन्नतम् ॥८॥

वाजनं वलयीनीव्रं वलभीतुंग सादृशम् ।
त्रिपादं वा तदर्धं वा प्राग्वद् वाजननीव्रकम् ॥९॥

वाजनं तु कपोतस्य नीव्रं होमावसानकम् ।
उपानसीमावसानं वा जगत्यन्तं तथापि वा ॥१०॥

वाजनादर्धदण्डं वा द्विदण्डं सार्धद्विदण्डकम् ।
वाजनं तु कपोतस्य निव्रोच्चालंघनं समम् ॥११॥

कपोतं गोपानसहितं गोपनरहितं तु वा ।
पादबाह्यसमं प्रोक्तं आलिंगप्रतिरुच्यते ॥१२॥

आलिंगान्तरितद्वेशं नीव्रं चोत्सेधसादृशम् ।
वाजनोच्चसमं प्रोक्तं वाजनस्य तु निर्गतिः ॥१३॥

दण्डं त्रिपादमर्धं वा चोत्तरा तस्य नीव्रकम् ।
उत्तरस्यानुकूल्यं तु वाजने नीव्रवेशनम् ॥१४॥

वलभीभूतहंसाद्यैः भूषयेदुत्तरोपरि ।
नानापत्रलताद्यैस्तु कपोते कर्णपालिकाः ॥१५॥

प्रत्यग्रं ककरी बन्धं प्रतिसिंहादिभूषितम् ।
एवं प्रस्तरवर्गं तु प्रोच्यते द्विजसत्तम ! ॥१६॥

इत्यंशुमान्काश्यपे प्रस्तरलक्षणपटलः (अष्टादश) ॥१८ ॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP