संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
स्कन्दलक्षणपटलः

अंशुमत्काश्यपागमः - स्कन्दलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


उत्तमं पंचतालेन स्कन्दं कुर्यात्सलक्षणम् ।
मानोन्मानादयस्सर्वे प्रागुक्तं सर्वलक्षणम् ॥१॥

द्विहस्तं वा चतुर्हस्तं षड्भुजं भानुबाहुकम् ।
शक्तिं बाणं च खड्गं च चक्रं पाशं प्रसारितम् ॥२॥

सर्वे वामे तु पिंछं च खेटकं कुक्कुटं तथा ।
धनुर्दण्डं हलं चैव भानुहस्तान्विते धृतम् ॥३॥

षड्भूजेत्वभयं खड्गं शक्तिं दक्षिणपार्श्वके ।
खेटकं चाक्षमालां च कुक्कुटं वामहस्तके ॥४॥

चतुर्भुजेऽभयं शक्तिं दक्षिणे तु करद्वयम् ।
कुक्कुटं चाक्षमालां च वामहस्तधृतो गुहः ॥५॥

द्विभुजे कुक्कुटं वामे शक्तिं दक्षिणहस्तके ।
अत्रानुक्तं तु यत्सर्वं उमास्कन्दसहितोक्तवत् ॥६॥

स्कन्द लक्षणमाख्यातं ज्येष्ठाविधिमतः परम् ।

इत्यंशुमान्काश्यपे स्कन्दलक्षणपटलः (एकोनपंचाशः) ॥४९॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP