संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| नवभूमिविधानपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - नवभूमिविधानपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत नवभूमिविधानपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण नवभूमिविधिं परम् ।प्रासादमानवत्कार्यं गेहव्यासं तदुन्नतम् ॥१॥पंचादश भजेत्तारं गुणांशं गर्भगेहकम् ।द्विभागा गृहपिण्डी स्यात् अलिन्दं चैक भागया ॥२॥व्योमांशं कुड्यविस्तारं अलिन्दं तत्समं भवेत् ।हाराव्यासं शिवांशेन कल्पयेत्कल्पवित्तमः ॥३॥अथवा षोडशांशं तु प्रासादं विभजेत्ततः ।युगांशं गर्भगेहं तु द्विभागं ग्रहपिण्डिकाः ॥४॥अलिन्दं व्योमभागेन हारा चैव तु तत्समम् ।विन्याससूत्ररन्तं वा कलांशं विभजेत्समम् ॥५॥एकांशं सौष्टिकव्यासं कोष्ठं तद्द्विगुणायतम् ।पंजरव्यासमेकांशं कर्णकूटशिवाकृतिः ॥६॥हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः ।चतुष्कूटाच्चतुश्शाला कलापंजर संयुतम् ॥७॥हारान्तरं च द्वात्रिंशत्कल्पयेदादि भूतले ।एवमेव प्रकर्तव्यं द्वितीयं च महीतलम् ॥८॥तृतीयभूतलव्यासं मुनिभागविभाजिते ।अर्धांशं पंजर व्यासं शेषं पूर्ववदाचरेत् ॥९॥तद्वच्चतुस्तलं चैव कल्पयेत्कल्पवित्तमः ।पंचभूमिविशालं च भानुभागविभाजिते ॥१०॥एकांशं कूटविस्तारं शाला तद्द्विगुणायतम् ।अर्धांशं पंजरव्यासं स्यादर्धं हारयोन्तरम् ॥११॥भानुशाला चतुष्कूटं पंजरं षोडशैव तु ।हारान्तरं तु द्वात्रिंशत् कल्पयेत्कल्पवित्तमः ॥१२॥दशांशं षट्तलव्यासं कृत्वैकांशं तु सौष्टिकम् ।कोष्ठं तद्द्विगुणायामं अर्धांशं हारयोन्तरम् ॥१३॥लम्बपंजरसंयुक्तं हारान्तरं प्रकल्पयेत् ।तदूर्ध्वभूविशालं तु रसभाग विभाजिते ॥१४॥एकांशं कूटविस्तारं कोष्ठदीर्घं तु तद्द्वयम् ।पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् ॥१५॥तदूर्ध्व भूविशालं तु गुणभागविभाजिते ।मध्येंशं दण्डमानेन निर्गमं परिकल्पयेत् ॥१६॥साष्टाशीति द्विभागं तु कृत्वा हर्म्योदयं बुधः ।पादोनचतुरंशं तु धरातलमुदाहृतम् ॥१७॥पादोच्चं सार्धसप्तांशं सार्धाग्न्यंशं तु प्रस्तरम् ।सप्तांशं चरणोच्चं तु सपादाग्न्यंश मंचकम् ॥१८॥सार्धषट्कांघ्रि तुंगं तु गुणांशं मंचमानकम् ।षड्भागं पादमानं तु पादोनाग्न्यंशमंचकम् ॥१९॥पादोच्चं सार्धभूतांशं सार्धपक्षांशमंचकम् ।सपादं पंचभागं तु पादस्योत्सेधमुच्यते ॥२०॥प्रस्तरं सार्ध पक्षांशं भूतांशं चरणोदयम् ।पादाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ॥२१॥पादोनपंचकं पादं प्रस्तरोच्चं द्विभागया ।सार्धवेदांशकं पादं पादोनद्व्यंशमंचकम् ॥२२॥शिवांशं वेदिकोत्सेधं कर्णं चाध्यर्ध भागया ।शीर्षकं सार्धवेदांशं पादोन द्व्यंशकुड्मलम् ॥२३॥पादं प्रत्यल्पनासाढ्यं शीर्षके वेदनासिका ।समंचोन्नतकूटाढ्यं कूटाग्रं चतुरश्रकम् ॥२४॥होमादि स्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ।अशेषमध्यशालास्तु पार्श्वकोष्ठस्तु निर्गतिः ॥२५॥दण्डं वाऽध्यर्धदण्डं वा नाम्ना लम्बितभद्रकम् ।तदेवोन्नतकोष्ठाः स्युः मंचोन्नतकूटकम् ॥२६॥ब्रह्मकान्तमिदं नाम्ना सर्वदेव प्रियावहम् ।समंचं वा विमंचं वा कूटकोष्ठौ समुन्नतौ ॥२७॥प्रादेशमिति विख्यातं देवानां तु हितं परम् ।तदेव शिखरं कण्ठं वस्वश्रं चाष्टनासिकाः ॥२८॥युगाश्रं वसुकोष्ठं च वृत्तं सौष्टि पुनः पुनः ।सौष्ट्यंशेन युगाश्रं वा श्रीवर्धनमिदं परम् ॥२९॥समंचौ कूटकोष्ठौ द्वौ विमंचौ वाथ सादृशौ ।वृत्तग्रीवाशिरोपेतं चतुर्दिग्भद्रनासिकाः ॥३०॥विदिक्षु भद्रनासाढ्य युग्मं वाऽयुग्ममेव वा ।युग्मपंजरसंयुक्तं सुपद्ममिति विद्यते ॥३१॥तदेव प्रतिसौष्ट्यग्रं क्रतुवर्धनमुच्यते ।तदेवगर्भगेहं तु वृत्तं वृत्त गृहं भवेत् ॥३२॥एवं नवतलं ख्यातं दशभूमिमथोपरि ॥३२॥इत्यंशुमान्काश्यपे नवभूमिविधानपटलः (पंचत्रिंशः) ॥३५॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP