संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| सप्तभूमिविधानपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - सप्तभूमिविधानपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत सप्तभूमिविधानपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण सप्तभूमेस्तु लक्षणम् ।प्रासादमानविधिना वासोदयं परिकल्पयेत् ॥१॥प्. १२८) रव्यंशं विभजेत्तारं वेदांशं गर्भगेहकम् ।पक्षांशं भित्तिविष्कम्भं एकेनालिन्दमिष्यते ॥२॥हारान्तरमथांशेन परितः परिकल्पयेत् ।विन्याससूत्रयोरन्तर भान्वंशं विभजेत्समम् ॥३॥एकांशं कूटविस्तारं कोष्ठं त गुणायतम् ।पंजरव्यासमेकांशं शेषं हारान्तरं भवेत् ॥४॥चतुष्कूटाष्टशाला च पंजरं भानुसंख्यया ।तस्योर्ध्वे भूमिविस्तारं धर्मभागविभाजिते ॥५॥कर्णकूटं च कोष्ठं च पूर्ववत्परिकल्पयेत् ।पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् ॥६॥तस्योर्ध्वभूमिविस्तारं पूर्ववद्धर्मभाजिते ।पंजरं कूटकोष्ठं च तद्वदेव विधीयते ॥७॥ऊर्ध्वभूमि नवांशे तु मध्ये शालाग्नि भागया ।व्योमांशं कर्णकूटं स्यात् एकांशं पंजरस्ततम् ॥८॥हारान्तरमथार्धांशं तस्योर्ध्वे वसुभाजिते ।मध्ये शाला द्विभागेन शेषं पूर्ववदाचरेत् ॥९॥तदूर्ध्वे भूमिविस्तारं रसभागविभाजिते ।कूटमेकांशमित्युक्तं शाला तद्विगुणायम् ॥१०॥अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।ऊर्ध्वभूम्यग्निभागैकं मध्ये दण्डेन निर्गमम् ॥११॥प्. १२९) ससप्तषष्टिभागं तु कर्तव्यं सदनोदयम् ।सपादाग्निमधिष्ठानं सार्धषट्कांघ्रि तुंगकम् ॥१२॥तदर्धं मंचमानं तु षड्भागं चरणोदयम् ।स त्रिपाद द्विभागं तु मंचमानमुदाहृतम् ॥१३॥सार्धभूतांशमंघ्र्युच्चं सार्धद्व्यंशं तु प्रस्तरम् ।सपादं पंचभागं तु स्तंभमानमुदीरितम् ॥१४॥प्रस्तारं चार्धपंचांशं भूतांशं चरणोदयम् ।सपादद्विभागमंचं स्यात् स त्रिपादयुगांशकम् ॥१५॥चरणोदयमित्युक्तं प्रस्तरोच्चं द्विभागया ।पादोच्चं सार्धवेदांशं पादोन द्व्यंशमंचकम् ॥१६॥व्योमांशं वेदिकोत्सेधं पादोन द्व्यंशकं गलम् ।अर्धाधिक युगांशं तु शीर्षकोदयमिष्यते ॥१७॥पक्षांशं स्थूपिमानं तु गण्यं सप्ततलं विदुः ।पंजरं कूट कोष्ठं च समसूत्रे तु कल्पितम् ॥१८॥होमादग्रं युगाश्रं तु शिखरे वेदनासिका ।शाला षट्त्रिंशतिर्युक्तं भानुद्द्विगुणकूटकम् ॥१९॥षष्टिपंजरसंयुक्तं पादं प्रत्यल्पनासिका ।नानाधिष्ठानसंयुक्तं एकाकारमथापि वा ॥२०॥एकानेकाकृतिर्वांघ्रिसमुज्वलनमुदाहृतम् ।तदेवोन्नतकूटाः स्युः सान्तरप्रस्तरान्वितम् ॥२१॥प्. १३०) श्रीछन्दसमिति ख्यातं सर्वदेवार्हकं परम् ।तदेव नतकूटं च कोष्ठोन्नतसमंचकाः ॥२२॥श्रीविशालमिति ख्यातं सर्वदेवप्रियावहम् ।तदेव शीर्षं कर्णं च * * श्रं वेदिकायतम् ॥२३॥श्रीकान्तमिति विख्यातं कूटकोष्ठसमं तु वा ।समं चोन्नतकूटं वा श्रीप्रदं तदुदाहृतम् ॥२४॥तदेव वृत्तशिखरं स्थूपिश्चैव गलं तथा ।रुद्रकान्तमिदं ख्यातं रुद्रप्रीतिकरम् परम् ॥२५॥तदेव कर्णकूटास्तु वेदाश्राष्टाश्रमंडलम् ।क्रमेणादि तलात्कल्प्य वृत्तभद्रमिदं स्मृतम् ॥२६॥तदेवोन्नत कूटं च नतलाला समन्वितम् ।कूटानां मस्तकं वृत्तं सुवृत्तमिति विद्यते ॥२७॥सोन्नतं कूटकोष्ठं च पंजरान्तरमंचकम् ।यथेष्टं शिखराकारं कण्ठः स्थूपी घटस्तथा ॥२८॥युगाश्र शीर्षकोपेतं कर्णकूटं प्रकल्पयेत् ।शिवभद्रमिति ख्यातं शिवप्रीतिकरं परम् ॥२९॥तदेव कूटकोष्ठं च दण्डं वाध्यर्ध दण्डकम् ।द्विदण्डं वाथ निष्कान्तं भद्रं वा भद्रपंजरम् ॥३०॥नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् ।नानाचित्रैर्विचित्रं तु शिवसौख्यमुदाहृतम् ॥३१॥प्. १३१) तदेव गर्भगेहं वा वृत्तं वाथ युगाश्रकम् ।वृत्तमेवं हि बाह्यं तु वृत्ताभं सौष्टिकान्वितम् ॥३२॥शेषं पूर्ववदुद्दिष्टं नाम्ना सर्वांगमंगलम् ।पंजरं कूटकोष्ठं च अन्तरं प्रस्तरान्वितम् ॥३३॥यथेष्टशिखराकारं श्रीप्रतिष्ठितमुच्यते ।एवं सप्ततलं ख्यातं वसुभौममथोच्यते ॥३४॥इत्यंशुमान्काश्यपे सप्तभूमिविधानपटलः (त्रयस्त्रिंशः) ॥३३॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP