संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| मानादिसूत्रलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - मानादिसूत्रलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत मानादिसूत्रलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण प्रासादं मानलक्षणम् ।प्रासादं सदनं सद्म हर्म्यं धाम निकेतनम् ॥१॥मन्दिरं भवनं व्यासं गेहं दिव्यविमानकम् ।आस्पदं चाश्रयं चैव आधारं च मनोहरम् ॥२॥आशाममाव्रतं धिष्ण्यं एवं पर्याय वाचकाः ।यस्मादणुपशो नास्ति परमाणुस्स उच्यते ॥३॥अणवोष्टौ रथारेणुः स्यादथरेण्वष्टकं पिचुः ।पिचूणामष्टको यास्तु केशाग्रमिति संज्ञितम् ॥४॥बालानां तद्धिकेशं स्यात् अग्रं तद्वपनात्पुरा ।तत्केशाग्राष्टकायास्तु लिख्यं तदुचदाहृतम् ॥५॥लीख्याष्टकोस्तु यूकंस्या यूकाष्टकयवं भवेत् ।यवमष्टगुणं मानं अंगुलं तदुदाहृतम् ॥६॥सप्तसंख्यायवं तारं मध्यमांगुलमुच्यते ।षट्संख्यायवतारं स्यात् अधमांगुलमितिस्मृतम् ॥७॥शाल्यायामचतुष्कं तु उत्तमांगुलि संज्ञितम् ।त्रिसार्धाशालिदीर्घं तु मध्यमा इति संज्ञिताः ॥८॥शाल्या च दीर्घ त्रिगुणं अधमं तदुदाहृतम् ।श्वेतशालीमहाशाली रक्तशाली तथैव च ॥९॥सौगन्धी हेमशाली च शालयः पंचधा स्मृताः ।रक्तशाल्यायतं तेषु अंगुलार्धं तु संगृहेत् ॥१०॥एवं हि षड्विधं प्रोक्तं मानांगुलं द्विजोत्तम ।चन्द्रस्थिवोऽवकाशं च व्योममेकांगुलाख्यकम् ॥११॥अक्षिपक्षाश्विनी चैव द्वितीयांगुलिसंज्ञिताः ।कालं चानलरुद्राक्षं शूलं चालेखनं गुणम् ॥१२॥तृतीयांगुलसंज्ञास्ते वेदाब्धीयुगवर्धकम् ।चतुरंगुलिसंज्ञास्ते बाणं भूतेन्द्रियामृतम् ॥१३॥पंचांगुलस्य संज्ञास्ते ऋतुषट्कौशिकं च वै ।रसगायत्रिकृत्तिका षडंगुलस्य संज्ञका ॥१४॥पातालमृषिधातुर्वा सप्तांगुलस्य संज्ञका ।मातृलोकस्वराश्चैव सप्तांगुलाभिधायकः ॥१५॥हस्ति पर्वतनागाश्च वसवो मूर्तयस्तथा ।अष्टांगुलस्य संज्ञास्ते शक्तिद्वार ग्रहास्तथा ॥१६॥सूत्रनन्दनवं नाट्यं बीजाश्चैव नवांगुलाः ।नाडिकाष्ठायुधं धर्म दशांगुलस्य संज्ञकाः ॥१७॥ईशानश्चेश्वरो रुद्रस्त्वेकादशांगुलाख्याः ।अब्दं भारं च भानुं च द्वादशांगुलसंज्ञकाः ॥१८॥चन्द्रादित्यशिवांशं च त्रयोदशांगुलाख्यकाः ।ऋषिद्वयमनुश्चैव चतुर्दशांगुलाख्यकाः ॥१९॥पक्षश्चैव तिथिश्चैव पंचादशांगुलाः स्मृताः ।कलामूर्तिद्वयं चैव षोडशांगुलसंज्ञकाः ॥२०॥पंक्तिर्विंशति त्रिंशच्च चत्वारिंशत्तथैव च ।पंचाशत्षष्टिसप्तत्याशीतिश्च नवतीशतम् ॥२१॥प्रत्ययस्त्रिषु षष्टिश्च जगती सुगतिस्तथा ।शक्वरी सशक्वरी च तुष्टिपुष्टिधृतिस्तथा ॥२२॥सुधृती च दशाद्यादि शतान्तान्नाम गीयकम् ।एकं दश शतं चैव सहस्रमयुतं तथा ॥२३॥नियुतं प्रयुतं कोटी सार्बुदं बृन्दखर्विनी ।खर्वं च शंख पद्मं च समुद्रमध्यमं तरम् ॥२४॥आद्यं परं परार्धं च दशवृद्ध्या प्रकीर्तिताः ।श्रेष्ठमध्यान्तरैर्वान्यैः तालं भान्वंगुलं भवेत् ॥२५॥भानुद्वयांगुलं किष्कु हस्तमित्युच्यते द्विज ! ।श्रेष्ठमध्याधमैर्मात्रैः कल्प्य हस्तं तथोदितम् ॥२६॥चतुष्कं भवेद्दण्डं तेन वास्तुनिमापयेत् ।पंचविंशति मात्रं स्यात् प्राजापत्यं करं बुधः ॥२७॥षट्विंशति धनुर्मुष्टिः सप्तविंशद्धौर्ग्रहम् ।अष्टाविंशांगुलं प्राच्यं वैदेहं नवविंशतिः ॥२८॥वैपुल्यं त्रिंशदंगुल्यं एकत्रिंशत्प्रकीर्णतम् ।एवमष्टविधं हस्तं प्रत्येकं द्विजसत्तम ! ॥२९॥अधमं मध्यमोत्कृष्ट भेदेनैवं द्वयं द्वयम् ।धनुर्ग्रहप्रकीर्णाभ्यां द्विजानां गृहमारभेत् ॥३०॥वैपुल्यधौर्मुष्टिभ्यां क्षत्रियाणां गृहं कुरु ।प्राजापत्यकरं चैव वैदेहं वैश्ययोग्यकम् ॥३१॥किष्कुप्राच्यकरं चैव शूद्रजात्यर्हकं भवेत् ।अधिकजात्यहं हस्तं हीनं तत्तद् विसर्जयेत् ॥३२॥हीनजात्यर्हकं हस्तं अधिकानां शुभावहम् ।सर्वेषामुदितं हस्तं मानं सद्मनि पूजितम् ॥३३॥अन्याश्च सर्वदेवानां योग्यं सद्मनि मानयेत् ।अथवा किक्षुहस्तं तु सर्वजात्यर्हकं भवेत् ॥३४॥यानानि शयनानी च किक्षुहस्तेन मानयेत् ।आरामोद्यानखादीनि प्राजापत्यकरेण तु ॥३५॥धनुर्मुष्टिकरेणैव ग्रामादयस्तु मानयेत् ।धनुर्ग्रहेण वाप्यादि नद्याध्वानं च मानयेत् ॥३६॥सर्ववास्तुनि वा किक्षु हस्तेनैव द्विजोत्तम ! ।त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥३७॥नवपंक्तिकरान्तं तु आभासैकतलं भवेत् ।एवमष्टविधं मानं युग्मायुग्मं चतुश्चतुः ॥३८॥पंचषढस्तमारभ्य द्विद्विहस्तविवर्धनात् ।रुद्रभानुकरान्तं तु आभास द्वितकाऽष्टधा ॥३९॥सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ।तिथिकलाकरान्तं तु आभास त्रितलं दश ॥४०॥ग्रहकर्मसमारभ्य सप्ताष्टाधिकपंक्तयः ।चतुष्पंचतलं वाथ युग्मायुग्मं च ते दश ॥४१॥विस्तारं सप्तषट्पंच भागं कृत्वा द्विजोत्तम ! ।रसभूतयुगांशं तु विस्तारा द्रोपयेत्क्रमात् ॥४२॥विस्तारद्विगुणं चैव तस्मादष्टांशमाधिकम् ।पंचधाभ्युदितं तुंगं आभासे सदने द्विज ! ॥४३॥शान्तिकं पौष्टिकं चैव जयदं चाद्भुतं तथा ।सार्वकामिकमित्येते अभिधानं क्रमाद्भवेत् ॥४४॥हस्तश्चेते तु वृध्या वा अन्या वा पूर्णमाचरेत् ।आभासं हर्म्यमाख्यातं विकल्पमधुना शृणु ॥४५॥नवपंक्तिकरात्पंच षट्पंचाशत्करान्तकम् ।द्विद्विहस्तविवृद्ध्या तु चतुर्विंशति संख्यया ॥४६॥पंचभूमी समारभ्य यावदर्कतलं क्रमात् ।अधमं मध्यमोत्कृष्टं त्रयोभेदतलं प्रति ॥४७॥सप्ताष्टाधिकपंक्त्यादि त्रित्रिहस्तविवर्धनात् ।षट्सप्ताष्टाधिकाशीत्यन्तं उच्चं प्रागिव संख्यया ॥४८॥एवं विकल्पमाख्यातं छन्दमार्गमतःशृणु ।त्रिचतुर्दशहस्तादि द्विद्विहस्त विवर्धनात् ॥४९॥पंचषट्षष्टि हस्तानां व्यासं वै सप्तविंशतिः ।वेदभूमिं समारभ्य भानुभूमावसानकम् ॥१५०॥अधमं मध्यमोत्कृष्टं मानं स्यूर्वै तलं प्रति ।सप्ताष्टदशहस्तादि त्रित्रिहस्तविवर्धनात् ॥५१॥पंचषण्णवतिर्यावत् उच्चं प्रागिव संख्यया ।अधमं मध्यमोत्कृष्टं तुंगभेदं तलं प्रति ॥५२॥छन्दमेवं समाख्यातं जातिहर्म्यमतः शृणु ।सप्ताष्टदशहस्तादि द्विद्विहस्तविवर्धनात् ॥५३॥यावत्सप्ततिहस्तान्तं सप्तविंशति संख्यया ।चतुर्भूमिसमारभ्य यावदर्कतलावधि ॥५४॥तावद्विस्तारमाख्यातं उत्सेधं शृणु सुव्रत ! ।एकद्वाविंशहस्तादि त्रित्रिहस्तविवर्धनात् ॥५५॥यावदाशतहस्तान्तं उच्चं प्रागुक्तसंख्यया ।अधमं मध्यमोत्कृष्टं उत्सेधं वै क्रमोदितम् ॥५६॥एवं जातिविमानं तु सप्तविंशति बोदितम् ।जातिच्छन्दविकल्पं च आभासेन द्विजोत्तम ! ॥५७॥महतीष्यन्तराल्पं च क्षुद्रनाम्ना क्रमोदिताः ।युगाश्रेत्युक्तमाने तु मानसूत्रं तु विन्यसेत् ॥५८॥तदर्धाकृति हर्म्याणां वेदाश्रे गर्तपूरणम् ।यत्रैव वर्जितं यत्तत्मानसूत्रं विधीयते ॥५९॥प्रासादानां तु विस्तारं भित्तिपाद्बाह्यमेव वा ।तत्पादाभ्यन्तरान्तं वा तत्पादमध्यमं तु वा ॥६०॥उत्सेधं तदुपानादिस्तूप्यन्तं वा शिरोन्तकम् ।सभामण्टपशालानां भित्तिमध्यावसानकम् ॥६१॥भित्तिमध्यांघ्रि बाह्ये वा मध्ये वा भ्यन्तरेऽपि वा ।भित्ति बाह्यगतां घ्रौ तु बाह्ये वाऽभ्यन्तरेपि वा ॥६२॥तदंघ्रि मध्यावसानं वा मानसूत्रं द्विजोत्तम ! ।भित्तिव्यासे तु भान्वंशे बाह्येऽथात्वंशकं व्रजेत् ॥६३॥अभ्यन्तरयुगांशं तु त्यक्त्वा शेषं द्विजोत्तम ! ।भित्ति मध्यांघ्रिविस्तारं अंघ्रिस्थाने निवोच्यते ॥६४॥भित्ति बाह्ये गतं पादं प्रागेव प्रोच्यतेऽथवा ।शालांनां भित्ति मध्ये वा बाह्ये वाऽभ्यन्तरेऽपि वा ॥६५॥यानानां शयनानां च पादमध्ये मानसूत्रकम् ।मानसूत्रं समाख्यातं सर्वेषां सदनादिनाम् ॥६६॥मानसूत्रं तु बाह्ये तु कूटशालादि नीव्रकम् ।कूटस्योक्त विशालं वा त्रिपादं वार्धमेव वा ॥६७॥पादं सार्धं सपादं वा मानसूत्राद्बहिर्गतिः ।अथवादण्डमानेन कूटादीनां तु निर्गतिः ॥६८॥दण्डं वाध्यर्धदण्डं वा द्विदण्डं वार्धद्विदण्डकम् ।त्रिदण्डं वाथ निष्क्रान्तं मानसूत्रात्तु बाह्यतः ॥६९॥मानस्याभ्यन्तरे वेशं विपदामास्पदं सदा ।तस्मात्सर्वप्रयत्नेन मानसूत्राद्बहिर्गतम् ॥७०॥एतद्विन्याससूत्रं वा समसूत्रं समं तु वा ।होमबाह्यगतं सूत्रं अवसानमुदाहृतम् ॥७१॥मानविन्याससूत्रं च अवसानं च ते त्रिधा ।ख्यातं संक्षेपतो विप्रा ! शृणुष्वायादि लक्षणम् ॥७२॥इत्यंशुमान्काश्यपे मानादिसूत्रलक्षणपटलः (द्वाविंशः) ॥२२॥ N/A References : N/A Last Updated : November 03, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP