संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
मण्टपलक्षणविधिपटलः

अंशुमत्काश्यपागमः - मण्टपलक्षणविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


शिरस्सन्धानमीशेन मकुटं कवचेन तु ।
अस्त्रेण हस्तसन्धानं पादौ सद्येन सन्धयेत् ॥१॥

पादाद्यंगानि सर्वाणि आत्मवत्परिकल्पयेत् ।
आदौ पश्चात्तु संधानं क्रमात्संपूर्णमाचरेत् ॥२॥

उपांगं तु ततः कुर्याद् प्रत्यंगं तु ततः कुरु ।
अष्टत्रिंशत्कलान्यासं स्थानमंगमुदाहृतम् ॥३॥

वस्त्रमाभरणं शस्त्रं सूत्रं चोपांगमिष्यते ।
धर्मतालात्त्रितालान्त श्रेष्ठान्तराधमं त्रिधा ॥४॥

उत्तमं दशतालाख्यं चतुर्विंशच्छतांगुलम् ।
मध्यमं दशतालं स्या भनुपंक्त्यांगुलं भवेत् ॥५॥

कलाधिकशतांगुल्यं अधमम् दशतालकम् ।
सद्वादशशतं भागं नव तालोत्तमं भवेत् ॥६॥

अष्टोत्तरशतांशं तु मध्यमं नवतालकम् ।
कन्यसं नवतालं स्याद् वेदाधिकशतं भवेत् ॥७॥

तालं प्रत्येवमेवं तु क्रमाद्वेदांगुलं हरेत् ।
उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वरान् ॥८॥

मध्यमं दशतालेन उमां सरस्वतीं तथा ।
उषाभूमी च दुर्गां च लक्ष्मी वै मातरस्तथा ॥९॥

गुहं शतमखं चैव चण्डेशं क्षेत्रपालकम् ।
कन्यसं दशतालेन कारयेद्द्विजसत्तम ! ॥१०॥

वसवश्चाष्टमीमूर्तीश्च विद्येशान्लोकपालकान् ।
अन्ये च देवताश्चैव नवतालोत्तमेन तु ॥११॥

यक्षाप्सरगणाश्चैव अष्टमूर्ती मरुद्गणाः ।
पंचतालोत्तमेनैव विघ्नेशं कारयेद्बुधः ॥१२॥

तन्मध्यमाधमेनैव सर्वभूतगणान्कुरु ।
बालास्तु वेदतालेन त्रितालेनैव किंनरः ॥१३॥

किं पुरुषादयश्चैव त्रितालेनैव कारयेत् ।
एवं तालक्रमं प्रोक्तं बेराणामनुकूल्यकम् ॥१४॥

अथ वक्ष्ये विशेषेण मण्टपानां तु लक्षणम् ।
प्रासादे त्वेकभूमौ तु प्रोच्यते मुखमण्टपम् ॥१५॥

जातिश्छन्दविकल्पं च आभासानां तथैव च ।
प्रासादाभिमुखे चैव दिशासु विदिशासु च ॥१६॥

ग्रामादीनां तु मध्ये वा दिशासु विदिशासु च ।
उद्याने वा नदी तीरे तटाकर्तार एव वा ॥१७॥

देवार्थं मण्टपं कुर्यात् यथेष्टं मुखसंयुतम् ।
प्रासादस्याग्रके कुर्यात् मण्टपं चतुरश्रकम् ॥१८॥

मुखमण्टपमादौ तु प्रतिमा मण्टपं तथा ।
स्नपनार्थं तृतीयं तु नर्तनान्तु चतुर्थकम् ॥१९॥

तेषु प्रथमं प्राग्वत् द्वितीयादिमिहोच्यते ।
अन्तर्मण्डलहारादि अन्तर्हारान्त वा कुरु ॥२०॥

मण्टपं तु त्रयं कल्प्य शेषं बाह्ये यथेष्टदिक् ।
मण्टपान्मण्टपान्तं तु सालाद्वा मण्टपान्तकम् ॥२१॥

अन्तरालमिति ख्यातं आदौ तल्लक्षणं शृणु ।
एकद्वित्रिचतुष्पंच षट्सप्ताष्टकरं तु वा ॥२२॥

नवधर्मकरं वापि रुद्रहस्तमथापि वा ।
अन्तरालविशालं तु रुद्रसंख्याः प्रकीर्तिताः ॥२३॥

यत्र यन्मण्टपं कुर्यात् तस्मिन्भक्त्या विशेषतः ।
एकद्वित्रिचतुष्पंच भक्त्या वाभ्यन्तरालकम् ॥२४॥

सावकाशान्तरालं वा भित्तिबन्धमथापि वा ।
भित्तिबन्धान्तरालं चेत् पार्श्वयोर्वेशसंयुतम् ॥२५॥

एकद्वित्रियपादं वा वेशं भक्त्यैकमेव वा ।
पार्श्वयोर्मध्यमे द्वारं जालकं वा प्रकल्पयेत् ॥२६॥

उत्तरे जलधारां च स्नानार्थं परिकल्पयेत् ।
अयुग्मकां वा भित्तिर्वाऽभ्यन्तरालं द्विजोत्तम ! ॥२७॥

अधिष्ठानादि सर्वांगं मण्टपस्य समं भवेत् ।
अथवा वेशहीनं तु मण्टपस्य समम् भवेत् ॥२८॥

अन्तरालं समाख्यातं शृणुमण्टपमानकम् ।
त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् ॥२९॥

यावदेकोन विंशं तु नवधा मण्टपस्ततम् ।
आभास सदनानां तु आभासं मण्टपस्त्विमे ॥३०॥

एकविंशति हस्तादि द्विद्विहस्तविवर्धनात् ।
सप्तत्रिंशति हस्तान्तं विकल्पं नवधा भवेत् ॥३१॥

आभासानां तु तद्योग्यं स्वस्वयोग्यमथापि वा ।
नवत्रिंशत्करारभ्य द्विद्विहस्त विवर्धनात् ॥३२॥

पंचाधिकं तु पंचाशत् करान्तं छन्दमुच्यते ।
सप्तपंचाशदारभ्य द्विद्विहस्तविवर्धनात् ॥३३॥

साग्निसप्तति हस्तान्तं विस्तृतं जातिरुच्यते ।
तद्विस्तारसमं दीर्घं समश्रं मण्टपं भवेत् ॥३४॥

अध्यर्ध हस्तमारभ्य षट्षडंगुल वर्धनात् ।
पंचहस्तावधिर्यावत् भक्तिव्यासं त्रिपंचधा ॥३५॥

अर्धहस्तं समारभ्य यावत्पंचकरावधि ।
गुणांगुल विवृद्ध्या तु भक्तिव्यासं प्रकल्पयेत् ॥३६॥

सार्ध द्विहस्तमारभ्य षट्षडंगुल वर्धनात् ।
अष्टहस्तावधिर्यावत् त्रयोविंशांघ्रिभेदकम् ॥३७॥

उपानादुत्तरान्त स्व गुणांगुल विवर्धनात् ।
स्तम्भानामुदयं ह्येवं स्तम्भव्यासमथोच्यते ॥३८॥

वस्वंगुलं समारभ्य अर्धांगुलविवर्धनात् ।
एकोनविंशमात्रान्तं त्रयोविंशांघ्रिविस्तरम् ॥३९॥

पादोच्चं भानुरुद्रांशे दशनवाष्टांश वा भजेत् ।
मूलतारं तदेकांशं तत्तदंशो नवाग्रकम् ॥४०॥

तलीपार्धतलोत्तुंगं सामान्यं सर्वमण्टपम् ।
तलिपोच्चं तु भूतांशे द्विभागं वा तलोदयम् ॥४१॥

अंघ्रितुंगाग्निवेदैक भागं वापि मसूरकम् ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥४२॥

धरातल समोच्चं वा द्विगुणं त्रिगुणं तु वा ।
उपपीठोदयं ख्यातं उपपीठोच्छ्रयं तु वा ॥४३॥

उपपीठमधिष्ठानं चरणं प्रस्तरं तथा ।
नीव्रवेशमलंकारं गण्यं प्रागिव विद्यते ॥४४॥

भक्तित्रयसमायुक्तं षोडशस्तम्भसंयुतम् ।
कलाल्पनासिकोपेतं मध्ये कूटं तु एव वा ॥४५॥

मण्डितं वाथ सर्वत्र चतुर्द्वार युतं तु वा ।
इष्टदिग्द्वारमेवं वा द्वयजालककोष्ठदिक् ॥४६॥

बाह्ये सोपानसंयुक्तं चित्रं तत्तोरणादिभिः ।
तोरणादि विहीनं वा कल्प्येवं प्रथमं भवेत् ॥४७॥

चतुर्भक्त्या विशालं तु इष्टदिग्द्वारसंयुतम् ।
पूर्वे परे द्विभक्त्यैकं भक्त्या विस्तृत नीव्रकम् ॥४८॥

मध्यस्थांघ्रिं परित्यज्य ऊर्ध्वे कूटद्विभक्तिकम् ।
भानुद्विगुणसंख्यांघ्रि युक्तं विंशतिनासिका ॥४९॥

द्वाराशासु च सोपानं कर्णे लांगल भित्तिकम् ।
वसुपंजरसंयुक्तं द्वितीयं मण्टपं भवेत् ॥५०॥

पंचभक्त्या युगाश्रं तु मध्ये कूटं त्रिभागया ।
मण्टपं परित्ॐशेन द्वात्रिंशच्चरणान्वितम् ॥५१॥

भानुद्विगुणनासाढ्यं पंजराष्टकसंयुतम् ।
इष्टदिग्द्वारसंयुक्तं द्वारान्यत्रैव कुड्यकम् ॥५२॥

द्वारस्थाने तु सोपानं सर्वालंकारसंयुतम् ।
कुड्यं कुंभलताद्यैस्तु भूषितं तु तृतीयकम् ॥५३॥

चतुरश्रं तु षड्भक्त्या मध्ये कूटं द्विभागया ।
तत्कूटमष्टपादाढ्यं मध्ये रंगसमायुतम् ॥५४॥

चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा ।
द्विभक्तिविस्तृतं चैव भक्त्या नीव्रं समायुतम् ॥५५॥

इष्टदिग्भद्रसंयुक्तं चतुर्दिग्भद्रमेव वा ।
चत्वारिंशति चाष्टांघ्रि युक्तं वा तत्र योजयेत् ॥५६॥

चतुर्विंशाल्पनासाढ्यं कुड्यं कुंभलतान्वितम् ।
तोरणाष्टकसंयुक्तं चतुर्थं मण्टपान्वितम् ॥५७॥

चतुरश्रं तु सप्तांशं षष्ठ्यंघ्रिकसमायुतम् ।
नवभागेन तन्मध्ये कूटं वा मण्दितां कणम् ॥५८॥

द्वात्रिंशदल्पनासाढ्यं चतुर्दिग्भद्रसंयुतम् ।
त्रिभागैकांशविस्तारं निर्गमं मुखभद्रकम् ॥५९॥

मध्ये रंगसमोपेतं इष्टदिक्कुड्यसंयुतम् ।
सर्वालंकारसंयुक्तं पंचमं परिकीर्तितम् ॥६०॥

युगाश्रमष्टभक्त्या तु अशीति चरणान्वितम् ।
चतुर्भागेन तन्मध्ये ह्यूर्ध्वकूटं प्रकल्पयेत् ॥६१॥

चतुर्दिग्द्वारसंयुक्तं मध्येकांशेन कूटकम् ।
सर्वालंकारसंयुक्तं षष्ठमं मण्टपं भवेत् ॥६२॥

नवभक्त्या युगाश्रं तु शतं पादसमन्वितम् ।
गुणांशकांशविंशं तु नीव्रभद्रं चतुश्चकः ॥६३॥

चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा ।
मुखे सोपानमग्न्यंशैः व्यासदीर्घसमन्वितम् ॥६४॥

मध्यरंगसमायुक्तं षडष्टौ नासिकान्वितम् ।
सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् ॥६५॥

चतुरश्रं दशांशं तु भान्वाधिकदशांशकम् ।
मध्ये चैवाष्टदिशि च नवकूटसमायुतम् ॥६६॥

कूटं पूरिवृतांशेन अन्तरालं प्रकल्पयेत् ।
प्राग्वन्मुखेन सोपानं दिशि भद्रसमन्वितम् ॥६७॥

सर्वालंकारसंयुक्तं अष्टमं मण्टपं भवेत् ।
रुद्रभक्त्या युगाश्रं तु मध्येऽग्न्यंशेन कूटकम् ॥६८॥

मुखे सोपानसंयुक्तं इष्टदिग्भद्रसंयुतम् ।
द्वारान्यत्रैव कुड्यं वा इष्टभागावसानकम् ॥६९॥

सर्वालंकारसंयुक्तं नवमं मण्टपं भवेत् ।
द्वादशांशे युगाश्रं तु मध्ये द्व्यंशेन कूटकम् ॥७०॥

मण्टपस्य तु बाह्ये तु अंशेनालिन्दमिष्यते ।
चतुर्द्व्यंशेन विस्तारं निष्क्रान्तं स्याच्चतुर्दिशि ॥७१॥

साष्टषष्टिशतं पादं मध्यरंगे तु कल्पयेत् ।
सर्वालंकारसंयुक्तं दशमं मण्टपं भवेत् ॥७२॥

युगाश्रं त्रयोदशांशेन मध्येऽग्न्यंशेन कूटकम् ।
इष्टदिक्कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् ॥७३॥

प्राङ्मुखे नन्दभागेन मुखभद्रं प्रकल्पयेत् ।
सद्वयं नवतीयुक्तं अंघ्रि च समन्वितम् ॥७४॥

तोरणैर्जालकैश्चान्यैः अलंकारसमन्वितम् ।
सर्वालंकारसंयुक्तं रुद्रांशं मण्टपं भवेत् ॥७५॥

मनुभागैर्युगाश्रं तु मध्ये द्व्यंशेन कूटकम् ।
वेदाधिक्यं तु विंशांशं द्विशतं चरणान्वितम् ॥७६॥

मण्टपं कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् ।
नन्दादि भद्रसंयुक्तं इष्टभक्त्या विशेषतः ॥७७॥

सर्वालंकारसंयुक्तं द्वादशं मण्टपं भवेत् ।
त्रिपंचभित्तिविस्तारं आयतं चतुरश्रकम् ॥७८॥

मध्ये कूटं गुणांशेन ऊर्ध्वकूटसमन्वितम् ।
गुणांशं विस्तृतायामं मुखभद्रसमन्वितम् ॥७९॥

इष्टदिक्कुड्यसंयुक्तं अन्यत्रांघ्रिसमन्वितम् ।
तोरणैर्जालकैश्चान्यैः अलंकृत्य समन्वितम् ॥८०॥

पंचाशद्द्वयवाधिक्यं द्विशतं चरणान्वितम् ।
सर्वालंकारसंयुक्तं मण्टपं तु त्रयोदश ॥८१॥

एवं हि मानभेदेन युगाश्रं मण्टपं विदुः ।
इत ऊर्ध्वं चतुस्त्रिंशत् दशसीमावसानकम् ॥८२॥

चतुरश्रं मण्टपं कुर्यात् सर्वालंकारसंयुतम् ।
भित्तिस्तम्भं च परितः कर्तुरिच्छावशान्नयेत् ॥८३॥

समाश्रमण्टपं कुर्यात् आयताश्रमथोच्यते ।
विस्तारभित्तितुल्यं वा यातं वा यतभित्ति यः ॥८४॥

विस्तारं भक्तिमानं तु गुणांगुलविवर्धनात् ।
सप्तविंशांगुलं यावत् तावत्पादेन वोदितम् ॥८५॥

वृद्ध्या क्षीणं तु यावाऽथ मण्टपानां करोदितम् ।
नाश्रये तु करं पूर्य मण्टपं तु समाचरेत् ॥८६॥

अंशेष्टपादसंख्या तु प्राग्वदायादिमाचरेत् ।
आयादीष्ट शुभौपेतं मण्टपस्य तदायतम् ॥८७॥

तस्योचित विभागं तु कृत्वा वा मण्टपं कुरु ।
भक्तित्रयविशालं तु पंचभक्त्यायतान्वितम् ॥८८॥

एकपार्श्वे पुरे वाथ द्वारमंशेन कल्पयेत् ।
पार्श्वे वारयुतं चेत्तु त्रिंशदंघ्रि समन्वितम् ॥८९॥

तदेव परित्ॐशेन मण्टपाभ्यन्तरस्य च ।
लूपारोहणकं कुर्यात् अष्टविंशांघ्रिसंयुतम् ॥९०॥

पुरे वारयुतं चेत्तु चरणं चाष्टविंशतिः ।
अथवा वारहीनं तु त्रिरष्टचरणान्वितम् ॥९१॥

पादं प्रत्यल्पनास्याड्यं वेदिजालकतोरणम् ।
नानाकुंभलताद्यैस्तु कल्पितं प्रथमं भवेत् ॥९२॥

चतुर्भक्ति विशालं तु आयामे तु षडंशकम् ।
मण्टपं परित्ॐशेन कूटमभ्यन्तरेतरम् ॥९३॥

द्विभक्ति विस्तृतं चैक भक्त्यायत मुखभद्रकम् ।
द्वात्रिंशच्चरणोपेतं मण्टपस्य द्वितीयकम् ॥९४॥

विशाले पंचभक्तिः स्या आयामे सप्तभक्ति यः ।
त्रिपंचभक्ति विस्तारं दीर्घमध्ये सभा भवेत् ॥९५॥

मण्टपं परित्ॐशेन इष्टदिग्भद्रसंयुतम् ।
चत्वारिंशति पाड्यं वा सर्वालंकारसंयुतम् ॥९६॥

वेदिकाद्यैः समायुक्तं तृतीयं मण्टपं भवेत् ।
रसभक्तिविशालं तु वसुभक्त्या यताश्रकम् ॥९७॥

द्विचतुर्भक्तिविस्तारं दीर्घं मध्ये सभोदयम् ।
मण्टपं परितोऽक्षांशं इष्टदिङ्मुखभद्रकम् ॥९८॥

षष्टिसंख्यांघ्रिसंयुक्तं नासिकादि विभूषितम् ।
नानालंकारसंयुक्तं चतुर्थं मण्टपं भवेत् ॥९९॥

तारे सप्तविभागे तु नवभक्त्यायतान्वितम् ।
त्रिभक्तिविस्तृतं पंच भक्त्यायामं सभांकणम् ॥१००॥

मण्टपं परितोक्षांशं इष्टदिग्भद्रसंयुतम् ।
त्रिभक्तिविस्तृतं चैक भक्त्यायाममुखभद्रकम् ॥१०१॥

सप्ततिः स्याद्द्वयाधिक्यं पादमित्यभिधीयते ।
सर्वालंकार संयुक्तं पंचमं मण्टपं भवेत् ॥१०२॥

वसुभक्तिविशालं तु दशभक्त्यायतान्वितम् ।
द्विचतुर्भागविस्तारं दीर्घमध्ये सभोदयम् ॥१०३॥

परितो मण्टपोऽग्न्यंश मध्यस्तम्भ विवर्जितम् ।
इष्टदिङ्मुखभद्रांशं चतुर्द्व्यंशे च सुव्रत ! ॥१०४॥

षण्णवत्यंघ्रिसंयुक्तं सर्वालंकारसंयुतम् ।
षष्ठमं मण्टपं ह्येवं प्रोच्यते तु शिवार्हकम् ॥१०५॥

नवभक्त्या विशालं तु रुद्रभक्त्यायतान्वितम् ।
एकांशं भक्ति विस्तारं दीर्घमध्ये सभा भवेत् ॥१०६॥

परितो वेदभागं तु मण्टपं परिकल्पयेत् ।
त्रिचतुर्भागविस्तारं दीर्घं स्यान्मुखमण्टपम् ॥१०७॥

सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् ।
दशभक्त्याविशालं तु द्विभक्त्याधिकमायतम् ॥१०८॥

द्विचतुर्भागायतं तारं तयोर्मध्ये सभांकणम् ।
परितो लिन्दमेकांशं मण्टपाद्द्व्यंशबाह्यतः ॥१०९॥

तद्बाह्येऽलिन्दमेकांशं युक्त्यान्तस्तम्भसंयुतम् ।
इष्टदिग्भद्रसंयुक्तं अष्टमं मण्टपं भवेत् ॥११०॥

तदेव शिवांशाधिकं विस्तृतायामे त्रिपंचांशेन सभांकणम् ।
परितोऽलिन्दमेकांशं मण्टपं द्व्यंशबाह्यतः ॥१११॥

तद्बाह्येऽलिन्दमेकांशं नवमं मण्टपं भवेत् ।
आदित्यांशविशाले तु द्विभागाधिकमायतम् ॥११२॥

चतुष्षडंशम्ध्ये तु सभायारं कणं तु वा ।
बाह्यकेऽलिन्दमेकांशं मण्टपे द्व्यंशबाह्यके ॥११३॥

सान्ततालीन्दमेकांशं दशमं मण्टपं भवेत् ।
विस्तृते तु जगत्यांशे तद्द्व्यंशाधिकं मायतम् ॥११४॥

त्रिपंचांशे सभामध्ये तस्मालिन्दांशमावृतम् ।
मण्टपेऽत्र विमानं तु तद्बाह्येऽलिन्दभागया ॥११५॥

आलिन्दं तु विना वापि मण्टपं तु युगांशकम् ।
भद्रमण्टपमाख्यातं इष्टदिग्भद्रसंयुतम् ॥११६॥

मन्वंशे तु च विस्तारे द्विभागाधिकमायतम् ।
द्विचतुर्भागधायामं तारमध्ये सभांकणम् ॥११७॥

तद्बाह्येऽलिन्दमेकांशं मण्टपं चतुरश्रकम् ।
मण्टपाद्बाह्यतोऽलिन्दं भागमेवं विधीयते ॥११८॥

चतुर्दशं मण्टपं ख्यातं इष्टदिग्भद्रसंयुतम् ।
त्रिपंचांशे विशालं तु द्विभागाधिकमायतम् ॥११९॥

तिथ्यंशमण्टपं मध्ये सभां कणमिति स्मृतम् ।
अंकणावृतमेकांशं अलिन्दं तु विधीयते ॥१२०॥

तद्बाह्ये चतुरश्रं स्यात् मण्टपं प्रविधीयते ।
तस्यावृतांशतोऽलिन्दं त्रयोदशं मण्टपं भवेत् ॥१२१॥

षोडशांशे विशालं तु द्विभागाधिकमायतम् ।
चतुर्विंशांकणोपेतं बाह्येऽलिन्दांश मानतः ॥१२२॥

तद्बाह्ये चतुरंशेन मण्टपं स्याद्विशेषतः ।
तस्या वृतांशतोऽलिन्दं चतुर्दशं मण्टपं भवेत् ॥१२३॥

जात्यादि आयतं विद्यात् तत्तद्विन्यासमुच्यते ।
जालकं च कवाटं च ग्राह्यं युक्त्या विशेषतः ॥१२४॥

इष्टदिक्चरणं कुड्यं कल्पयेत्परितो बुधः ।
एवं हि मनुभेदं च सायतं मण्टपं विदुः ॥१२५॥

त्रिचतुष्पंचषट्सप्तचरणव्यास एव वा ।
सर्वेषां मण्टपानां तु भित्तिव्यासं तु पंचधा ॥१२६॥

पादायामविशाले न दारुपादेन वाप्ययम् ।
सर्वेषां मुखभद्राणां अंकणं मण्टपाकृतिः ॥१२७॥

पार्श्वे सोपानसंयुक्तं हस्तिहस्त विभूषितम् ।
पंचषट्सप्तनन्दाष्ट दण्डं वा तस्य विस्तृतम् ॥१२८॥

स पादं सार्धदण्डं वा हस्ति हस्तोदयं तथा ।
यष्टिनाभ्युतकल्प्येवं वस्वश्रं गजहस्तकम् ॥१२९॥

तनीव्र किंपुरीरास्यं लम्बाग्रं कुक्कुटाकृतिः ।
मूलादष्टांशहीनं तद् अग्रव्यासं क्रमात्कृशम् ॥१३०॥

हस्तिहस्तान्तरं विप्र ! युग्मं वा युग्मयष्टयः ।
दण्डं सपाददण्डं वा सार्ध त्रिपादपादकम् ॥१३१॥

द्विदण्डं वाथ यष्टिश्च विस्तारं स्यात्तदेव हि ।
तेन द्विगुण नीव्रं तु अधस्तान्मण्टपं भवेत् ॥१३२॥

यथेष्टरुचांगनी भागैकं भागं स्यान्ममलोदयम् ।
आदौ तस्मिन्स्थले स्थित्वा सव्यपादपुरस्सरम् ॥१३३॥

सोपानारोहणं विद्यात् मर्त्यानां तु विधीयते ।
मण्टपं ह्येवमाख्यातं गोपुरं शृणु सुव्रत ! ॥१३४॥


इत्यंशुमान्काश्यपे मण्टपलक्षणविधिपटलः (त्रिचत्वारिंशः) ॥४३॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP