संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
द्वितलमानपटलः

अंशुमत्काश्यपागमः - द्वितलमानपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण द्वितलस्य तु लक्षणम् ।
प्रासादमूलवत्कार्यं विस्तारोच्चं तु निर्गमम् ॥१॥

विन्याससूत्रयोरन्तर्व्यासं सप्तर्तु वा भजेत् ।
एकांशं कूटविस्तारं कोष्ठं तद्द्विगुणा यतम् ॥२॥

कूटव्याससमं कोष्ठं विस्तारे द्विजसत्तम ! ।
शेषं हारान्तरं कोष्ठं पार्श्वयोस्तु सपंजरम् ॥३॥

हारान्तरमशेषं वा त्रिपादं वार्धमेव वा ।
पंजरव्यासमाख्यातं कूटबाह्यसमोगतिम् ॥४॥

कूटात्किंचित् प्रवेशं वा मानसूत्रान्तनीव्रताः ।
पंजरं कर्णकूटाभं नासिकाकार एव वा ॥५॥

शालाकारं तु वा विप्र ! हस्तितुण्डाभमेव वा ।
प्रासादोच्चं तु विभजेदष्टाविंशति संख्यया ॥६॥

गुणांशं धरातलोत्सेधं रसांशं चरणोदयम् ।
प्रस्तरोत्सेधमग्न्यंशं भूतांशं चरणोदयम् ॥७॥

द्विभागं प्रस्तरोत्सेधं एकांशं वेदिकोदयम् ।
द्विभागं गलमानं तु सार्धवेदांशशीर्षकम् ॥८॥

स्तूप्युच्चं सार्धभागं तु कल्पितं शान्तिकं भवेत् ।
चतुस्त्रिंशति भागं तु कृत्वा तु सदनोदयम् ॥९॥

सार्धाग्न्यंशमधिष्ठानं तद्द्वयं चरणोदयम् ।
प्रस्तरोच्चं गुणांशं स्यात् तलिपं सार्धषड्भवेत् ॥१०॥

गुणांशं मंचमानं तु व्योमांशं वेदिकोदयम् ।
सार्धद्व्यंशं गलोत्सेधं भूतांशं शिखरोदयम् ॥११॥

अध्यर्धांशं शिखामानं पौष्टिकं सदनं भवेत् ।
तदेव गलमानं तु सार्धद्व्यंशेन कल्पयेत् ॥१२॥

शेषं पूर्ववदेवं तु त्रयस्त्रिंशोदये कृते ।
जयदं सदनं ह्येतत् सर्वदेव प्रियावहम् ॥१३॥

षट्त्रिंशद्विभजेदहर्म्यतुंगं धारातलं युगम् ।
वस्वंशपादमानं तु सार्धाग्न्यंशं तु प्रस्तरम् ॥१४॥

सप्तांशं चरणोच्चं तु गुणांशं मंचमानकम् ।
एकांशं वेदिकोच्चं तु गुणांशं तु गलोदयम् ॥१५॥

भूतांशं शिखरोच्चं तु स्तूप्युच्चं सार्धभागया ।
अद्भूतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः ॥१६॥

चत्वारिंशति भागं तु कर्तव्यं सदनोदयम् ।
अधिष्ठानोच्चं तु वेदांशं स्तंभं तद्द्विगुणायतम् ॥१७॥

युगांशं मंचमानं तु तलिपं सार्धसप्तकम् ।
त्रिभागं प्रस्तरोत्सेधं द्विभागं वेदिकोदयम् ॥१८॥

त्रिभागं ग्रीवमानं तु शिखरं सप्तभागया ।
शेषं शिखोदयं विद्याद्विमानं सर्वकामिकम् ॥१९॥

होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत् ।
चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् ॥२०॥

षडष्टैवाल्पनास्यास्युः पादं प्रति तु कल्पयेत् ।
शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् ॥२१॥

कल्पितं वेदिकाद्यैस्तु नानाचित्रैर्विचित्रितम् ।
एवं स्वस्तिकमाख्यातं सर्वदेव प्रियावहम् ॥२२॥

तदेव शिखरकोणेषु पार्श्वयोस्त्वल्पनासिका ।
स्वस्तिभद्रमितं ख्यातं मम प्रीतिकरं भवेत् ॥२३॥

तदेव नतकूटं च कोष्ठोन्नतास्समंचकाः ।
नतपंजरसंयुक्तं एतद्विपुलसुन्दरम् ॥२४॥

तदेवान्तरमंचाढ्यौ कूटकोष्ठौ विशेषतः ।
नतपंजरसंयुक्तं यथेष्टाकृति शीर्षकम् ॥२५॥

स्तूपीघटं गलं तद्वद् श्रीकरं तदुदाहृतम् ।
तदेव नवशालाः स्युः कूटोन्नतसमंचकाः ॥२६॥

निम्नपंजर संयुक्तं यत्तत्कैलासमुच्यते ।
तदेव कूटकोष्ठौ द्वौ निम्नोन्नतविहीनकौ ॥२७॥

सान्तरप्रस्तरोपेतौ समसूत्रततोन्नतौ ।
हारान्तरे विशेषेण युग्मं वा युग्मपंजरम् ॥२८॥

चतुष्कूटं चतुश्शाला षडष्टैवाल्पनासिकाः ।
वस्वश्रवेदिकोपेतं वर्तुलं शीर्षकं गलम् ॥२९॥

शिखरं वसुनासाढ्यं भद्रं चैव चतुश्चतुः ।
वेदिका तोरणाढ्यं तु रुद्रकान्तमिदं परम् ॥३०॥

तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् ।
विष्णुकान्तमिदं नाम्ना सर्वदेवार्हकं भवेत् ॥३१॥

तदेव वर्तुलं वेदीकन्धरं शिखरं तथा ।
चतुश्शालाष्टकूटाढ्यं सप्ताष्टैवाल्पनासिकाः ॥३२॥

एतत्पर्वतमित्युक्तं विमानं संपदास्पदम् ।
कूटात्कोष्ठस्य निष्क्रान्तं दण्डं वाध्यर्धदण्डकम् ॥३३॥

द्विदण्डं वा त्रिदण्डं वा कूटकोष्ठस्य निर्गतिः ।
नानाधिष्ठानसंयुक्तं नानास्तंभसमन्वितम् ॥३४॥

प्रागुक्तानां तु सर्वेषां कल्पितं वा विहीनकम् ।
तदेव शिखरोच्चार्ध कोष्ठकं तु चतुष्टयम् ॥३५॥

चतुरश्रशिरोपेतं चतुष्कूटसमन्वितम् ।
षडष्टनासिकोपेतं स्वस्तिबन्धमिदं स्मृतम् ॥३६॥

कूटकोष्ठौ द्वौ चतुश्चान्तरप्रस्तरान्वितौ ।
हारापंजरसंयुक्ता नवाष्टैवाल्पनासिकाः ॥३७॥

सर्वालंकारसंयुक्तं तत्तत्कल्याणसुन्दरम् ।
तदेव शिखरे चार्धकोष्ठकं तु विवर्जयेत् ॥३८॥

चत्वारनासिकोपेतं शिखरं परिकल्पयेत् ।
नानालंकारसंयुक्तं एतत्पांचालमिष्यते ॥३९॥

तदेवाष्टाश्र वेदी च कन्धरं शिखरं घटम् ।
शिखरेऽष्टौ महानासी युक्तं वै विष्णुकान्तकम् ॥४०॥

सान्तरे प्रस्तरोपेतं कूटकोष्ठाश्चतुश्चतुः ।
पंजराष्टकसंयुक्तं वृत्तशीर्षककन्धरम् ॥४१॥

दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ।
कर्णकूटात्तु कोष्ठादिनिष्क्रान्तं परिकल्पयेत् ॥४२॥

षडष्टाल्पनासिकोपेतं चत्वारि पङ्क्तिरेव वा ।
एतदीश्वरकान्तं स्यात् ईश्वरस्य प्रियावहम् ॥४३॥

तदेव त्रिचतुर्भागभागाधिक्यायताश्रकम् ।
तथा शीर्षककण्ठं च वेदिकां च प्रकल्पयेत् ॥४४॥

स्तूपि त्रयसमायुक्तं एतन्मंगलमुच्यते ।
तदेवायतवृत्ताभं गान्धारमिति विद्यते ॥४५॥

तारादर्धाधिकायामं आयताश्रं समाश्रं वा ।
द्व्यश्रवृत्तं शिरोयुक्तं वेदिका च गलं तथा ॥४६॥

नेत्रशालामुखाकारं हस्तिपृष्ठमिदं परम् ।
द्व्यश्रवृत्तमुपानादि कल्पितं वा तदेव हि ॥४७॥

समाश्रमायताश्रं वा बाह्यतः परिकल्पयेत् ।
वृत्तगर्भगृहोपेतां कूटकोष्ठादिसंयुतम् ॥४८॥

वृत्ताभं कर्णकूटानां श्रीकरं परिकल्पयेत् ।
कूटकोष्ठं च नीडं च समसूत्रे तु कल्पयेत् ॥४९॥

नाम्ना मनोहरं हर्म्यं सर्वदेवार्हकं परम् ।
उपानात्स्तूपि पर्यन्तं वृत्तं चैव बहिर्बहिः ॥५०॥

शेषं प्रागिवमुद्दिष्टं शिवकान्तमिदं परम् ।
चतुरश्रमधिष्ठानं गर्भगेहं तथैव च ॥५१॥

अधिष्ठानोपरिष्ठात्तु स्तूप्यन्तं वर्तुलाकृतिः ।
कूटकोष्ठादि सर्वांगं युक्तं वृत्तग्रहं भवेत् ॥५२॥

चतुरश्रमधिष्ठानं आयताश्रमथापि वा ।
रसाश्रं शिखरं कण्ठं कूटकोष्ठादि संयुतम् ॥५३॥

यथोचितं तु संकल्प्य नाम्ना कौबेर कान्तकम् ।
एवं तु द्वितलं योग्यं भेदा अष्टादश स्मृताः ॥५४॥

इष्टकाभिश्शिलाभिर्वा होमादिस्तूपिकान्तकम् ।
कल्पितं संचितं हर्म्यं पुमानेव घनीकृतम् ॥५५॥

दृषत्रदेष्टकामिश्च मिश्रहर्म्यं तदेव हि ।
मिश्रेष्वादौदृषत्कार्यं तदूर्ध्वे त्विष्टका क्रिया ॥५६॥

वनिता संचिता ख्याता घनाघनमिति स्मृतम् ।
इष्टकादारुणा चैव तन्मिश्रं षण्डमुच्यते ॥५७॥

तदेवोपसंचितं ख्यातं घनाघनमुदाहृतम् ।
अंशेन रहितं कार्यं संचितं स्मृति विद्यते ॥५८॥

अघनं चेति तत्ख्यातं एतत्पुंषण्डयोषितः ।
वक्त्रमण्टपमानं च गर्भगेहविशालकम् ॥५९॥

भित्तिव्यासं च ते सर्वे प्राग्वदेकतलोक्तवत् ।
द्वारस्योभय पार्श्वे तु पादयोरन्तरे द्विज ! ॥६०॥

द्वारपालगुहां कुर्यात् तलादुत्तरसीमकम् ।
बिम्बोदित विशालं तु दण्डमात्रं तु वेशरम् ॥६१॥

सर्वधाम्नि च कर्तव्यं वेशनारहितं तु वा ।
एवं द्वितलमाख्यातं त्रितलं तु तथा विदुः ॥६२॥

इत्यंशुमान्काश्यपे द्वितलमानपटलः (सप्ताविंशः) ॥२७॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP