संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
कंकालमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - कंकालमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


संमानितं सदानन्दं सेवितं तैः सुपूजितम् ।
वीथिं संमार्जयेद्वायुः पर्जन्यो जलसेचनम् ॥१८॥

पुष्पवृष्टिं कृता देवाः शंख * * * * * * ।

ऋग्यजुस्सामाथर्वैश्च स्तुत्यं कुर्यात्पुरे पुरे ।
चर्मबन्धं च कंसं च कदम्बं सुषिरमेव वा ॥२०॥

शंखध्वनिसमायुक्तं पंचशब्द महारथैः ।
तुम्बुरु नारदाः सर्वैश्च गेयकर्म सलक्षणम् ॥२१॥

छत्रं धृत्वा रविच्चित्रं चामरा दिव्ययोषितः ।
सर्वलोकोपकारार्थं इन्द्रस्य भवनादिषु ॥२२॥

रक्षां करोम्यहं विप्र कंकालस्य तु मोक्षदम् ।

काश्यपोवाच॥

त्वया वै धारितस्यास्य कंकालस्योद्भवं कथम् ॥२३॥

इदानीं पुरतो विप्र मृत्युते तु जनार्दनः ।
तद्देहं भुवनादित्वं भये यस्तु स्वशक्तयः ॥२४॥

कम्पितात्तु समस्ताण्डात् तदा स्वण्डाधिवासिनः ।
प्रार्थये युस्तु मां भक्त्या तेषां भयनिवृत्तये ॥२५॥

अण्डानां सुस्थितार्थं तु सर्वे लोकोपकारकम् ।
कंकालं मोचनार्थं तु तद्धृतैव महद्विज ! ॥२६॥

भिक्षान्ते मोचयेदेतत् कंकालं माधवे भवेत् ।
एवं कंकालमाख्यातं हर्यर्धं च ततः शृणु ॥२७॥


इत्यंशुमान्काश्यपे कंकालमूर्तिलक्षणपटलः (पंचसप्ततितमः) ॥७५॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP