संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| ग्रामादिलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - ग्रामादिलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत ग्रामादिलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण भूमानं शृणु सुव्रत ! ।समाश्रमायताश्रं च विषमाग्रं तथैव च ॥१॥प्. ३८६) योन्याकारार्धचन्द्रं च त्रिकोणं वृत्तमेव च ।पंचाश्रं च षडश्रं च सप्ताश्रं चाष्टकोणकम् ॥२॥अथ वक्ष्ये विशेषेण ग्रामादीनां च लक्षणम् ।त्रिपंचदण्डमारभ्य द्विद्विदण्डविवर्धनात् ॥१॥एकोनविंशदण्डानां चत्वारिंशत् त्रयाधिकम् ।भेदं ग्रामादि विस्तारमत्याभा समुदाहृतम् ॥२॥सैकं तु शतदण्डादि दशदण्डविवर्धनात् ।यावदष्टसहस्रान्तं जात्येकं त्रिंशतिर्भवेत् ॥३॥माषा वि * * समान्य मायामं पंचधा भवेत् ।आयादि संपदार्थं तु दण्डच्छेदं विनायतम् ॥४॥हीनं वात्वधिकं वापि ओजसं स्यात्परिग्रहेत् ।भानुद्विगुणमाधिक्यं त्रिशतं भूसुरद्विज ! ॥५॥षोडशद्विशतं चैव पंचाशतमतः परम् ।विप्रैरधिष्ठितं वास्तु त्रिधाभा समुदाहृतम् ॥६॥चतुर्विंशत्सहस्रं च विकल्पं त्रिविधं भवेत् ।सप्तषट्पंचसाहस्रं छन्दोभेदं त्रिधा भवेत् ॥७॥भानुसंख्या सहस्रं च दशसाहस्रमेव वा ।तथैवाष्टसहस्रं च जातिभेदं त्रिधा भवेत् ॥८॥अन्याभात्याशक्तान्तामेकादि नवसीमकम् ।अत्यन्ताभास भेदं च नवधा द्विजसत्तम ! ॥९॥ह्यासायामं भुजाभ्यं च वदौघं च विदुर्बुधाः ।अष्टाभिर्वर्धयेद्धीमान् गुणव्रासं वसुभिर्हरेत् ॥१०॥शेषं ध्वजादि योनिं स्यात् परितापवटं तथा ।त्रिंशार्धववशेषं तु नन्दादि निधयोद्भवेत् ॥११॥विदेव वर्गभिर्ग्रासे शेषं भानु दिवाकरम् ।आयाधिक्यं व्ययं क्षीणं संपदामास्पदं पदम् ॥१२॥योनि धूमं च धानं च खरकाकं तथैव च ।व्याधिरोगभयक्लेशं वर्धयेयुः परस्परम् ॥१३॥ध्वजसिंह वृषं चैव गजं चैव सुखावहम् ।वारेषु सितशशी वृद्धिः गुरुवारे च ऋद्धिदम् ॥१४॥वर्जिताश्चान्य वारादि गृहितेव विदास्पदम् ।भद्रा चैव जया पूर्णा तिथयस्तु शुभावहाः ॥१५॥नन्दायां यत्तु रिक्तायां श्रिश्रिकाममशोभनम् ।कर्तृजन्मादिनाध्वास्तु * * स्तुदिनसीमकम् ॥१६॥गणयेज्जन्मनक्षत्रं वेदं चैव ऋतुस्तथा ।वसुनन्ददिनं श्रेष्ठं जन्मादि च पुनः पुनः ॥१७॥पूजितास्त्वितरा वर्ज्यावैनाशिकं विवर्जयेत् ।विषाय द्वादशं लग्नं मत्यावसुर वर्जयेत् ॥१८॥तिथिवारादीनि योज्य अयोग्यं परिवर्जितम् ।भुक्तजन्मदिनद्वास्तु नाम ऋक्षविरोधिकम् ॥१९॥एवं परीक्ष्य बहुधा विन्यासं च ततः शृणु ।मेषे च मिथुने कर्किसिंहतौलिकवृश्चिके ॥२०॥कुंभे च मकरे भानुगते पक्षार्क्ष शोभने ।ग्रामाद्यारम्भणं श्रेष्ठं गृहारम्भं च शोभनम् ॥२१॥धनुर्मीनेऽथवा चैव कन्यायां भानुसंगते ।ग्रामारम्भं न कर्तव्यं विपरीतं न कारयेत् ॥२२॥कथमे तत्र वासीनां व्याधि शोकमुदाहृतम् ।विप्रैरधिष्ठितं यत्तन् मलक्ष्म्या विद्यते द्विज ! ॥२३॥नृपवासं पुरा ख्यातं वैश्यानां नागरं भवेत् ।ग्रामाः स्यदन्यवासं तु कुटिका चेति कीर्तितम् ॥२४॥खेटकं चेति विख्यातं विटपं चेति कीर्तितम् ।समस्तजाति संयुक्तं क्रयविक्रयकैर्युतम् ॥२५॥द्वीपान्तरागत द्रव्य क्षौमरत्नधनादिभिः ।सागराणां तु पार्श्वे तु सागरानुगतायतम् ॥२६॥तत्तद्वर्तनमाख्यातं शेषं युक्त्याभिधानतः ।जले पर्ववधंकस्तिवने वा गिरिसंगरे ॥२७॥देवैर्भूतपिशाचैर्वा मर्त्यानां दुष्प्रयोजनम् ।समस्तजाति संयुक्तं सर्वद्रव्यसमन्वितम् ॥२८॥राजवेश्मसमायुक्तं वर्तदुर्गमिति स्मृतम् ।प्रागुक्त विधिना विप्र दिक्परिच्छेदनं कुरु ॥२९॥भूमिं समतलं कृत्वा पदविन्यासमाचरेत् ।सकलं पादमेवं स्यात् पेचकं तु चतुष्पदम् ॥३०॥नवांशं पीठमाख्यातं महापिठं कलांशकम् ।पंचविंशत्युपपीठं स्यात् षड्विंशत्युपपीठकम् ॥३१॥स्थण्डिलं सप्तसप्तांशं अष्टांशं मण्डुकं भवेत् ।षण्णवत्याधिकं चैव शतभद्र महासनम् ॥३२॥पंचविंशद्द्विशतं पद्मगर्भमुदाहृतम् ।रसाधिकं च पंचांशं * शत त्रियुतं भवेत् ॥३३॥द्विशतासनवासीतिवृतभोगमुदाहृतम् ।त्रितं च षट्चतुर्युक्तं कर्णौषकमुदाहृतम् ॥३४॥सुसंहितपदं चैव चत्वारिंशच्चतुष्पदम् ॥३५॥सवेदाशीतिकं चातुशतीकप्रतिकान्तकम् ।सनन्दपंचवेदांशं पंचादशविशालकम् ॥३६॥षट्सप्तति पंच शतं विप्रगर्भमिति स्मृतम् ।विन्यषड्द्विशतं पंच * * कोष्ठसमन्वितम् ॥३७॥षट्सप्तति षट्पीतं च यत्तत् स्याद् विप्रभोगकम् ।नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥३८॥विशालाक्षपदं वेदाशीति सप्तशतांशकम् ।सैकाष्टपंचयुतं चाष्टशतं तु विप्राणाम् ॥३९॥विश्वेशसारमित्युक्तं एतन्नवशतांशकम् ।सैकाष्टकाधिकं दशशतमीश्वरस्य कारकम् ॥४०॥चतुर्विंशति संयुक्तं सहस्रचित्तकान्तकम् ।विन्यासार्धं तु ग्रामाणां पदं च त्रिंशतं भवेत् ॥४१॥तेष्वादौ पंचभेदं तु अत्याभासमभं भवेत् ।तदन्ते तत्समाभासं सविकल्पात्तदान्तकम् ॥४२॥पंचसंख्या विकल्पान्ते छन्दानां भागमिष्यते ।शेषजाति विभागं स्यात् विन्यासार्धक्रमं भवेत् ॥४३ ।कर्तुरिच्छानुसारान्तं सर्ववास्तुषु वास्तु च ।युगांशे सूत्रमध्ये तु ओजांशे पदमध्यमे ॥४४॥समस्तविविधं कुर्यात् इतरच्च न कारयेत् ।एकद्वित्रिचतुष्पंचदण्डं वा वीथिविस्तृतम् ॥४५॥वास्तुमध्यगता वीथीप्राङ्मुखो वाप्युदङ्मुखः ।ब्रह्मवीथिरिति ख्याता नाभिवीथीति चोच्यते ॥४६॥बाह्ये परिवृतं यत्तद्वीथि मंगलमुच्यते ।तदेव जघनं वीथि रथवीथिरिहोच्यते ॥४७॥द्वारायतन संयुक्ता राजवीथिरुदाहृता ।तिर्यग्द्वारसमायुक्ता या सा नारा च संज्ञिता ॥४८॥उत्तराभिमुखी मार्गा क्षुद्रार्गलेति संज्ञिता ।वीथीनाराचकादीनां पथनाम्ना प्रशंसिता ॥४९॥ग्रामादिषु विशेषेण पदनाम्नान्तरेषु च ।जने वीथेर्वष्ठा च गृहकर्मसुखावहम् ॥५०॥सूत्रसंधि चतुष्काद्यैः भयास्तेष्टं न भाव्यते ।तस्माद्यथेष्टशैलेषु दिष्टमाने गृहं कुरु ॥५१॥मानसूत्रस्य बाह्ये तु सूत्रादीनां तु बाधक ।प्रथमध्यपथाग्रे च कर्मबाह्ये गृहोन्नतम् ॥५२॥दण्डकं स्वस्तिकं चैव प्रस्तारं च प्रकीर्तितम् ।नन्द्यावर्तपरागं च पद्मकं श्री प्रतिष्ठितम् ॥५२॥वास्तु भेदोष्टधा ज्ञेयः प्रत्येकं स्थाप्य नैकधा ।दण्डाकारैकवीथी स्यात् प्राङ्मुखं वाप्युदङ्मुखम् ॥५४॥पक्षद्वयसमायुक्ता पक्षवंशं च दण्डवत् ।मुखे मुखे विनिष्ठान्तं यत्तद्दण्डकमुच्यते ॥५५॥प्राङ्मुखात्वेक वीथी स्यान् मध्ये त्वेक मुदङ्मुखम् ।कर्करी दण्डकं ह्येवं चतुर्दिग्वेश्मनिर्गमम् ॥५६॥तदेव परितो वीथी बाह्ये पक्षयमन्वितम् ।पर्जन्यांशे च पूषांशे दौवारिके तथैव च ॥५७॥नागांशे चैव निस्त्रान्तं वेश्मनार्धपथं भवेत् ।जनवीध्यावसानं तु तर्हिवीथी द्विजोत्तम ! ॥५८॥वीथ्यन्तरेषु जालं स्याद्वग्रहं वायुगोचरः ।श्रीकरं दण्डकं ह्येतत् सर्वेषां दण्डसंपदम् ॥५९॥तदेव नाभिवीथी द्वौ विना स्वस्तिकमुच्यते ।प्रागग्रं गुणवीथी स्यादुदगग्रं तथैव च ॥६०॥चतुष्पंचरसं चाथ सप्ताष्ट नवकं तु वा ।कल्पितं प्रस्तरं ख्यातं सर्वभेदा द्विजोत्तम ! ॥६१॥वीथिनांशेन नीव्रं च श्रीकरं दण्डकं भवेत् ।प्रागग्रं वेदवीथी स्यात् उदगग्रं तथैव च ॥६२॥पंचषट्सप्तचाष्टौ च नवधर्मशिवैरपि ।त्रयोदशपदं वाथ प्रकीर्णं नवधा भवेत् ॥६३॥महेन्द्रो ग्रहक्षतश्चैव पुष्पदन्तेन देव वा ।भल्लाटस्यांगके चैव प्रवेशं परिकल्पयेत् ॥६४॥प्राङ्मुखं वह्निवीथी स्यादुदगग्रं त्रयोदश ।मनु वा षट्कला वा यत् सप्तादश पदं तु वा ॥६५॥नन्द्यावर्तमिदं पंच भेदमत्र विधीयते ।महेन्द्रादिष्वंशकेषु प्रवेशं तु प्रकीर्णवत् ॥६६॥प्राङ्मुखं रथवीथीस्यादुदग्वक्त्रं तु षोडश ।एक वीथ्या त्रयोविंशत् दन्तं परागमष्टधा ॥६७॥परा प्रागिव कर्तव्यं उपद्वाराण्यथोच्यते ।पर्जन्यांशेन्तरिक्षांशे पुष्य * * * * शके ॥६८॥दौवारिके च पापांशे * * * चोदिकांशके ।उपद्वाराष्टको पेतं परागं चेदि विद्यते ॥६९॥प्राङ्मुखं सप्तवीथी स्यादुदगग्रैक विंशतिः ।अष्टाविंशतिकं यावत् तावदेकविवर्धनात् ॥७०॥एवमष्टविधं ज्ञातं श्रीप्रतिष्ठितलक्षणम् ।एतद्वाराष्टकोपेता उपद्वाराष्टकान्विता ॥७१॥अथवा वेद वेशं वा उपवेशं तु पूर्ववत् ।दण्डकाद्यष्टवस्त्राणां भेदं वै हिनका तथा ॥७२॥ग्रामादीनां च विस्तारं भानुधर्माष्टसप्तधा ।भूतवेदांशकं कृत्वा नगसप्तदशांशकम् ॥७३॥भूतवेदाग्निभागं तु क्रमाद्भागविधिं शृणु ।मानसूत्राद्बहिर्विप्र ! स्यान्तरं षड्विधं भवेत् ॥७४॥एक द्वित्रिचतुष्पंचहस्तं वापि प्रविस्तरात् ।त्रिपंच सप्तहस्तं वा नवरुद्रकरं तु वा ॥७५॥त्रयोदशकरं वाथ व प्रतुंगमुदाहृतम् ।त्रिचतुःपंचषट्सप्त वस्वग्रं वा विशेषतः ॥७६॥व प्रमूलं ततः कृत्वा एकांशेनाग्रविस्तृतम् ।शिलाभिरिष्टकाभिर्वा मुद्रा वा परिकल्पयेत् ॥७७॥चित्रभं बुद्बुदाभं वा कृकलासवदाकृतिः ।उपचस्यापरद्वार वप्रशीर्षकमाचरेत् ॥७८॥करालमुद्गगुल्माषा कल्कचिक्कण कर्मवान् ।लक्षं समालिपेदूर्ध्वे इष्टकामस्तयोरपि ॥७९॥मृण्मयैर्दारुभिः पात्रैः छादयेत्तु तृणादिभिः ।तद्बाह्याभ्यन्तरे चैव खल्लुरीवेष्टमानतः ॥८०॥वासार्थं सत्पदादीनां रक्षणं तु विशेषतः ।तद्बाह्ये इष्टकानेन प्रचारभूम्या वृतं भवेत् ॥८१॥बाह्ये भीष्टमानेन परिखां परिकल्पयेत् ।वप्रस्याभ्यन्तरे विप्र ! देवतास्थापनं भवेत् ॥८२॥शिवहर्म्यं च मातॄणां सदं बाह्ये तु वा भवेत् ।परिखायास्तु साह्ये च त्वसंकल्प्य द्विजोत्तम ॥८३॥आदित्यांशे तु भानुः स्यात् आग्नेय्यां कालिकोष्ठकम् ।भूतांगे विष्णुगेहं स्यात् सुग्रीवे सुगतालयम् ॥८४॥जिनालयं पद्ॐकाराजांशे वा पयक्षे विनायकम् ।मन्दुरालयं तु वायव्ये सुख्ये कन्यायनिग्रहम् ॥८५॥मन्त्राणामालयं सौम्ये वायव्यां शांकरेऽपि वा ।एवमेषु शिवहर्म्यं स्यात् सौनाशान्तरेऽपि वा ॥८६॥पर्जन्यांशे जयन्ते वा महेन्द्रा देवतां हिके ।वारुणांशे तु वा विप्र ! कर्तव्यं शिवमन्दिरम् ॥८७॥शिवालयान्मातृकोष्ठं च कर्तव्यं तु बहिर्मुखम् ।अभ्यन्तरमुखो विष्णुः विवस्वान्पश्चिमाननम् ॥८८॥शेषाः पूर्वमुखाः सर्वे कारयेद्विधिपूर्वकम् ।सूत्रे संधौ चतुष्के च शूलशैवाष्टकेऽपि वा ॥८९॥षट्के चैव तु वीथ्यग्रे देवालयं न कारयेत् ।वापीकूपतटाकादि सर्वत्र परिकल्पयेत् ॥९०॥ब्रह्मण्ॐशे सभास्थानं वारुणे हरिमन्दिरम् ।बाह्ये शक्रे कुलालानां नापितानां तु शांकरे ॥९१॥दक्षिणे रोमदण्डीनां करुणं चैव तत्र वै ।मत्स्योपजीवनानां तु पश्चिमे वास उच्यते ॥९२॥शांकरे च क्रयाणां त्वाभरणं तत्समीपके ।वप्र बाह्ये त्वबाह्ये वा कर्मकारादयोनिले ॥९३॥तद्बाह्ये त्वल्प्रदूरे तु रजकानां गृहं भवेत् ।महेन्द्रादग्निभागं स्यात् भक्ष्यं भोज्यं च विक्रयम् ॥९४॥वस्त्राणां विक्रयं चैव तण्डुलं धान्यकादिकम् ।उत्तरे लवणं चैव तैलं चन्दनपुष्पकम् ॥९५॥तद्बाह्ये क्रोशमात्रेण चण्डालावासमुच्यते ।शांकरे परिबाह्ये तु शतदण्डे श्मशानकम् ॥९६॥वायव्यां वा श्मशानं च प्रण्यमाने विशेषतः ।अपणं मानसूत्रं तु बाह्ये सालान्तरं भवेत् ॥९७॥हेमरत्नादयश्चैव सर्वत्रैवाह्यकं भवेत् ।ग्रामादि लक्षणं प्रोक्तं गृहविन्यासकं शृणु ॥९८॥इत्यंशुमान्काश्यपे ग्रामादिलक्षणपटलः (चतुर्नवतितमः) ॥९४॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP